\id JAS Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h James \toc1 याकूबः पत्रं \toc2 याकूबः \toc3 याकूबः \mt1 याकूबः पत्रं \c 1 \p \v 1 ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति। \p \v 2 हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। \p \v 3 यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ। \p \v 4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति। \p \v 5 युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते। \p \v 6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति। \p \v 7 तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां। \p \v 8 द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति। \p \v 9 यो भ्राता नम्रः स निजोन्नत्या श्लाघतां। \p \v 10 यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति। \p \v 11 यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति। \p \v 12 यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते। \p \v 13 ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते। \p \v 14 किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति। \p \v 15 तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति। \p \v 16 हे मम प्रियभ्रातरः, यूयं न भ्राम्यत। \p \v 17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति। \p \v 18 तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास। \p \v 19 अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। \p \v 20 यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति। \p \v 21 अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत। \p \v 22 अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत। \p \v 23 यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः। \p \v 24 आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति। \p \v 25 किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति। \p \v 26 अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति। \p \v 27 क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः। \c 2 \p \v 1 हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत। \p \v 2 यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे \p \v 3 यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति, \p \v 4 तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ? \p \v 5 हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते। \p \v 6 धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति? \p \v 7 युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते? \p \v 8 किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ। \p \v 9 यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे। \p \v 10 यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति। \p \v 11 यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि। \p \v 12 मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च। \p \v 13 यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति। \p \v 14 हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति? \p \v 15 केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्, \p \v 16 यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं? \p \v 17 तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते। \p \v 18 किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि। \p \v 19 एक ईश्वरो ऽस्तीति त्वं प्रत्येषि। भद्रं करोषि। भूता अपि तत् प्रतियन्ति कम्पन्ते च। \p \v 20 किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि? \p \v 21 अस्माकं पूर्व्वपुरुषो य इब्राहीम् स्वपुत्रम् इस्हाकं यज्ञवेद्याम् उत्सृष्टवान् स किं कर्म्मभ्यो न सपुण्यीकृतः? \p \v 22 प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि? \p \v 23 इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्। \p \v 24 पश्यत मानवः कर्म्मभ्यः सपुण्यीक्रियते न चैकाकिना प्रत्ययेन। \p \v 25 तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता? \p \v 26 अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति। \c 3 \p \v 1 हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत। \p \v 2 यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति। \p \v 3 पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः। \p \v 4 पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते। \p \v 5 तद्वद् रसनापि क्षुद्रतराङ्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृङ्महारण्यं दह्यते ऽल्पेन वह्निना। \p \v 6 रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। \p \v 7 पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च। \p \v 8 किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च। \p \v 9 तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः। \p \v 10 एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं। \p \v 11 प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति? \p \v 12 हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति। \p \v 13 युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु। \p \v 14 किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत। \p \v 15 तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च। \p \v 16 यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते। \p \v 17 किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति। \p \v 18 शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते। \c 4 \p \v 1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे? \p \v 2 यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ। \p \v 3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे। \p \v 4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति। \p \v 5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति? \p \v 6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥ \p \v 7 अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते। \p \v 8 ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं। \p \v 9 यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां। \p \v 10 प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति। \p \v 11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि। \p \v 12 अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि? \p \v 13 अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत। \p \v 14 श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं। \p \v 15 तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति। \p \v 16 किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव। \p \v 17 अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते। \c 5 \p \v 1 हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च। \p \v 2 युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः। \p \v 3 कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं। \p \v 4 पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः। \p \v 5 यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च। \p \v 6 अपरञ्च युष्माभि र्धार्म्मिकस्य दण्डाज्ञा हत्या चाकारि तथापि स युष्मान् न प्रतिरुद्धवान्। \p \v 7 हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते। \p \v 8 यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्। \p \v 9 हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति। \p \v 10 हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत। \p \v 11 पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति। \p \v 12 हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु। \p \v 13 युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु। \p \v 14 युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु। \p \v 15 तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते। \p \v 16 यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति। \p \v 17 य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव। \p \v 18 पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्। \p \v 19 हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति \p \v 20 तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।