\id JHN Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h John \toc1 योहनलिखितः सुसंवादः \toc2 योहनः \toc3 योहनः \mt1 योहनलिखितः सुसंवादः \c 1 \p \v 1 आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव। \p \v 2 स आदावीश्वरेण सहासीत्। \p \v 3 तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति। \p \v 4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः \p \v 5 तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह। \p \v 6 योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे। \p \v 7 तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्, \p \v 8 स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्। \p \v 9 जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः। \p \v 10 स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्। \p \v 11 निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्। \p \v 12 तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्। \p \v 13 तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्। \p \v 14 स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम। \p \v 15 ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः। \p \v 16 अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः। \p \v 17 मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां। \p \v 18 कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्। \p \v 19 त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः, \p \v 20 तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्। \p \v 21 तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः। \p \v 22 तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि? \p \v 23 तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्। \p \v 24 ये प्रेषितास्ते फिरूशिलोकाः। \p \v 25 तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः? \p \v 26 ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति। \p \v 27 स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि। \p \v 28 यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत। \p \v 29 परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत। \p \v 30 यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं। \p \v 31 अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्। \p \v 32 पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्। \p \v 33 नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति। \p \v 34 अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि। \p \v 35 परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन् \p \v 36 यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं। \p \v 37 इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः। \p \v 38 ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति? \p \v 39 ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां। \p \v 40 यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः \p \v 41 स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः। \p \v 42 पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति। \p \v 43 परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ। \p \v 44 बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्। \p \v 45 पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं। \p \v 46 तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य। \p \v 47 अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः। \p \v 48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्। \p \v 49 निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा। \p \v 50 ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि। \p \v 51 अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ। \c 2 \p \v 1 अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्। \p \v 2 तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्। \p \v 3 तदनन्तरं द्राक्षारसस्य न्यूनत्वाद् यीशोर्माता तमवदत् एतेषां द्राक्षारसो नास्ति। \p \v 4 तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति। \p \v 5 ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत। \p \v 6 तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्। \p \v 7 तदा यीशुस्तान् सर्व्वकलशान् जलैः पूरयितुं तानाज्ञापयत्, ततस्ते सर्व्वान् कुम्भानाकर्णं जलैः पर्य्यपूरयन्। \p \v 8 अथ तेभ्यः किञ्चिदुत्तार्य्य भोज्याधिपातेःसमीपं नेतुं स तानादिशत्, ते तदनयन्। \p \v 9 अपरञ्च तज्जलं कथं द्राक्षारसोऽभवत् तज्जलवाहकादासा ज्ञातुं शक्ताः किन्तु तद्भोज्याधिपो ज्ञातुं नाशक्नोत् तदवलिह्य वरं संम्बोद्यावदत, \p \v 10 लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि। \p \v 11 इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्। \p \v 12 ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्। \p \v 13 तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्। \p \v 14 ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य \p \v 15 रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्। \p \v 16 वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट। \p \v 17 तस्मात् तन्मन्दिरार्थ उद्योगो यस्तु स ग्रसतीव माम्। इमां शास्त्रीयलिपिं शिष्याःसमस्मरन्। \p \v 18 ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि? \p \v 19 ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि। \p \v 20 तदा यिहूदिया व्याहार्षुः, एतस्य मन्दिरस निर्म्माणेन षट्चत्वारिंशद् वत्सरा गताः, त्वं किं दिनत्रयमध्ये तद् उत्थापयिष्यसि? \p \v 21 किन्तु स निजदेहरूपमन्दिरे कथामिमां कथितवान्। \p \v 22 स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः। \p \v 23 अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं। \p \v 24 किन्तु स तेषां करेषु स्वं न समर्पयत्, यतः स सर्व्वानवैत्। \p \v 25 स मानवेषु कस्यचित् प्रमाणं नापेक्षत यतो मनुजानां मध्ये यद्यदस्ति तत्तत् सोजानात्। \c 3 \p \v 1 निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां \p \v 2 यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते। \p \v 3 तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति। \p \v 4 ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति? \p \v 5 यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति। \p \v 6 मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव। \p \v 7 युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः। \p \v 8 सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति। \p \v 9 तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति? \p \v 10 यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि? \p \v 11 तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते। \p \v 12 एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ? \p \v 13 यः स्वर्गेऽस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्। \p \v 14 अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः; \p \v 15 तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। \p \v 16 ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति। \p \v 17 ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्। \p \v 18 अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति। \p \v 19 जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति। \p \v 20 यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति; \p \v 21 किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति। \p \v 22 ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत। \p \v 23 तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्। \p \v 24 तदा योहन् कारायां न बद्धः। \p \v 25 अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्, \p \v 26 हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च। \p \v 27 तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति। \p \v 28 अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ। \p \v 29 यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता। \p \v 30 तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं। \p \v 31 य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथाञ्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः। \p \v 32 स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति; \p \v 33 किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति। \p \v 34 ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्। \p \v 35 पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्। \p \v 36 यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति। \c 4 \p \v 1 यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च, \p \v 2 फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य \p \v 3 यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्। \p \v 4 ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति \p \v 5 याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्। \p \v 6 तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्। \p \v 7 एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत् \p \v 8 तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्। \p \v 9 यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि? \p \v 10 ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्। \p \v 11 तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि? \p \v 12 योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं? \p \v 13 ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति, \p \v 14 किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति। \p \v 15 तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही। \p \v 16 ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ। \p \v 17 सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः। \p \v 18 यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः। \p \v 19 तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया। \p \v 20 अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते। \p \v 21 यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति। \p \v 22 यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते। \p \v 23 किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते। \p \v 24 ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः। \p \v 25 तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति। \p \v 26 ततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः। \p \v 27 एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्। \p \v 28 ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद् \p \v 29 अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ? \p \v 30 ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्। \p \v 31 एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां। \p \v 32 ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते। \p \v 33 तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्? \p \v 34 यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं। \p \v 35 मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्। \p \v 36 यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः। \p \v 37 इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति। \p \v 38 यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्। \p \v 39 यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्। \p \v 40 तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत् \p \v 41 ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य \p \v 42 तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि। \p \v 43 स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत् \p \v 44 तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्। \p \v 45 अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्। \p \v 46 ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्। \p \v 47 स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु। \p \v 48 तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ। \p \v 49 ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु। \p \v 50 यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्। \p \v 51 गमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्। \p \v 52 ततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्। \p \v 53 तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्। \p \v 54 यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्। \c 5 \p \v 1 ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्। \p \v 2 तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्। \p \v 3 तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म। \p \v 4 यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्। \p \v 5 तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्। \p \v 6 यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि? \p \v 7 ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति। \p \v 8 तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि। \p \v 9 स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः। \p \v 10 तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्। \p \v 11 ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्। \p \v 12 तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः? \p \v 13 किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्। \p \v 14 ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः। \p \v 15 ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्। \p \v 16 ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त। \p \v 17 यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति। \p \v 18 ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्। \p \v 19 पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति। \p \v 20 पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति। \p \v 21 वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति। \p \v 22 सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्। \p \v 23 यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति। \p \v 24 युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति। \p \v 25 अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति। \p \v 26 पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्। \p \v 27 स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्। \p \v 28 एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति। \p \v 29 तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति। \p \v 30 अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे। \p \v 31 यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ; \p \v 32 किन्तु मदर्थेऽपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि। \p \v 33 युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्। \p \v 34 मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि। \p \v 35 योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं। \p \v 36 किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति। \p \v 37 यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं \p \v 38 तस्य वाक्यञ्च युष्माकम् अन्तः कदापि स्थानं नाप्नोति यतः स यं प्रेषितवान् यूयं तस्मिन् न विश्वसिथ। \p \v 39 धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति। \p \v 40 तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ। \p \v 41 अहं मानुषेभ्यः सत्कारं न गृह्लामि। \p \v 42 अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति। \p \v 43 अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ। \p \v 44 यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ? \p \v 45 पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति। \p \v 46 यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्। \p \v 47 ततो यदि तेन लिखितवानि न प्रतिथ तर्हि मम वाक्यानि कथं प्रत्येष्यथ? \c 6 \p \v 1 ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्। \p \v 2 ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्। \p \v 3 ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्। \p \v 4 तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते \p \v 5 यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः? \p \v 6 वाक्यमिदं तस्य परीक्षार्थम् अवादीत् किन्तु यत् करिष्यति तत् स्वयम् अजानात्। \p \v 7 फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति। \p \v 8 शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान् \p \v 9 अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति? \p \v 10 पश्चाद् यीशुरवदत् लोकानुपवेशयत तत्र बहुयवससत्त्वात् पञ्चसहस्त्रेभ्यो न्यूना अधिका वा पुरुषा भूम्याम् उपाविशन्। \p \v 11 ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः। \p \v 12 तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत। \p \v 13 ततः सर्व्वेषां भोजनात् परं ते तेषां पञ्चानां यावपूपानां अवशिष्टान्यखिलानि संगृह्य द्वादशडल्लकान् अपूरयन्। \p \v 14 अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता। \p \v 15 अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्। \p \v 16 सायंकाल उपस्थिते शिष्या जलधितटं व्रजित्वा नावमारुह्य नगरदिशि सिन्धौ वाहयित्वागमन्। \p \v 17 तस्मिन् समये तिमिर उपातिष्ठत् किन्तु यीषुस्तेषां समीपं नागच्छत्। \p \v 18 तदा प्रबलपवनवहनात् सागरे महातरङ्गो भवितुम् आरेभे। \p \v 19 ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन् \p \v 20 किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट। \p \v 21 तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्। \p \v 22 यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः। \p \v 23 किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्। \p \v 24 यीशुस्तत्र नास्ति शिष्या अपि तत्र ना सन्ति लोका इति विज्ञाय यीशुं गवेषयितुं तरणिभिः कफर्नाहूम् पुरं गताः। \p \v 25 ततस्ते सरित्पतेः पारे तं साक्षात् प्राप्य प्रावोचन् हे गुरो भवान् अत्र स्थाने कदागमत्? \p \v 26 तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ। \p \v 27 क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्। \p \v 28 तदा तेऽपृच्छन् ईश्वराभिमतं कर्म्म कर्त्तुम् अस्माभिः किं कर्त्तव्यं? \p \v 29 ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म। \p \v 30 तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं? \p \v 31 अस्माकं पूर्व्वपुरुषा महाप्रान्तरे मान्नां भोक्त्तुं प्रापुः यथा लिपिरास्ते। स्वर्गीयाणि तु भक्ष्याणि प्रददौ परमेश्वरः। \p \v 32 तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति। \p \v 33 यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः। \p \v 34 तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु। \p \v 35 यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति। \p \v 36 मां दृष्ट्वापि यूयं न विश्वसिथ युष्मानहम् इत्यवोचं। \p \v 37 पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि। \p \v 38 निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि। \p \v 39 स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं। \p \v 40 यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं। \p \v 41 तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे \p \v 42 यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति? \p \v 43 तदा यीशुस्तान् प्रत्यवदत् परस्परं मा विवदध्वं \p \v 44 मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि। \p \v 45 ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति। \p \v 46 य ईश्वराद् अजायत तं विना कोपि मनुष्यो जनकं नादर्शत् केवलः सएव तातम् अद्राक्षीत्। \p \v 47 अहं युष्मान् यथार्थतरं वदामि यो जनो मयि विश्वासं करोति सोनन्तायुः प्राप्नोति। \p \v 48 अहमेव तज्जीवनभक्ष्यं। \p \v 49 युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः \p \v 50 किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते। \p \v 51 यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्। \p \v 52 तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति? \p \v 53 तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति। \p \v 54 यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि। \p \v 55 यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं। \p \v 56 यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि। \p \v 57 मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति। \p \v 58 यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति। \p \v 59 यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्। \p \v 60 तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्? \p \v 61 किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति? \p \v 62 यदि मनुजसुतं पूर्व्ववासस्थानम् ऊर्द्व्वं गच्छन्तं पश्यथ तर्हि किं भविष्यति? \p \v 63 आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च। \p \v 64 किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति। \p \v 65 अपरमपि कथितवान् अस्मात् कारणाद् अकथयं पितुः सकाशात् शक्त्तिमप्राप्य कोपि ममान्तिकम् आगन्तुं न शक्नोति। \p \v 66 तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्। \p \v 67 तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ? \p \v 68 ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः? \p \v 69 अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः। \p \v 70 तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते। \p \v 71 इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति। \c 7 \p \v 1 ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत। \p \v 2 किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते \p \v 3 तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज। \p \v 4 यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय। \p \v 5 यतस्तस्य भ्रातरोपि तं न विश्वसन्ति। \p \v 6 तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति। \p \v 7 जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि। \p \v 8 अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः। \p \v 9 इति वाक्यम् उक्त्त्वा स गालीलि स्थितवान् \p \v 10 किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्। \p \v 11 अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र? \p \v 12 ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति। \p \v 13 किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्। \p \v 14 ततः परम् उत्सवस्य मध्यसमये यीशु र्मन्दिरं गत्वा समुपदिशति स्म। \p \v 15 ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्? \p \v 16 तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य। \p \v 17 यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति। \p \v 18 यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति। \p \v 19 मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे? \p \v 20 तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते? \p \v 21 ततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे। \p \v 22 मूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ। \p \v 23 अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ? \p \v 24 सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत। \p \v 25 तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न? \p \v 26 किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति? \p \v 27 मनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति। \p \v 28 तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ। \p \v 29 तमहं जाने तेनाहं प्रेरित अगतोस्मि। \p \v 30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति। \p \v 31 किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति? \p \v 32 ततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः। \p \v 33 ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि। \p \v 34 मां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ। \p \v 35 तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं? \p \v 36 नो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति? \p \v 37 अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु। \p \v 38 यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति। \p \v 39 ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत। \p \v 40 एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी। \p \v 41 केचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते? \p \v 42 सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति? \p \v 43 इत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता। \p \v 44 कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्। \p \v 45 अनन्तरं पादातिगणे प्रधानयाजकानां फिरूशिनाञ्च समीपमागतवति ते तान् अपृच्छन् कुतो हेतोस्तं नानयत? \p \v 46 तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्। \p \v 47 ततः फिरूशिनः प्रावोचन् यूयमपि किमभ्रामिष्ट? \p \v 48 अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्? \p \v 49 ये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः। \p \v 50 तदा निकदीमनामा तेषामेको यः क्षणदायां यीशोः सन्निधिम् अगात् स उक्त्तवान् \p \v 51 तस्य वाक्ये न श्रुते कर्म्मणि च न विदिते ऽस्माकं व्यवस्था किं कञ्चन मनुजं दोषीकरोति? \p \v 52 ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते। \p \v 53 ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्। \c 8 \p \v 1 प्रत्यूषे यीशुः पनर्मन्दिरम् आगच्छत् \p \v 2 ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत। \p \v 3 तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन् \p \v 4 हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः। \p \v 5 एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति? \p \v 6 ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत। \p \v 7 ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु। \p \v 8 पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत। \p \v 9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता। \p \v 10 तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति? \p \v 11 सावदत् हे महेच्छ कोपि न तदा यीशुरवोचत् नाहमपि दण्डयामि याहि पुनः पापं माकार्षीः। \p \v 12 ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति। \p \v 13 ततः फिरूशिनोऽवादिषुस्त्वं स्वार्थे स्वयं साक्ष्यं ददासि तस्मात् तव साक्ष्यं ग्राह्यं न भवति। \p \v 14 तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ। \p \v 15 यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि। \p \v 16 किन्तु यदि विचारयामि तर्हि मम विचारो ग्रहीतव्यो यतोहम् एकाकी नास्मि प्रेरयिता पिता मया सह विद्यते। \p \v 17 द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति। \p \v 18 अहं स्वार्थे स्वयं साक्षित्वं ददामि यश्च मम तातो मां प्रेरितवान् सोपि मदर्थे साक्ष्यं ददाति। \p \v 19 तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत। \p \v 20 यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्। \p \v 21 ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ। \p \v 22 तदा यिहूदीयाः प्रावोचन् किमयम् आत्मघातं करिष्यति? यतो यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ इति वाक्यं ब्रवीति। \p \v 23 ततो यीशुस्तेभ्यः कथितवान् यूयम् अधःस्थानीया लोका अहम् ऊर्द्व्वस्थानीयः यूयम् एतज्जगत्सम्बन्धीया अहम् एतज्जगत्सम्बन्धीयो न। \p \v 24 तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ। \p \v 25 तदा ते ऽपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं। \p \v 26 युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि। \p \v 27 किन्तु स जनके वाक्यमिदं प्रोक्त्तवान् इति ते नाबुध्यन्त। \p \v 28 ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ। \p \v 29 मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि। \p \v 30 तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्। \p \v 31 ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत् \p \v 32 मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति। \p \v 33 तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि? \p \v 34 तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः। \p \v 35 दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति। \p \v 36 अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ। \p \v 37 युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे। \p \v 38 अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे। \p \v 39 तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत। \p \v 40 ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार। \p \v 41 यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः \p \v 42 ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्। \p \v 43 यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ। \p \v 44 यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च। \p \v 45 अहं तथ्यवाक्यं वदामि कारणादस्माद् यूयं मां न प्रतीथ। \p \v 46 मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ? \p \v 47 यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे। \p \v 48 तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म? \p \v 49 ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे। \p \v 50 अहं स्वसुख्यातिं न चेष्टे किन्तु चेष्टिता विचारयिता चापर एक आस्ते। \p \v 51 अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति। \p \v 52 यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते। \p \v 53 तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे? \p \v 54 यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते। \p \v 55 यूयं तं नावगच्छथ किन्त्वहं तमवगच्छामि तं नावगच्छामीति वाक्यं यदि वदामि तर्हि यूयमिव मृषाभाषी भवामि किन्त्वहं तमवगच्छामि तदाक्षामपि गृह्लामि। \p \v 56 युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च। \p \v 57 तदा यिहूदीया अपृच्छन् तव वयः पञ्चाशद्वत्सरा न त्वं किम् इब्राहीमम् अद्राक्षीः? \p \v 58 यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये। \p \v 59 तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्। \c 9 \p \v 1 ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्। \p \v 2 ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धोऽजायत? \p \v 3 ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव। \p \v 4 दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति। \p \v 5 अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि। \p \v 6 इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान् \p \v 7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्। \p \v 8 अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति? \p \v 9 केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि। \p \v 10 अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्? \p \v 11 ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्। \p \v 12 तदा ते ऽवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि। \p \v 13 अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि? \p \v 14 ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे। \p \v 15 किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन् \p \v 16 स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति? \p \v 17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी। \p \v 18 स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्। \p \v 19 अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति? \p \v 20 ततस्तस्य पितरौ प्रत्यवोचताम् अयम् आवयोः पुत्र आ जनेरन्धश्च तदप्यावां जानीवः \p \v 21 किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति। \p \v 22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन् \p \v 23 अतस्तस्य पितरौ व्याहरताम् एष वयःप्राप्त एनं पृच्छत। \p \v 24 तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः। \p \v 25 तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि। \p \v 26 ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्? \p \v 27 ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ? \p \v 28 तदा ते तं तिरस्कृत्य व्याहरन् त्वं तस्य शिष्यो वयं मूसाः शिष्याः। \p \v 29 मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः। \p \v 30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति। \p \v 31 ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः। \p \v 32 कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्। \p \v 33 अस्माद् एष मनुष्यो यदीश्वरान्नाजायत तर्हि किञ्चिदपीदृशं कर्म्म कर्त्तुं नाशक्नोत्। \p \v 34 ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्। \p \v 35 तदनन्तरं यिहूदीयैः स बहिरक्रियत यीशुरिति वार्त्तां श्रुत्वा तं साक्षात् प्राप्य पृष्टवान् ईश्वरस्य पुत्रे त्वं विश्वसिषि? \p \v 36 तदा स प्रत्यवोचत् हे प्रभो स को यत् तस्मिन्नहं विश्वसिमि? \p \v 37 ततो यीशुः कथितवान् त्वं तं दृष्टवान् त्वया साकं यः कथं कथयति सएव सः। \p \v 38 तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्। \p \v 39 पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्। \p \v 40 एतत् श्रुत्वा निकटस्थाः कतिपयाः फिरूशिनो व्याहरन् वयमपि किमन्धाः? \p \v 41 तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति। \c 10 \p \v 1 अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च। \p \v 2 यो द्वारेण प्रविशति स एव मेषपालकः। \p \v 3 दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति। \p \v 4 तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति। \p \v 5 किन्तु परस्य शब्दं न बुध्यन्ते तस्मात् तस्य पश्चाद् व्रजिष्यन्ति वरं तस्य समीपात् पलायिष्यन्ते। \p \v 6 यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त। \p \v 7 अतो यीशुः पुनरकथयत्, युष्मानाहं यथार्थतरं व्याहरामि, मेषगृहस्य द्वारम् अहमेव। \p \v 8 मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्। \p \v 9 अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति। \p \v 10 यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्। \p \v 11 अहमेव सत्यमेषपालको यस्तु सत्यो मेषपालकः स मेषार्थं प्राणत्यागं करोति; \p \v 12 किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति। \p \v 13 वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति। \p \v 14 अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि, \p \v 15 तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि। \p \v 16 अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति। \p \v 17 प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति। \p \v 18 कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्। \p \v 19 अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता। \p \v 20 ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ? \p \v 21 केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति? \p \v 22 शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते \p \v 23 यीशुः सुलेमानो निःसारेण गमनागमने करोति, \p \v 24 एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद। \p \v 25 तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा। \p \v 26 किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ। \p \v 27 मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति। \p \v 28 अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति। \p \v 29 यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति। \p \v 30 अहं पिता च द्वयोरेकत्वम्। \p \v 31 ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्। \p \v 32 यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ? \p \v 33 यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः। \p \v 34 तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं? \p \v 35 तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं, \p \v 36 तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय? \p \v 37 यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत; \p \v 38 किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ। \p \v 39 तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य \p \v 40 पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्। \p \v 41 ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः; \p \v 42 तत्र च बहवो लोकास्तस्मिन् व्यश्वसन्। \c 11 \p \v 1 अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्। \p \v 2 या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी। \p \v 3 अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ। \p \v 4 तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता। \p \v 5 यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत, \p \v 6 तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्। \p \v 7 ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः। \p \v 8 ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि? \p \v 9 यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति। \p \v 10 किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति। \p \v 11 इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि। \p \v 12 यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्, \p \v 13 हे गुरो स यदि निद्राति तर्हि भद्रमेव। \p \v 14 तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत; \p \v 15 किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम। \p \v 16 तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै। \p \v 17 यीशुस्तत्रोपस्थाय इलियासरः श्मशाने स्थापनात् चत्वारि दिनानि गतानीति वार्त्तां श्रुतवान्। \p \v 18 वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता; \p \v 19 तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्। \p \v 20 मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता। \p \v 21 तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्। \p \v 22 किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं। \p \v 23 यीशुरवादीत् तव भ्राता समुत्थास्यति। \p \v 24 मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं। \p \v 25 तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति; \p \v 26 यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि? \p \v 27 सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि। \p \v 28 इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च। \p \v 29 कथामिमां श्रुत्वा सा तूर्णम् उत्थाय तस्य समीपम् अगच्छत्। \p \v 30 यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्। \p \v 31 ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्। \p \v 32 यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्। \p \v 33 यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत? \p \v 34 ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु। \p \v 35 यीशुना क्रन्दितं। \p \v 36 अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत। \p \v 37 तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्? \p \v 38 ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्। \p \v 39 तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति। \p \v 40 तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं? \p \v 41 तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि। \p \v 42 त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि। \p \v 43 इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ। \p \v 44 ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं। \p \v 45 मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्, \p \v 46 किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्। \p \v 47 ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति। \p \v 48 यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति। \p \v 49 तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ; \p \v 50 समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ। \p \v 51 एतां कथां स निजबुद्ध्या व्याहरद् इति न, \p \v 52 किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्। \p \v 53 तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे। \p \v 54 अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे। \p \v 55 अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्, \p \v 56 यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति? \p \v 57 स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्। \c 12 \p \v 1 निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्। \p \v 2 तत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्। \p \v 3 तदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्। \p \v 4 यः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्, \p \v 5 एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत? \p \v 6 स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्। \p \v 7 तदा यीशुरकथयद् एनां मा वारय सा मम श्मशानस्थापनदिनार्थं तदरक्षयत्। \p \v 8 दरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि। \p \v 9 ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन। \p \v 10 तदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ; \p \v 11 यतस्तेन बहवो यिहूदीया गत्वा यीशौ व्यश्वसन्। \p \v 12 अनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः \p \v 13 खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः। \p \v 14 तदा "हे सियोनः कन्ये मा भैषीः पश्यायं तव राजा गर्द्दभशावकम् आरुह्यागच्छति" \p \v 15 इति शास्त्रीयवचनानुसारेण यीशुरेकं युवगर्द्दभं प्राप्य तदुपर्य्यारोहत्। \p \v 16 अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः। \p \v 17 स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त। \p \v 18 स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्। \p \v 19 ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्। \p \v 20 भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् , \p \v 21 ते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः। \p \v 22 ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां। \p \v 23 तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः। \p \v 24 अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति। \p \v 25 यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति। \p \v 26 कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते। \p \v 27 साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्। \p \v 28 हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत। \p \v 29 तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्। \p \v 30 तदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्। \p \v 31 अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति। \p \v 32 यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि। \p \v 33 कथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्। \p \v 34 तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः? \p \v 35 तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति। \p \v 36 अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्। \p \v 37 यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्। \p \v 38 अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्। \p \v 39 ते प्रत्येतुं नाशन्कुवन् तस्मिन् यिशयियभविष्यद्वादि पुनरवादीद्, \p \v 40 यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।" \p \v 41 यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्। \p \v 42 तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः। \p \v 43 यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त। \p \v 44 तदा यीशुरुच्चैःकारम् अकथयद् यो जनो मयि विश्वसिति स केवले मयि विश्वसितीति न, स मत्प्रेरकेऽपि विश्वसिति। \p \v 45 यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति। \p \v 46 यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्। \p \v 47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि। \p \v 48 यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति। \p \v 49 यतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्। \p \v 50 तस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्। \c 13 \p \v 1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्। \p \v 2 पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति, \p \v 3 यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्, \p \v 4 तदा यीशु र्भोजनासनाद् उत्थाय गात्रवस्त्रं मोचयित्वा गात्रमार्जनवस्त्रं गृहीत्वा तेन स्वकटिम् अबध्नात्, \p \v 5 पश्चाद् एकपात्रे जलम् अभिषिच्य शिष्याणां पादान् प्रक्षाल्य तेन कटिबद्धगात्रमार्जनवाससा मार्ष्टुं प्रारभत। \p \v 6 ततः शिमोन्पितरस्य समीपमागते स उक्तवान् हे प्रभो भवान् किं मम पादौ प्रक्षालयिष्यति? \p \v 7 यीशुरुदितवान् अहं यत् करोमि तत् सम्प्रति न जानासि किन्तु पश्चाज् ज्ञास्यसि। \p \v 8 ततः पितरः कथितवान् भवान् कदापि मम पादौ न प्रक्षालयिष्यति। यीशुरकथयद् यदि त्वां न प्रक्षालये तर्हि मयि तव कोप्यंशो नास्ति। \p \v 9 तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु। \p \v 10 ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे, \p \v 11 यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्। \p \v 12 इत्थं यीशुस्तेषां पादान् प्रक्षाल्य वस्त्रं परिधायासने समुपविश्य कथितवान् अहं युष्मान् प्रति किं कर्म्माकार्षं जानीथ? \p \v 13 यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि। \p \v 14 यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्। \p \v 15 अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्। \p \v 16 अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्। \p \v 17 इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ। \p \v 18 सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते। \p \v 19 अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्। \p \v 20 अहं युष्मानतीव यथार्थं वदामि, मया प्रेरितं जनं यो गृह्लाति स मामेव गृह्लाति यश्च मां गृह्लाति स मत्प्रेरकं गृह्लाति। \p \v 21 एतां कथां कथयित्वा यीशु र्दुःखी सन् प्रमाणं दत्त्वा कथितवान् अहं युष्मानतियथार्थं वदामि युष्माकम् एको जनो मां परकरेषु समर्पयिष्यति। \p \v 22 ततः स कमुद्दिश्य कथामेतां कथितवान् इत्यत्र सन्दिग्धाः शिष्याः परस्परं मुखमालोकयितुं प्रारभन्त। \p \v 23 तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत। \p \v 24 शिमोन्पितरस्तं सङ्केतेनावदत्, अयं कमुद्दिश्य कथामेताम् कथयतीति पृच्छ। \p \v 25 तदा स यीशो र्वक्षःस्थलम् अवलम्ब्य पृष्ठवान्, हे प्रभो स जनः कः? \p \v 26 ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्। \p \v 27 तस्मिन् दत्ते सति शैतान् तमाश्रयत्; तदा यीशुस्तम् अवदत् त्वं यत् करिष्यसि तत् क्षिप्रं कुरु। \p \v 28 किन्तु स येनाशयेन तां कथामकथायत् तम् उपविष्टलोकानां कोपि नाबुध्यत; \p \v 29 किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्। \p \v 30 तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता। \p \v 31 यिहूदे बहिर्गते यीशुरकथयद् इदानीं मानवसुतस्य महिमा प्रकाशते तेनेश्वरस्यापि महिमा प्रकाशते। \p \v 32 यदि तेनेश्वरस्य महिमा प्रकाशते तर्हीश्वरोपि स्वेन तस्य महिमानं प्रकाशयिष्यति तूर्णमेव प्रकाशयिष्यति। \p \v 33 हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि। \p \v 34 यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि। \p \v 35 तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति। \p \v 36 शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि। \p \v 37 तदा पितरः प्रत्युदितवान्, हे प्रभो साम्प्रतं कुतो हेतोस्तव पश्चाद् गन्तुं न शक्नोमि? त्वदर्थं प्राणान् दातुं शक्नोमि। \p \v 38 ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे। \c 14 \p \v 1 मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित। \p \v 2 मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि। \p \v 3 यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ। \p \v 4 अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ। \p \v 5 तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं ज्ञातुं शक्नुमः? \p \v 6 यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति। \p \v 7 यदि माम् अज्ञास्यत तर्हि मम पितरमप्यज्ञास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च। \p \v 8 तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति। \p \v 9 ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि? \p \v 10 अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति। \p \v 11 अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत। \p \v 12 अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि। \p \v 13 यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि। \p \v 14 यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि। \p \v 15 यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत। \p \v 16 ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति। \p \v 17 एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च। \p \v 18 अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि। \p \v 19 कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ। \p \v 20 पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ। \p \v 21 यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि। \p \v 22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति? \p \v 23 ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः। \p \v 24 यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा। \p \v 25 इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि। \p \v 26 किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति। \p \v 27 अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु। \p \v 28 अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्। \p \v 29 तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि। \p \v 30 इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति। \p \v 31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम। \c 15 \p \v 1 अहं सत्यद्राक्षालतास्वरूपो मम पिता तूद्यानपरिचारकस्वरूपञ्च। \p \v 2 मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति। \p \v 3 इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः। \p \v 4 अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ। \p \v 5 अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ। \p \v 6 यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति। \p \v 7 यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति। \p \v 8 यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे। \p \v 9 पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत। \p \v 10 अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ। \p \v 11 युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्। \p \v 12 अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा। \p \v 13 मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति। \p \v 14 अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि। \p \v 15 अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्। \p \v 16 यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति। \p \v 17 यूयं परस्परं प्रीयध्वम् अहम् इत्याज्ञापयामि। \p \v 18 जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ। \p \v 19 यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते। \p \v 20 दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति। \p \v 21 किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति। \p \v 22 तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति। \p \v 23 यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते। \p \v 24 यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त। \p \v 25 तस्मात् तेऽकारणं माम् ऋतीयन्ते यदेतद् वचनं तेषां शास्त्रे लिखितमास्ते तत् सफलम् अभवत्। \p \v 26 किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति। \p \v 27 यूयं प्रथममारभ्य मया सार्द्धं तिष्ठथ तस्माद्धेतो र्यूयमपि प्रमाणं दास्यथ। \c 16 \p \v 1 युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं। \p \v 2 लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति। \p \v 3 ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति। \p \v 4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं। \p \v 5 साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति। \p \v 6 किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्। \p \v 7 तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि। \p \v 8 ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति। \p \v 9 ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति। \p \v 10 युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति। \p \v 11 एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति। \p \v 12 युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ; \p \v 13 किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति। \p \v 14 मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति। \p \v 15 पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति। \p \v 16 कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि। \p \v 17 ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं? \p \v 18 ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति \p \v 19 निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे? \p \v 20 युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ। \p \v 21 प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति, \p \v 22 तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति। \p \v 23 तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति। \p \v 24 पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते। \p \v 25 उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति। \p \v 26 तदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि; \p \v 27 यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते। \p \v 28 पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि। \p \v 29 तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति। \p \v 30 भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः। \p \v 31 ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ? \p \v 32 पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते। \p \v 33 यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं। \c 17 \p \v 1 ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय। \p \v 2 त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्। \p \v 3 यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति। \p \v 4 त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं। \p \v 5 अतएव हे पित र्जगत्यविद्यमाने त्वया सह तिष्ठतो मम यो महिमासीत् सम्प्रति तव समीपे मां तं महिमानं प्रापय। \p \v 6 अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्। \p \v 7 त्वं मह्यं यत् किञ्चिद् अददास्तत्सर्व्वं त्वत्तो जायते इत्यधुनाजानन्। \p \v 8 मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्। \p \v 9 तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते। \p \v 10 ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते। \p \v 11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष। \p \v 12 यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति। \p \v 13 किन्त्वधुना तव सन्निधिं गच्छामि मया यथा तेषां सम्पूर्णानन्दो भवति तदर्थमहं जगति तिष्ठन् एताः कथा अकथयम्। \p \v 14 तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते। \p \v 15 त्वं जगतस्तान् गृहाणेति न प्रार्थये किन्त्वशुभाद् रक्षेति प्रार्थयेहम्। \p \v 16 अहं यथा जगत्सम्बन्धीयो न भवामि तथा तेपि जगत्सम्बन्धीया न भवन्ति। \p \v 17 तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं। \p \v 18 त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं। \p \v 19 तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु। \p \v 20 केवलं एतेषामर्थे प्रार्थयेऽहम् इति न किन्त्वेतेषामुपदेशेन ये जना मयि विश्वसिष्यन्ति तेषामप्यर्थे प्रार्थेयेऽहम्। \p \v 21 हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु। \p \v 22 यथावयोरेकत्वं तथा तेषामप्येकत्वं भवतु तेष्वहं मयि च त्वम् इत्थं तेषां सम्पूर्णमेकत्वं भवतु, त्वं प्रेरितवान् त्वं मयि यथा प्रीयसे च तथा तेष्वपि प्रीतवान् एतद्यथा जगतो लोका जानन्ति \p \v 23 तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्। \p \v 24 हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा। \p \v 25 हे यथार्थिक पित र्जगतो लोकैस्त्वय्यज्ञातेपि त्वामहं जाने त्वं मां प्रेरितवान् इतीमे शिष्या जानन्ति। \p \v 26 यथाहं तेषु तिष्ठामि तथा मयि येन प्रेम्ना प्रेमाकरोस्तत् तेषु तिष्ठति तदर्थं तव नामाहं तान् ज्ञापितवान् पुनरपि ज्ञापयिष्यामि। \c 18 \p \v 1 ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्। \p \v 2 किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्। \p \v 3 तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्। \p \v 4 स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ? \p \v 5 ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्। \p \v 6 तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः। \p \v 7 ततो यीशुः पुनरपि पृष्ठवान् कं गवेषयथ? ततस्ते प्रत्यवदन् नासरतीयं यीशुं। \p \v 8 तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत। \p \v 9 इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता। \p \v 10 तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्। \p \v 11 ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि? \p \v 12 तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्। \p \v 13 स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः \p \v 14 सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्। \p \v 15 तदा शिमोन्पितरोऽन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्। \p \v 16 किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्। \p \v 17 तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि। \p \v 18 ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत। \p \v 19 तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः \p \v 20 सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं। \p \v 21 मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त। \p \v 22 तदेत्थं प्रत्युदितत्वात् निकटस्थपदाति र्यीशुं चपेटेनाहत्य व्याहरत् महायाजकम् एवं प्रतिवदसि? \p \v 23 ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः? \p \v 24 पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्। \p \v 25 शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि। \p \v 26 तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं? \p \v 27 किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्। \p \v 28 तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्। \p \v 29 अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ? \p \v 30 तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः। \p \v 31 ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति। \p \v 32 एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्। \p \v 33 तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा? \p \v 34 यीशुः प्रत्यवदत् त्वम् एतां कथां स्वतः कथयसि किमन्यः कश्चिन् मयि कथितवान्? \p \v 35 पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्? \p \v 36 यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न। \p \v 37 तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति। \p \v 38 तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि। \p \v 39 निस्तारोत्सवसमये युष्माभिरभिरुचित एको जनो मया मोचयितव्य एषा युष्माकं रीतिरस्ति, अतएव युष्माकं निकटे यिहूदीयानां राजानं किं मोचयामि, युष्माकम् इच्छा का? \p \v 40 तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्। \c 19 \p \v 1 पीलातो यीशुम् आनीय कशया प्राहारयत्। \p \v 2 पश्चात् सेनागणः कण्टकनिर्म्मितं मुकुटं तस्य मस्तके समर्प्य वार्त्ताकीवर्णं राजपरिच्छदं परिधाप्य, \p \v 3 हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं चपेटेनाहन्तुम् आरभत। \p \v 4 तदा पीलातः पुनरपि बहिर्गत्वा लोकान् अवदत्, अस्य कमप्यपराधं न लभेऽहं, पश्यत तद् युष्मान् ज्ञापयितुं युष्माकं सन्निधौ बहिरेनम् आनयामि। \p \v 5 ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत। \p \v 6 तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्। \p \v 7 यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्। \p \v 8 पीलात इमां कथां श्रुत्वा महात्रासयुक्तः \p \v 9 सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्। \p \v 10 १॰ ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् ईश्वरेणादŸां ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्। \p \v 11 तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्। \p \v 12 तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति। \p \v 13 एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्। \p \v 14 अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत। \p \v 15 किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति। \p \v 16 ततः पीलातो यीशुं क्रुशे वेधितुं तेषां हस्तेषु समार्पयत्, ततस्ते तं धृत्वा नीतवन्तः। \p \v 17 ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः। \p \v 18 ततस्ते मध्यस्थाने तं तस्योभयपार्श्वे द्वावपरौ क्रुशेऽविधन्। \p \v 19 अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्। \p \v 20 सा लिपिः इब्रीययूनानीयरोमीयभाषाभि र्लिखिता; यीशोः क्रुशवेधनस्थानं नगरस्य समीपं, तस्माद् बहवो यिहूदीयास्तां पठितुम् आरभन्त। \p \v 21 यिहूदीयानां प्रधानयाजकाः पीलातमिति न्यवेदयन् यिहूदीयानां राजेति वाक्यं न किन्तु एष स्वं यिहूदीयानां राजानम् अवदद् इत्थं लिखतु। \p \v 22 ततः पीलात उत्तरं दत्तवान् यल्लेखनीयं तल्लिखितवान्। \p \v 23 इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं। \p \v 24 तस्मात्ते व्याहरन् एतत् कः प्राप्स्यति? तन्न खण्डयित्वा तत्र गुटिकापातं करवाम। विभजन्तेऽधरीयं मे वसनं ते परस्परं। ममोत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च। इति यद्वाक्यं धर्म्मपुस्तके लिखितमास्ते तत् सेनागणेनेत्थं व्यवहरणात् सिद्धमभवत्। \p \v 25 तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्। \p \v 26 ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य, \p \v 27 शिष्यन्त्ववदत्, एनां तव मातरं पश्य। ततः स शिष्यस्तद्घटिकायां तां निजगृहं नीतवान्। \p \v 28 अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता। \p \v 29 ततस्तस्मिन् स्थाने अम्लरसेन पूर्णपात्रस्थित्या ते स्पञ्जमेकं तदम्लरसेनार्द्रीकृत्य एसोब्नले तद् योजयित्वा तस्य मुखस्य सन्निधावस्थापयन्। \p \v 30 तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्। \p \v 31 तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त। \p \v 32 अतः सेना आगत्य यीशुना सह क्रुशे हतयोः प्रथमद्वितीयचोरयोः पादान् अभञ्जन्; \p \v 33 किन्तु यीशोः सन्निधिं गत्वा स मृत इति दृष्ट्वा तस्य पादौ नाभञ्जन्। \p \v 34 पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्। \p \v 35 यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति। \p \v 36 तस्यैकम् अस्ध्यपि न भंक्ष्यते, \p \v 37 तद्वद् अन्यशास्त्रेपि लिख्यते, यथा, "दृष्टिपातं करिष्यन्ति तेऽविधन् यन्तु तम्प्रति।" \p \v 38 अरिमथीयनगरस्य यूषफ्नामा शिष्य एक आसीत् किन्तु यिहूदीयेभ्यो भयात् प्रकाशितो न भवति; स यीशो र्देहं नेतुं पीलातस्यानुमतिं प्रार्थयत, ततः पीलातेनानुमते सति स गत्वा यीशो र्देहम् अनयत्। \p \v 39 अपरं यो निकदीमो रात्रौ यीशोः समीपम् अगच्छत् सोपि गन्धरसेन मिश्रितं प्रायेण पञ्चाशत्सेटकमगुरुं गृहीत्वागच्छत्। \p \v 40 ततस्ते यिहूदीयानां श्मशाने स्थापनरीत्यनुसारेण तत्सुगन्धिद्रव्येण सहितं तस्य देहं वस्त्रेणावेष्टयन्। \p \v 41 अपरञ्च यत्र स्थाने तं क्रुशेऽविधन् तस्य निकटस्थोद्याने यत्र किमपि मृतदेहं कदापि नास्थाप्यत तादृशम् एकं नूतनं श्मशानम् आसीत्। \p \v 42 यिहूदीयानाम् आसादनदिनागमनात् ते तस्मिन् समीपस्थश्मशाने यीशुम् अशाययन्। \c 20 \p \v 1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्। \p \v 2 पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि। \p \v 3 अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां। \p \v 4 उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्। \p \v 5 तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्। \p \v 6 अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य \p \v 7 स्थापितवस्त्राणि मस्तकस्य वस्त्रञ्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्। \p \v 8 ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्। \p \v 9 यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्। \p \v 10 अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्। \p \v 11 ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य \p \v 12 यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्। \p \v 13 तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि। \p \v 14 इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा ज्ञातुं नाशक्नोत्। \p \v 15 तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि। \p \v 16 तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो। \p \v 17 तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय। \p \v 18 ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्। \p \v 19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्। \p \v 20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्। \p \v 21 यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि। \p \v 22 इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत। \p \v 23 यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते। \p \v 24 द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्। \p \v 25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि। \p \v 26 अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्। \p \v 27 पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य। \p \v 28 तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर। \p \v 29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः। \p \v 30 एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्। \p \v 31 किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त। \c 21 \p \v 1 ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्। \p \v 2 शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि। \p \v 3 ततस्ते व्याहरन् तर्हि वयमपि त्वया सार्द्धं यामः तदा ते बहिर्गताः सन्तः क्षिप्रं नावम् आरोहन् किन्तु तस्यां रजन्याम् एकमपि न प्राप्नुवन्। \p \v 4 प्रभाते सति यीशुस्तटे स्थितवान् किन्तु स यीशुरिति शिष्या ज्ञातुं नाशक्नुवन्। \p \v 5 तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति। \p \v 6 तदा सोऽवदत् नौकाया दक्षिणपार्श्वे जालं निक्षिपत ततो लप्स्यध्वे, तस्मात् तै र्निक्षिप्ते जाले मत्स्या एतावन्तोऽपतन् येन ते जालमाकृष्य नोत्तोलयितुं शक्ताः। \p \v 7 तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्। \p \v 8 अपरे शिष्या मत्स्यैः सार्द्धं जालम् आकर्षन्तः क्षुद्रनौकां वाहयित्वा कूलमानयन् ते कूलाद् अतिदूरे नासन् द्विशतहस्तेभ्यो दूर आसन् इत्यनुमीयते। \p \v 9 तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः। \p \v 10 ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत। \p \v 11 अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत। \p \v 12 अनन्तरं यीशुस्तान् अवादीत् यूयमागत्य भुंग्ध्वं; तदा सएव प्रभुरिति ज्ञातत्वात् त्वं कः? इति प्रष्टुं शिष्याणां कस्यापि प्रगल्भता नाभवत्। \p \v 13 ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्। \p \v 14 इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्। \p \v 15 भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय। \p \v 16 ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय। \p \v 17 पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय। \p \v 18 अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति। \p \v 19 फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ। \p \v 20 यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं \p \v 21 पितरो मुखं परावर्त्त्य विलोक्य यीशुं पृष्टवान्, हे प्रभो एतस्य मानवस्य कीदृशी गति र्भविष्यति? \p \v 22 स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ। \p \v 23 तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्। \p \v 24 यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः। \p \v 25 यीशुरेतेभ्योऽपराण्यपि बहूनि कर्म्माणि कृतवान् तानि सर्व्वाणि यद्येकैकं कृत्वा लिख्यन्ते तर्हि ग्रन्था एतावन्तो भवन्ति तेषां धारणे पृथिव्यां स्थानं न भवति। इति॥