\id PHP Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Philippians \toc1 फिलिपिनः पत्रं \toc2 फिलिपिनः \toc3 फिलिपिनः \mt1 फिलिपिनः पत्रं \c 1 \p \v 1 पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः। \p \v 2 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां। \p \v 3 अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् \p \v 4 यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् \p \v 5 युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि। \p \v 6 युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते। \p \v 7 युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि। \p \v 8 अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते। \p \v 9 मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा \p \v 10 ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु, \p \v 11 ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति। \p \v 12 हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं। \p \v 13 अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्, \p \v 14 प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति। \p \v 15 केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति; \p \v 16 ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति। \p \v 17 ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति। \p \v 18 किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च। \p \v 19 युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि। \p \v 20 तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते। \p \v 21 यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय। \p \v 22 किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते। \p \v 23 द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं। \p \v 24 किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं। \p \v 25 अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि। \p \v 26 तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे। \p \v 27 यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति। \p \v 28 तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति। \p \v 29 यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि, \p \v 30 तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। \c 2 \p \v 1 ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त \p \v 2 एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत। \p \v 3 विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। \p \v 4 केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं। \p \v 5 ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु। \p \v 6 स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत, \p \v 7 किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च। \p \v 8 इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव। \p \v 9 तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ, \p \v 10 ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः, \p \v 11 तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं। \p \v 12 अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां। \p \v 13 यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति। \p \v 14 यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला \p \v 15 ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत, \p \v 16 यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि। \p \v 17 युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च। \p \v 18 तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च। \p \v 19 युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे। \p \v 20 यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति। \p \v 21 यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति। \p \v 22 किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः। \p \v 23 अतएव मम भाविदशां ज्ञात्वा तत्क्षणात् तमेव प्रेषयितुं प्रत्याशां कुर्व्वे \p \v 24 स्वयम् अहमपि तूर्णं युष्मत्समीपं गमिष्यामीत्याशां प्रभुना कुर्व्वे। \p \v 25 अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये। \p \v 26 यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च। \p \v 27 स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्। \p \v 28 अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं। \p \v 29 अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं। \p \v 30 यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्। \c 3 \p \v 1 हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति। \p \v 2 यूयं कुक्कुरेभ्यः सावधाना भवत दुष्कर्म्मकारिभ्यः सावधाना भवत छिन्नमूलेभ्यो लोकेभ्यश्च सावधाना भवत। \p \v 3 वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे। \p \v 4 किन्तु शरीरे मम प्रगल्भतायाः कारणं विद्यते, कश्चिद् यदि शरीरेण प्रगल्भतां चिकीर्षति तर्हि तस्माद् अपि मम प्रगल्भताया गुरुतरं कारणं विद्यते। \p \v 5 यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी \p \v 6 धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः। \p \v 7 किन्तु मम यद्यत् लभ्यम् आसीत् तत् सर्व्वम् अहं ख्रीष्टस्यानुरोधात् क्षतिम् अमन्ये। \p \v 8 किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये। \p \v 9 यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये। \p \v 10 यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा \p \v 11 येन केनचित् प्रकारेण मृतानां पुनरुत्थितिं प्राप्तुं यते। \p \v 12 मया तत् सर्व्वम् अधुना प्रापि सिद्धता वालम्भि तन्नहि किन्तु यदर्थम् अहं ख्रीष्टेन धारितस्तद् धारयितुं धावामि। \p \v 13 हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य \p \v 14 पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे। \p \v 15 अस्माकं मध्ये ये सिद्धास्तैः सर्व्वैस्तदेव भाव्यतां, यदि च कञ्चन विषयम् अधि युष्माकम् अपरो भावो भवति तर्हीश्वरस्तमपि युष्माकं प्रति प्रकाशयिष्यति। \p \v 16 किन्तु वयं यद्यद् अवगता आस्मस्तत्रास्माभिरेको विधिराचरितव्य एकभावै र्भवितव्यञ्च। \p \v 17 हे भ्रातरः, यूयं ममानुगामिनो भवत वयञ्च यादृगाचरणस्य निदर्शनस्वरूपा भवामस्तादृगाचारिणो लोकान् आलोकयध्वं। \p \v 18 यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते। \p \v 19 तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः। \p \v 20 किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे। \p \v 21 स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति। \c 4 \p \v 1 हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत। \p \v 2 हे इवदिये हे सुन्तुखि युवां प्रभौ एकभावे भवतम् एतद् अहं प्रार्थये। \p \v 3 हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते। \p \v 4 यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत। \p \v 5 युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते। \p \v 6 यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। \p \v 7 तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति। \p \v 8 हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं। \p \v 9 यूयं मां दृष्ट्वा श्रुत्वा च यद्यत् शिक्षितवन्तो गृहीतवन्तश्च तदेवाचरत तस्मात् शान्तिदायक ईश्वरो युष्माभिः सार्द्धं स्थास्यति। \p \v 10 ममोपकाराय युष्माकं या चिन्ता पूर्व्वम् आसीत् किन्तु कर्म्मद्वारं न प्राप्नोत् इदानीं सा पुनरफलत् इत्यस्मिन् प्रभौ मम परमाह्लादोऽजायत। \p \v 11 अहं यद् दैन्यकारणाद् इदं वदामि तन्नहि यतो मम या काचिद् अवस्था भवेत् तस्यां सन्तोष्टुम् अशिक्षयं। \p \v 12 दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि। \p \v 13 मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति। \p \v 14 किन्तु युष्माभि र्दैन्यनिवारणाय माम् उपकृत्य सत्कर्म्माकारि। \p \v 15 हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ। \p \v 16 यतो युष्माभि र्मम प्रयोजनाय थिषलनीकीनगरमपि मां प्रति पुनः पुनर्दानं प्रेषितं। \p \v 17 अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये। \p \v 18 किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि। \p \v 19 ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्। \p \v 20 अस्माकं पितुरीश्वरस्य धन्यवादोऽनन्तकालं यावद् भवतु। आमेन्। \p \v 21 यूयं यीशुख्रीष्टस्यैकैकं पवित्रजनं नमस्कुरुत। मम सङ्गिभ्रातरो यूष्मान् नमस्कुर्व्वते। \p \v 22 सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते। \p \v 23 अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादः सर्व्वान् युष्मान् प्रति भूयात्। आमेन्।