\id MRK Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Mark \toc1 मार्कलिखितः सुसंवादः \toc2 मार्कः \toc3 मार्कः \mt1 मार्कलिखितः सुसंवादः \c 1 \p \v 1 ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः। \p \v 2 भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति। \p \v 3 "परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥ \p \v 4 सएव योहन् प्रान्तरे मज्जितवान् तथा पापमार्जननिमित्तं मनोव्यावर्त्तकमज्जनस्य कथाञ्च प्रचारितवान्। \p \v 5 ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः। \p \v 6 अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्। \p \v 7 स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति। \p \v 8 अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति। \p \v 9 अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्। \p \v 10 स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्। \p \v 11 त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव। \p \v 12 तस्मिन् काले आत्मा तं प्रान्तरमध्यं निनाय। \p \v 13 अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे। \p \v 14 अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास, \p \v 15 कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित। \p \v 16 तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्, \p \v 17 युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि। \p \v 18 ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः। \p \v 19 ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्। \p \v 20 ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः। \p \v 21 ततः परं कफर्नाहूम्नामकं नगरमुपस्थाय स विश्रामदिवसे भजनग्रहं प्रविश्य समुपदिदेश। \p \v 22 तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश। \p \v 23 अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके \p \v 24 भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि। \p \v 25 तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च। \p \v 26 ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम। \p \v 27 तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति। \p \v 28 तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्। \p \v 29 अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः। \p \v 30 तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः। \p \v 31 ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे। \p \v 32 अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः। \p \v 33 सर्व्वे नागरिका लोका द्वारि संमिलिताश्च। \p \v 34 ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्। \p \v 35 अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे। \p \v 36 अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः। \p \v 37 तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते। \p \v 38 तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्। \p \v 39 अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च। \p \v 40 अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति। \p \v 41 ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास \p \v 42 ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्। \p \v 43 तदा स तं विसृजन् गाढमादिश्य जगाद \p \v 44 सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च। \p \v 45 किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः। \c 2 \p \v 1 तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः, \p \v 2 तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे। \p \v 3 ततः परं लोकाश्चतुर्भि र्मानवैरेकं पक्षाघातिनं वाहयित्वा तत्समीपम् आनिन्युः। \p \v 4 किन्तु जनानां बहुत्वात् तं यीशोः सम्मुखमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्ठं खनित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः। \p \v 5 ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु। \p \v 6 तदा कियन्तोऽध्यापकास्तत्रोपविशन्तो मनोभि र्वितर्कयाञ्चक्रुः, एष मनुष्य एतादृशीमीश्वरनिन्दां कथां कुतः कथयति? \p \v 7 ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते? \p \v 8 इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ? \p \v 9 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश। \p \v 10 किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास) \p \v 11 उत्तिष्ठ तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि। \p \v 12 ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्। \p \v 13 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश। \p \v 14 अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ। \p \v 15 अनन्तरं यीशौ तस्य गृहे भोक्तुम् उपविष्टे बहवः करमञ्चायिनः पापिनश्च तेन तच्छिष्यैश्च सहोपविविशुः, यतो बहवस्तत्पश्चादाजग्मुः। \p \v 16 तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च? \p \v 17 तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव। \p \v 18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य? \p \v 19 तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति। \p \v 20 यस्मिन् काले तेभ्यः सकाशाद् वरो नेष्यते स काल आगच्छति, तस्मिन् काले ते जना उपवत्स्यन्ति। \p \v 21 कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते। \p \v 22 कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः। \p \v 23 तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः। \p \v 24 अतः फिरूशिनो यीशवे कथयामासुः पश्यतु विश्रामवासरे यत् कर्म्म न कर्त्तव्यं तद् इमे कुतः कुर्व्वन्ति? \p \v 25 तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्? \p \v 26 अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ। \p \v 27 सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव। \p \v 28 मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते। \c 3 \p \v 1 अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्। \p \v 2 स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः। \p \v 3 तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ। \p \v 4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः। \p \v 5 तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः। \p \v 6 अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे। \p \v 7 अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः; \p \v 8 ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः। \p \v 9 तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्। \p \v 10 यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः। \p \v 11 अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः। \p \v 12 किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्। \p \v 13 अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः। \p \v 14 तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं \p \v 15 सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्। \p \v 16 तेषां नामानीमानि, शिमोन् सिवदिपुत्रो \p \v 17 याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः, \p \v 18 मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च। \p \v 19 स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ। \p \v 20 अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः। \p \v 21 ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः। \p \v 22 अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति। \p \v 23 ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति? \p \v 24 किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति। \p \v 25 तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति। \p \v 26 तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति। \p \v 27 अपरञ्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति। \p \v 28 अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति, \p \v 29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। \p \v 30 तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्। \p \v 31 अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः। \p \v 32 ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति। \p \v 33 तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास \p \v 34 पश्यतैते मम माता भ्रातरश्च। \p \v 35 यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च। \c 4 \p \v 1 अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः। \p \v 2 तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्, \p \v 3 अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः; \p \v 4 वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः। \p \v 5 कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि; \p \v 6 किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च। \p \v 7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि। \p \v 8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति। \p \v 9 अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु। \p \v 10 तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः। \p \v 11 तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति; \p \v 12 किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि। \p \v 13 अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे? \p \v 14 बीजवप्ता वाक्यरूपाणि बीजानि वपति; \p \v 15 तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः। \p \v 16 ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः \p \v 17 कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः। \p \v 18 ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति \p \v 19 तएव उप्तबीजसकण्टकभूमिस्वरूपाः। \p \v 20 ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः। \p \v 21 तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं? \p \v 22 अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति। \p \v 23 यस्य श्रोतुं कर्णौ स्तः स शृणोतु। \p \v 24 अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते। \p \v 25 यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते। \p \v 26 अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा \p \v 27 जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च; \p \v 28 यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति; \p \v 29 किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं। \p \v 30 पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि? \p \v 31 तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं \p \v 32 किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते। \p \v 33 इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्, \p \v 34 दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्। \p \v 35 तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम। \p \v 36 तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः। \p \v 37 ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च। \p \v 38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति? \p \v 39 तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्। \p \v 40 तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति? \p \v 41 तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः। \c 5 \p \v 1 अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः। \p \v 2 नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार। \p \v 3 स श्मशानेऽवात्सीत् कोपि तं शृङ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्। \p \v 4 जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक। \p \v 5 दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्। \p \v 6 स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच, \p \v 7 हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय। \p \v 8 यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ। \p \v 9 अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके ऽस्मस्ततोऽस्मन्नाम बाहिनी। \p \v 10 ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त। \p \v 11 तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्। \p \v 12 तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु। \p \v 13 यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः। \p \v 14 तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथयाञ्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः \p \v 15 यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः। \p \v 16 ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः। \p \v 17 ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे। \p \v 18 अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते; \p \v 19 किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय। \p \v 20 अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे। \p \v 21 अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्। \p \v 22 अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्; \p \v 23 मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति। \p \v 24 तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः। \p \v 25 अथ द्वादशवर्षाणि प्रदररोगेण \p \v 26 शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःखं भुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च \p \v 27 या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि। \p \v 28 अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श। \p \v 29 तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता। \p \v 30 अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा ज्ञात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं? \p \v 31 ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति? \p \v 32 किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्। \p \v 33 ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास। \p \v 34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ। \p \v 35 इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि? \p \v 36 किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि। \p \v 37 अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत। \p \v 38 तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श। \p \v 39 तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति। \p \v 40 तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वसङ्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्। \p \v 41 अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि। \p \v 42 तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः। \p \v 43 तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्। \c 6 \p \v 1 अनन्तरं स तत्स्थानात् प्रस्थाय स्वप्रदेशमागतः शिष्याश्च तत्पश्चाद् गताः। \p \v 2 अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्? \p \v 3 किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः। \p \v 4 तदा यीशुस्तेभ्योऽकथयत् स्वदेशं स्वकुटुम्बान् स्वपरिजनांश्च विना कुत्रापि भविष्यद्वादी असत्कृतो न भवति। \p \v 5 अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः। \p \v 6 अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान् \p \v 7 द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्। \p \v 8 पुनरित्यादिशद् यूयम् एकैकां यष्टिं विना वस्त्रसंपुटः पूपः कटिबन्धे ताम्रखण्डञ्च एषां किमपि मा ग्रह्लीत, \p \v 9 मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं। \p \v 10 अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ। \p \v 11 तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति। \p \v 12 अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः। \p \v 13 एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः। \p \v 14 इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते। \p \v 15 अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्। \p \v 16 किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्। \p \v 17 पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या। \p \v 18 अतः कारणात् हेरोद् लोकं प्रहित्य योहनं धृत्वा बन्धनालये बद्धवान्। \p \v 19 हेरोदिया तस्मै योहने प्रकुप्य तं हन्तुम् ऐच्छत् किन्तु न शक्ता, \p \v 20 यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च। \p \v 21 किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान् \p \v 22 तस्मिन् शुभदिने हेरोदियायाः कन्या समेत्य तेषां समक्षं संनृत्य हेरोदस्तेन सहोपविष्टानाञ्च तोषमजीजनत् तता नृपः कन्यामाह स्म मत्तो यद् याचसे तदेव तुभ्यं दास्ये। \p \v 23 शपथं कृत्वाकथयत् चेद् राज्यार्द्धमपि याचसे तदपि तुभ्यं दास्ये। \p \v 24 ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः। \p \v 25 अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं। \p \v 26 तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः। \p \v 27 तत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्। \p \v 28 ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ। \p \v 29 अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्। \p \v 30 अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः। \p \v 31 स तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः। \p \v 32 ततस्ते नावा विजनस्थानं गुप्तं गग्मुः। \p \v 33 ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः। \p \v 34 तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्। \p \v 35 अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं। \p \v 36 लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु। \p \v 37 तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः? \p \v 38 तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति। \p \v 39 तदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्, \p \v 40 ततस्ते शतं शतं जनाः पञ्चाशत् पञ्चाशज्जनाश्च पंक्तिभि र्भुवि समुपविविशुः। \p \v 41 अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्। \p \v 42 ततः सर्व्वे भुक्त्वातृप्यन्। \p \v 43 अनन्तरं शिष्या अवशिष्टैः पूपै र्मत्स्यैश्च पूर्णान् द्वदश डल्लकान् जगृहुः। \p \v 44 ते भोक्तारः प्रायः पञ्च सहस्राणि पुरुषा आसन्। \p \v 45 अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्। \p \v 46 तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः। \p \v 47 ततः सन्ध्यायां सत्यां नौः सिन्धुमध्य उपस्थिता किन्तु स एकाकी स्थले स्थितः। \p \v 48 अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः। \p \v 49 किन्तु शिष्याः सिन्धूपरि तं व्रजन्तं दृष्ट्वा भूतमनुमाय रुरुवुः, \p \v 50 यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट। \p \v 51 अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे। \p \v 52 यतस्ते मनसां काठिन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः। \p \v 53 अथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः। \p \v 54 तेषु नौकातो बहिर्गतेषु तत्प्रदेशीया लोकास्तं परिचित्य \p \v 55 चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे। \p \v 56 तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः। \c 7 \p \v 1 अनन्तरं यिरूशालम आगताः फिरूशिनोऽध्यापकाश्च यीशोः समीपम् आगताः। \p \v 2 ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भुञ्जतो दृष्ट्वा तानदूषयन्। \p \v 3 यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते। \p \v 4 आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनानाञ्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति। \p \v 5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते? \p \v 6 ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च। \p \v 7 शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते। \p \v 8 यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज्ञां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे। \p \v 9 अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ। \p \v 10 यतो मूसाद्वारा प्रोक्तमस्ति स्वपितरौ सम्मन्यध्वं यस्तु मातरं पितरं वा दुर्व्वाक्यं वक्ति स नितान्तं हन्यतां। \p \v 11 किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति \p \v 12 तर्हि यूयं मातुः पितु र्वोपकारं कर्त्तां तं वारयथ। \p \v 13 इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे। \p \v 14 अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्वञ्च। \p \v 15 बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति। \p \v 16 यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु। \p \v 17 ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः। \p \v 18 तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे? \p \v 19 तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति। \p \v 20 अपरमप्यवादीद् यन्नरान्निरेति तदेव नरममेध्यं करोति। \p \v 21 यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं \p \v 22 नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति। \p \v 23 एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति। \p \v 24 अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक। \p \v 25 यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा \p \v 26 स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती। \p \v 27 किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपोऽनुचितः। \p \v 28 तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि मञ्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति। \p \v 29 ततः सोऽकथयद् एतत्कथाहेतोः सकुशला याहि तव कन्यां त्यक्त्वा भूतो गतः। \p \v 30 अथ सा स्त्री गृहं गत्वा कन्यां भूतत्यक्तां शय्यास्थितां ददर्श। \p \v 31 पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्। \p \v 32 तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः। \p \v 33 ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श। \p \v 34 अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्। \p \v 35 ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्। \p \v 36 अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्; \p \v 37 तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार। \c 8 \p \v 1 तदा तत्समीपं बहवो लोका आयाता अतस्तेषां भोज्यद्रव्याभावाद् यीशुः शिष्यानाहूय जगाद,। \p \v 2 लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति। \p \v 3 तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति। \p \v 4 शिष्या अवादिषुः, एतावतो लोकान् तर्पयितुम् अत्र प्रन्तरे पूपान् प्राप्तुं केन शक्यते? \p \v 5 ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त। \p \v 6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः। \p \v 7 तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्। \p \v 8 ततो लोका भुक्त्वा तृप्तिं गता अवशिष्टखाद्यैः पूर्णाः सप्तडल्लका गृहीताश्च। \p \v 9 एते भोक्तारः प्रायश्चतुः सहस्रपुरुषा आसन् ततः स तान् विससर्ज। \p \v 10 अथ स शिष्यः सह नावमारुह्य दल्मानूथासीमामागतः। \p \v 11 ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः। \p \v 12 तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते। \p \v 13 अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्। \p \v 14 एतर्हि शिष्यैः पूपेषु विस्मृतेषु नावि तेषां सन्निधौ पूप एकएव स्थितः। \p \v 15 तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत। \p \v 16 ततस्तेऽन्योन्यं विवेचनं कर्तुम् आरेभिरे, अस्माकं सन्निधौ पूपो नास्तीति हेतोरिदं कथयति। \p \v 17 तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति? \p \v 18 सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च? \p \v 19 यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्। \p \v 20 अपरञ्च यदा चतुःसहस्राणां पुरुषाणां मध्ये पूपान् भंक्त्वाददां तदा यूयम् अतिरिक्तपूपानां कति डल्लकान् गृहीतवन्तः? ते कथयामासुः सप्तडल्लकान्। \p \v 21 तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ? \p \v 22 अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे। \p \v 23 तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि? \p \v 24 स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे। \p \v 25 ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श। \p \v 26 ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्। \p \v 27 अनन्तरं शिष्यैः सहितो यीशुः कैसरीयाफिलिपिपुरं जगाम, पथि गच्छन् तानपृच्छत् कोऽहम् अत्र लोकाः किं वदन्ति? \p \v 28 ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति। \p \v 29 अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता। \p \v 30 ततः स तान् गाढमादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत। \p \v 31 मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट। \p \v 32 तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्। \p \v 33 किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां। \p \v 34 अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु। \p \v 35 यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति। \p \v 36 अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः? \p \v 37 नरः स्वप्राणविनिमयेन किं दातुं शक्नोति? \p \v 38 एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति। \c 9 \p \v 1 अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति। \p \v 2 अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार। \p \v 3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति। \p \v 4 अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते। \p \v 5 तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम। \p \v 6 किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः। \p \v 7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ। \p \v 8 अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः। \p \v 9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या। \p \v 10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे। \p \v 11 अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः? \p \v 12 तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते। \p \v 13 किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म। \p \v 14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्; \p \v 15 किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः। \p \v 16 तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे? \p \v 17 ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं। \p \v 18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः। \p \v 19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत। \p \v 20 ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ। \p \v 21 तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्। \p \v 22 भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु। \p \v 23 तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्। \p \v 24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु। \p \v 25 अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि। \p \v 26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः। \p \v 27 किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ। \p \v 28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः? \p \v 29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं। \p \v 30 अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्। \p \v 31 अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति। \p \v 32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः। \p \v 33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म? \p \v 34 किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त। \p \v 35 ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु। \p \v 36 तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात् \p \v 37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति। \p \v 38 अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम। \p \v 39 किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति। \p \v 40 तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः। \p \v 41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति। \p \v 42 किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं। \p \v 43 अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि; \p \v 44 यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। \p \v 45 यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि, \p \v 46 यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। \p \v 47 स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, \p \v 48 तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। \p \v 49 यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते। \p \v 50 लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत। \c 10 \p \v 1 अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश। \p \v 2 तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति? \p \v 3 ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्? \p \v 4 त ऊचुः त्यागपत्रं लेखितुं स्वपत्नीं त्यक्तुञ्च मूसाऽनुमन्यते। \p \v 5 तदा यीशुः प्रत्युवाच, युष्माकं मनसां काठिन्याद्धेतो र्मूसा निदेशमिमम् अलिखत्। \p \v 6 किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज। \p \v 7 "ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति, \p \v 8 तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ। \p \v 9 अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्। \p \v 10 अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः। \p \v 11 ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति। \p \v 12 काचिन्नारी यदि स्वपतिं हित्वान्यपुंसा विवाहिता भवति तर्हि सापि व्यभिचारिणी भवति। \p \v 13 अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः। \p \v 14 यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः। \p \v 15 युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति। \p \v 16 अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे। \p \v 17 अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं? \p \v 18 तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति। \p \v 19 परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः। \p \v 20 ततस्तन प्रत्युक्तं, हे गुरो बाल्यकालादहं सर्व्वानेतान् आचरामि। \p \v 21 तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव। \p \v 22 किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम। \p \v 23 अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। \p \v 24 तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। \p \v 25 ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं। \p \v 26 तदा शिष्या अतीव विस्मिताः परस्परं प्रोचुः, तर्हि कः परित्राणं प्राप्तुं शक्नोति? \p \v 27 ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्। \p \v 28 तदा पितर उवाच, पश्य वयं सर्व्वं परित्यज्य भवतोनुगामिनो जाताः। \p \v 29 ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा \p \v 30 गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति। \p \v 31 किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति। \p \v 32 अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे; \p \v 33 पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति। \p \v 34 ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति। \p \v 35 ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः। \p \v 36 ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं? \p \v 37 तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय। \p \v 38 किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते। \p \v 39 तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे। \p \v 40 किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति। \p \v 41 अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः। \p \v 42 किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ। \p \v 43 किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति, \p \v 44 युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति। \p \v 45 यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः। \p \v 46 अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः। \p \v 47 स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व। \p \v 48 ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व। \p \v 49 तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति। \p \v 50 तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः। \p \v 51 ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्। \p \v 52 ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ। \c 11 \p \v 1 अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद, \p \v 2 युवाममुं सम्मुखस्थं ग्रामं यातं, तत्र प्रविश्य यो नरं नावहत् तं गर्द्दभशावकं द्रक्ष्यथस्तं मोचयित्वानयतं। \p \v 3 किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति। \p \v 4 ततस्तौ गत्वा द्विमार्गमेलने कस्यचिद् द्वारस्य पार्श्वे तं गर्द्दभशावकं प्राप्य मोचयतः, \p \v 5 एतर्हि तत्रोपस्थितलोकानां कश्चिद् अपृच्छत्, गर्द्दभशिशुं कुतो मोचयथः? \p \v 6 तदा यीशोराज्ञानुसारेण तेभ्यः प्रत्युदिते तत्क्षणं तमादातुं तेऽनुजज्ञुः। \p \v 7 अथ तौ यीशोः सन्निधिं गर्द्दभशिशुम् आनीय तदुपरि स्ववस्त्राणि पातयामासतुः; ततः स तदुपरि समुपविष्टः। \p \v 8 तदानेके पथि स्ववासांसि पातयामासुः, परैश्च तरुशाखाश्छितवा मार्गे विकीर्णाः। \p \v 9 अपरञ्च पश्चाद्गामिनोऽग्रगामिनश्च सर्व्वे जना उचैःस्वरेण वक्तुमारेभिरे, जय जय यः परमेश्वरस्य नाम्नागच्छति स धन्य इति। \p \v 10 तथास्माकमं पूर्व्वपुरुषस्य दायूदो यद्राज्यं परमेश्वरनाम्नायाति तदपि धन्यं, सर्व्वस्मादुच्छ्राये स्वर्गे ईश्वरस्य जयो भवेत्। \p \v 11 इत्थं यीशु र्यिरूशालमि मन्दिरं प्रविश्य चतुर्दिक्स्थानि सर्व्वाणि वस्तूनि दृष्टवान्; अथ सायंकाल उपस्थिते द्वादशशिष्यसहितो बैथनियं जगाम। \p \v 12 अपरेहनि बैथनियाद् आगमनसमये क्षुधार्त्तो बभूव। \p \v 13 ततो दूरे सपत्रमुडुम्बरपादपं विलोक्य तत्र किञ्चित् फलं प्राप्तुं तस्य सन्निकृष्टं ययौ, तदानीं फलपातनस्य समयो नागच्छति। ततस्तत्रोपस्थितः पत्राणि विना किमप्यपरं न प्राप्य स कथितवान्, \p \v 14 अद्यारभ्य कोपि मानवस्त्वत्तः फलं न भुञ्जीत; इमां कथां तस्य शिष्याः शुश्रुवुः। \p \v 15 तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार। \p \v 16 अपरं मन्दिरमध्येन किमपि पात्रं वोढुं सर्व्वजनं निवारयामास। \p \v 17 लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ। \p \v 18 इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः। \p \v 19 अथ सायंसमय उपस्थिते यीशुर्नगराद् बहिर्वव्राज। \p \v 20 अनन्तरं प्रातःकाले ते तेन मार्गेण गच्छन्तस्तमुडुम्बरमहीरुहं समूलं शुष्कं ददृशुः। \p \v 21 ततः पितरः पूर्व्ववाक्यं स्मरन् यीशुं बभाषं, हे गुरो पश्यतु य उडुम्बरविटपी भवता शप्तः स शुष्को बभूव। \p \v 22 ततो यीशुः प्रत्यवादीत्, यूयमीश्वरे विश्वसित। \p \v 23 युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते। \p \v 24 अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ। \p \v 25 अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते। \p \v 26 किन्तु यदि न क्षमध्वे तर्हि वः स्वर्गस्थः पितापि युष्माकमागांसि न क्षमिष्यते। \p \v 27 अनन्तरं ते पुन र्यिरूशालमं प्रविविशुः, यीशु र्यदा मध्येमन्दिरम् इतस्ततो गच्छति, तदानीं प्रधानयाजका उपाध्यायाः प्राञ्चश्च तदन्तिकमेत्य कथामिमां पप्रच्छुः, \p \v 28 त्वं केनादेशेन कर्म्माण्येतानि करोषि? तथैतानि कर्म्माणि कर्त्तां केनादिष्टोसि? \p \v 29 ततो यीशुः प्रतिगदितवान् अहमपि युष्मान् एककथां पृच्छामि, यदि यूयं तस्या उत्तरं कुरुथ, तर्हि कयाज्ञयाहं कर्म्माण्येतानि करोमि तद् युष्मभ्यं कथयिष्यामि। \p \v 30 योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत। \p \v 31 ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति। \p \v 32 मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते। \p \v 33 अतएव ते यीशुं प्रत्यवादिषु र्वयं तद् वक्तुं न शक्नुमः। यीशुरुवाच, तर्हि येनादेशेन कर्म्माण्येतानि करोमि, अहमपि युष्मभ्यं तन्न कथयिष्यामि। \c 12 \p \v 1 अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम। \p \v 2 तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्। \p \v 3 किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः। \p \v 4 ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्। \p \v 5 ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः। \p \v 6 ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास। \p \v 7 किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति। \p \v 8 ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्। \p \v 9 अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति। \p \v 10 अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति। \p \v 11 एतत् कर्म्म परेशस्यांद्भुतं नो दृष्टितो भवेत्॥" इमां शास्त्रीयां लिपिं यूयं किं नापाठिष्ट? \p \v 12 तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः। \p \v 13 अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः। \p \v 14 त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा? \p \v 15 किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत। \p \v 16 तदा तैरेकस्मिन् मुद्रापादे समानीते स तान् पप्रच्छ, अत्र लिखितं नाम मूर्त्ति र्वा कस्य? ते प्रत्यूचुः, कैसरस्य। \p \v 17 तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे। \p \v 18 अथ मृतानामुत्थानं ये न मन्यन्ते ते सिदूकिनो यीशोः समीपमागत्य तं पप्रच्छुः; \p \v 19 हे गुरो कश्चिज्जनो यदि निःसन्ततिः सन् भार्य्यायां सत्यां म्रियते तर्हि तस्य भ्राता तस्य भार्य्यां गृहीत्वा भ्रातु र्वंशोत्पत्तिं करिष्यति, व्यवस्थामिमां मूसा अस्मान् प्रति व्यलिखत्। \p \v 20 किन्तु केचित् सप्त भ्रातर आसन्, ततस्तेषां ज्येष्ठभ्राता विवह्य निःसन्ततिः सन् अम्रियत। \p \v 21 ततो द्वितीयो भ्राता तां स्त्रियमगृहणत् किन्तु सोपि निःसन्ततिः सन् अम्रियत; अथ तृतीयोपि भ्राता तादृशोभवत्। \p \v 22 इत्थं सप्तैव भ्रातरस्तां स्त्रियं गृहीत्वा निःसन्तानाः सन्तोऽम्रियन्त, सर्व्वशेषे सापि स्त्री म्रियते स्म। \p \v 23 अथ मृतानामुत्थानकाले यदा त उत्थास्यन्ति तदा तेषां कस्य भार्य्या सा भविष्यति? यतस्ते सप्तैव तां व्यवहन्। \p \v 24 ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न? \p \v 25 मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति। \p \v 26 पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि? \p \v 27 ईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ। \p \v 28 एतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच, \p \v 29 "हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव, \p \v 30 यूयं सर्व्वन्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च तस्मिन् प्रभौ परमेश्वरे प्रीयध्वं," इत्याज्ञा श्रेष्ठा। \p \v 31 तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति। \p \v 32 तदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् ईश्वराद् अन्यो द्वितीय ईश्वरो नास्ति; \p \v 33 अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति। \p \v 34 ततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता। \p \v 35 अनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति? \p \v 36 स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।" \p \v 37 यदि दायूद् तं प्रभूं वदति तर्हि कथं स तस्य सन्तानो भवितुमर्हति? इतरे लोकास्तत्कथां श्रुत्वाननन्दुः। \p \v 38 तदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च \p \v 39 लोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च काङ्क्षन्ते; \p \v 40 विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति। \p \v 41 तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्। \p \v 42 पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्। \p \v 43 तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म। \p \v 44 यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्। \c 13 \p \v 1 अनन्तरं मन्दिराद् बहिर्गमनकाले तस्य शिष्याणामेकस्तं व्याहृतवान् हे गुरो पश्यतु कीदृशाः पाषाणाः कीदृक् च निचयनं। \p \v 2 तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते। \p \v 3 अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः, \p \v 4 एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्। \p \v 5 ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत। \p \v 6 यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति; \p \v 7 किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति। \p \v 8 देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः। \p \v 9 किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे। \p \v 10 शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते। \p \v 11 किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता। \p \v 12 तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति। \p \v 13 मम नामहेतोः सर्व्वेषां सविधे यूयं जुगुप्सिता भविष्यथ, किन्तु यः कश्चित् शेषपर्य्यन्तं धैर्य्यम् आलम्बिष्यते सएव परित्रास्यते। \p \v 14 दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां; \p \v 15 तथा यो नरो गृहोपरि तिष्ठति स गृहमध्यं नावरोहतु, तथा किमपि वस्तु ग्रहीतुं मध्येगृहं न प्रविशतु; \p \v 16 तथा च यो नरः क्षेत्रे तिष्ठति सोपि स्ववस्त्रं ग्रहीतुं परावृत्य न व्रजतु। \p \v 17 तदानीं गर्ब्भवतीनां स्तन्यदात्रीणाञ्च योषितां दुर्गति र्भविष्यति। \p \v 18 युष्माकं पलायनं शीतकाले यथा न भवति तदर्थं प्रार्थयध्वं। \p \v 19 यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च। \p \v 20 अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति। \p \v 21 अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित। \p \v 22 यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति। \p \v 23 पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत। \p \v 24 अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति। \p \v 25 नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति। \p \v 26 तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते। \p \v 27 अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति। \p \v 28 उडुम्बरतरो र्दृष्टान्तं शिक्षध्वं यदोडुम्बरस्य तरो र्नवीनाः शाखा जायन्ते पल्लवादीनि च र्निगच्छन्ति, तदा निदाघकालः सविधो भवतीति यूयं ज्ञातुं शक्नुथ। \p \v 29 तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत। \p \v 30 युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते। \p \v 31 द्यावापृथिव्यो र्विचलितयोः सत्यो र्मदीया वाणी न विचलिष्यति। \p \v 32 अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति। \p \v 33 अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं; \p \v 34 यद्वत् कश्चित् पुमान् स्वनिवेशनाद् दूरदेशं प्रति यात्राकरणकाले दासेषु स्वकार्य्यस्य भारमर्पयित्वा सर्व्वान् स्वे स्वे कर्म्मणि नियोजयति; अपरं दौवारिकं जागरितुं समादिश्य याति, तद्वन् नरपुत्रः। \p \v 35 गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ; \p \v 36 स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत। \p \v 37 युष्मानहं यद् वदामि तदेव सर्व्वान् वदामि, जागरितास्तिष्ठतेति। \c 14 \p \v 1 तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे; \p \v 2 किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति। \p \v 3 अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे। \p \v 4 तस्मात् केचित् स्वान्ते कुप्यन्तः कथितवंन्तः कुतोयं तैलापव्ययः? \p \v 5 यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्। \p \v 6 किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती। \p \v 7 दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि। \p \v 8 अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्। \p \v 9 अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते। \p \v 10 ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय। \p \v 11 ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास। \p \v 12 अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्? \p \v 13 तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं; \p \v 14 स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति? \p \v 15 ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं। \p \v 16 ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्। \p \v 17 अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम; \p \v 18 सर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते। \p \v 19 तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं? \p \v 20 ततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव। \p \v 21 मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्। \p \v 22 अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं। \p \v 23 अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः। \p \v 24 अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्। \p \v 25 युष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि,तावदहं द्राक्षाफलरसं पुन र्न पास्यामि। \p \v 26 तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः \p \v 27 अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति। \p \v 28 कन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि। \p \v 29 तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति। \p \v 30 ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे। \p \v 31 किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे। \p \v 32 अपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत। \p \v 33 अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास, \p \v 34 निधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत। \p \v 35 ततः स किञ्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु। \p \v 36 अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु। \p \v 37 ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि? \p \v 38 परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं। \p \v 39 अथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थयाञ्चक्रे। \p \v 40 परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः। \p \v 41 ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते। \p \v 42 उत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः। \p \v 43 इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्। \p \v 44 अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत। \p \v 45 अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब। \p \v 46 तदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः। \p \v 47 ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद। \p \v 48 पश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः? \p \v 49 मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं। \p \v 50 तदा सर्व्वे शिष्यास्तं परित्यज्य पलायाञ्चक्रिरे। \p \v 51 अथैको युवा मानवो नग्नकाये वस्त्रमेकं निधाय तस्य पश्चाद् व्रजन् युवलोकै र्धृतो \p \v 52 वस्त्रं विहाय नग्नः पलायाञ्चक्रे। \p \v 53 अपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः। \p \v 54 पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह। \p \v 55 तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः। \p \v 56 अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त। \p \v 57 सर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः, \p \v 58 इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति। \p \v 59 किन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः। \p \v 60 अथ महायाजको मध्येसभम् उत्थाय यीशुं व्याजहार, एते जनास्त्वयि यत् साक्ष्यमदुः त्वमेतस्य किमप्युत्तरं किं न दास्यसि? \p \v 61 किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता? \p \v 62 तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ। \p \v 63 तदा महायाजकः स्वं वमनं छित्वा व्यावहरत् \p \v 64 किमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति। \p \v 65 ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः \p \v 66 ततः परं पितरेऽट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य \p \v 67 तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः। \p \v 68 किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव। \p \v 69 अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः। \p \v 70 ततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति। \p \v 71 तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं। \p \v 72 तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत। \c 15 \p \v 1 अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः। \p \v 2 तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि। \p \v 3 अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच। \p \v 4 तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति। \p \v 5 कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम। \p \v 6 अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति। \p \v 7 ये च पूर्व्वमुपप्लवमकार्षुरुपप्लवे वधमपि कृतवन्तस्तेषां मध्ये तदानों बरब्बानामक एको बद्ध आसीत्। \p \v 8 अतो हेतोः पूर्व्वापरीयां रीतिकथां कथयित्वा लोका उच्चैरुवन्तः पीलातस्य समक्षं निवेदयामासुः। \p \v 9 तदा पीलातस्तानाचख्यौ तर्हि किं यिहूदीयानां राजानं मोचयिष्यामि? युष्माभिः किमिष्यते? \p \v 10 यतः प्रधानयाजका ईर्ष्यात एव यीशुं समार्पयन्निति स विवेद। \p \v 11 किन्तु यथा बरब्बां मोचयति तथा प्रार्थयितुं प्रधानयाजका लोकान् प्रवर्त्तयामासुः। \p \v 12 अथ पीलातः पुनः पृष्टवान् तर्हि यं यिहूदीयानां राजेति वदथ तस्य किं करिष्यामि युष्माभिः किमिष्यते? \p \v 13 तदा ते पुनरपि प्रोच्चैः प्रोचुस्तं क्रुशे वेधय। \p \v 14 तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय। \p \v 15 तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव। \p \v 16 अनन्तरं सैन्यगणोऽट्टालिकाम् अर्थाद् अधिपते र्गृहं यीशुं नीत्वा सेनानिवहं समाहुयत्। \p \v 17 पश्चात् ते तं धूमलवर्णवस्त्रं परिधाप्य कण्टकमुकुटं रचयित्वा शिरसि समारोप्य \p \v 18 हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं नमस्कर्त्तामारेभिरे। \p \v 19 तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः \p \v 20 इत्थमुपहस्य धूम्रवर्णवस्त्रम् उत्तार्य्य तस्य वस्त्रं तं पर्य्यधापयन् क्रुशे वेद्धुं बहिर्निन्युश्च। \p \v 21 ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोढुं बलाद् दध्नुः। \p \v 22 अथ गुल्गल्ता अर्थात् शिरःकपालनामकं स्थानं यीशुमानीय \p \v 23 ते गन्धरसमिश्रितं द्राक्षारसं पातुं तस्मै ददुः किन्तु स न जग्राह। \p \v 24 तस्मिन् क्रुशे विद्धे सति तेषामेकैकशः किं प्राप्स्यतीति निर्णयाय \p \v 25 तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः। \p \v 26 अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरऊर्द्व्वम् आरोपयाञ्चक्रुः। \p \v 27 तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते। \p \v 28 तेनैव "अपराधिजनैः सार्द्धं स गणितो भविष्यति," इति शास्त्रोक्तं वचनं सिद्धमभूत। \p \v 29 अनन्तरं मार्गे ये ये लोका गमनागमने चक्रुस्ते सर्व्व एव शिरांस्यान्दोल्य निन्दन्तो जगदुः, रे मन्दिरनाशक रे दिनत्रयमध्ये तन्निर्म्मायक, \p \v 30 अधुनात्मानम् अवित्वा क्रुशादवरोह। \p \v 31 किञ्च प्रधानयाजका अध्यापकाश्च तद्वत् तिरस्कृत्य परस्परं चचक्षिरे एष परानावत् किन्तु स्वमवितुं न शक्नोति। \p \v 32 यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः। \p \v 33 अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्। \p \v 34 ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?" \p \v 35 तदा समीपस्थलोकानां केचित् तद्वाक्यं निशम्याचख्युः पश्यैष एलियम् आहूयति। \p \v 36 तत एको जनो धावित्वागत्य स्पञ्जे ऽम्लरसं पूरयित्वा तं नडाग्रे निधाय पातुं तस्मै दत्त्वावदत् तिष्ठ एलिय एनमवरोहयितुम् एति न वेति पश्यामि। \p \v 37 अथ यीशुरुच्चैः समाहूय प्राणान् जहौ। \p \v 38 तदा मन्दिरस्य जवनिकोर्द्व्वादधःर्य्यन्ता विदीर्णा द्विखण्डाभूत्। \p \v 39 किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्। \p \v 40 तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो \p \v 41 गालील्प्रदेशे यीशुं सेवित्वा तदनुगामिन्यो जाता इमास्तदन्याश्च या अनेका नार्यो यीशुना सार्द्धं यिरूशालममायातास्ताश्च दूरात् तानि ददृशुः। \p \v 42 अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत \p \v 43 ईश्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे। \p \v 44 किन्तु स इदानीं मृतः पीलात इत्यसम्भवं मत्वा शतसेनापतिमाहूय स कदा मृत इति पप्रच्छ। \p \v 45 शतसेमनापतिमुखात् तज्ज्ञात्वा यूषफे यीशोर्देहं ददौ। \p \v 46 पश्चात् स सूक्ष्मं वासः क्रीत्वा यीशोः कायमवरोह्य तेन वाससा वेष्टायित्वा गिरौ खातश्मशाने स्थापितवान् पाषाणं लोठयित्वा द्वारि निदधे। \p \v 47 किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः। \c 16 \p \v 1 अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा \p \v 2 सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः। \p \v 3 किन्तु श्मशानद्वारपाषाणोऽतिबृहन् तं कोऽपसारयिष्यतीति ताः परस्परं गदन्ति! \p \v 4 एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः। \p \v 5 पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः। \p \v 6 सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत। \p \v 7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत। \p \v 8 ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च। \p \v 9 अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ। \p \v 10 ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास। \p \v 11 किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्। \p \v 12 पश्चात् तेषां द्वायो र्ग्रामयानकाले यीशुरन्यवेशं धृत्वा ताभ्यां दर्शन ददौ! \p \v 13 तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्। \p \v 14 शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्। \p \v 15 अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत। \p \v 16 तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते। \p \v 17 किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति। \p \v 18 अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च। \p \v 19 अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश। \p \v 20 ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।