\id HEB Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Hebrews \toc1 इब्रिणः पत्रं \toc2 इब्रिणः \toc3 इब्रिणः \mt1 इब्रिणः पत्रं \c 1 \p \v 1 पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान् \p \v 2 स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। \p \v 3 स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्। \p \v 4 दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः। \p \v 5 यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया।" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति।" \p \v 6 अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।" \p \v 7 दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥" \p \v 8 किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। \p \v 9 पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥" \p \v 10 पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं। \p \v 11 इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्। \p \v 12 सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥" \p \v 13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥" \p \v 14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि? \c 2 \p \v 1 अतो वयं यद् भ्रमस्रोतसा नापनीयामहे तदर्थमस्माभि र्यद्यद् अश्रावि तस्मिन् मनांसि निधातव्यानि। \p \v 2 यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत, \p \v 3 तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं, \p \v 4 अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्। \p \v 5 वयं तु यस्य भाविराज्यस्य कथां कथयामः, तत् तेन् दिव्यदूतानाम् अधीनीकृतमिति नहि। \p \v 6 किन्तु कुत्रापि कश्चित् प्रमाणम् ईदृशं दत्तवान्, यथा, "किं वस्तु मानवो यत् स नित्यं संस्मर्य्यते त्वया। किं वा मानवसन्तानो यत् स आलोच्यते त्वया। \p \v 7 दिव्यदतगणेभ्यः स किञ्चिन् न्यूनः कृतस्त्वया। तेजोगौरवरूपेण किरीटेन विभूषितः। सृष्टं यत् ते कराभ्यां स तत्प्रभुत्वे नियोजितः। \p \v 8 चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः। \p \v 9 तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत। \p \v 10 अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्। \p \v 11 यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते। \p \v 12 तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥" \p \v 13 पुनरपि, यथा, "तस्मिन् विश्वस्य स्थाताहं।" पुनरपि, यथा, "पश्याहम् अपत्यानि च दत्तानि मह्यम् ईश्वरात्।" \p \v 14 तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात् \p \v 15 ये च मृत्युभयाद् यावज्जीवनं दासत्वस्य निघ्ना आसन् तान् उद्धारयेत्। \p \v 16 स दूतानाम् उपकारी न भवति किन्त्विब्राहीमो वंशस्यैवोपकारी भवती। \p \v 17 अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्। \p \v 18 यतः स स्वयं परीक्षां गत्वा यं दुःखभोगम् अवगतस्तेन परीक्षाक्रान्तान् उपकर्त्तुं शक्नोति। \c 3 \p \v 1 हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं। \p \v 2 मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति। \p \v 3 परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति। \p \v 4 एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव। \p \v 5 मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव। \p \v 6 वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः। \p \v 7 अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ। \p \v 8 तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः। \p \v 9 युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मेऽनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये। \p \v 10 अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे। \p \v 11 इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥" \p \v 12 हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु। \p \v 13 किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत। \p \v 14 यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं। \p \v 15 अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं, \p \v 16 तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि? \p \v 17 केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे ऽपतन् किं तेभ्यो नहि? \p \v 18 प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि? \p \v 19 अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे। \c 4 \p \v 1 अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः। \p \v 2 यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्। \p \v 3 तद् विश्रामस्थानं विश्वासिभिरस्माभिः प्रविश्यते यतस्तेनोक्तं, "अहं कोपात् शपथं कृतवान् इमं, प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" किन्तु तस्य कर्म्माणि जगतः सृष्टिकालात् समाप्तानि सन्ति। \p \v 4 यतः कस्मिंश्चित् स्थाने सप्तमं दिनमधि तेनेदम् उक्तं, यथा, "ईश्वरः सप्तमे दिने स्वकृतेभ्यः सर्व्वकर्म्मभ्यो विशश्राम।" \p \v 5 किन्त्वेतस्मिन् स्थाने पुनस्तेनोच्यते, यथा, "प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" \p \v 6 फलतस्तत् स्थानं कैश्चित् प्रवेष्टव्यं किन्तु ये पुरा सुसंवादं श्रुतवन्तस्तैरविश्वासात् तन्न प्रविष्टम्, \p \v 7 इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।" \p \v 8 अपरं यिहोशूयो यदि तान् व्यश्रामयिष्यत् तर्हि ततः परम् अपरस्य दिनस्य वाग् ईश्वरेण नाकथयिष्यत। \p \v 9 अत ईश्वरस्य प्रजाभिः कर्त्तव्य एको विश्रामस्तिष्ठति। \p \v 10 अपरम् ईश्वरो यद्वत् स्वकृतकर्म्मभ्यो विशश्राम तद्वत् तस्य विश्रामस्थानं प्रविष्टो जनोऽपि स्वकृतकर्म्मभ्यो विश्राम्यति। \p \v 11 अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु। \p \v 12 ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः। \p \v 13 अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते। \p \v 14 अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै। \p \v 15 अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः। \p \v 16 अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः। \c 5 \p \v 1 यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते। \p \v 2 स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति। \p \v 3 एतस्मात् कारणाच्च यद्वत् लोकानां कृते तद्वद् आत्मकृतेऽपि पापार्थकबलिदानं तेन कर्त्तव्यं। \p \v 4 स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते। \p \v 5 एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्। \p \v 6 तद्वद् अन्यगीतेऽपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः। \p \v 7 स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च \p \v 8 यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज्ञाग्रहणम् अशिक्षत। \p \v 9 इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्। \p \v 10 तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः। \p \v 11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः। \p \v 12 यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते। \p \v 13 यो दुग्धपायी स शिशुरेवेतिकारणात् धर्म्मवाक्ये तत्परो नास्ति। \p \v 14 किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति। \c 6 \p \v 1 वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम् \p \v 2 अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम। \p \v 3 ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते। \p \v 4 य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता \p \v 5 ईश्वरस्य सुवाक्यं भाविकालस्य शक्तिञ्चास्वदितवन्तश्च ते भ्रष्ट्वा यदि \p \v 6 स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति। \p \v 7 यतो या भूमिः स्वोपरि भूयः पतितं वृष्टिं पिवती तत्फलाधिकारिणां निमित्तम् इष्टानि शाकादीन्युत्पादयति सा ईश्वराद् आशिषं प्राप्ता। \p \v 8 किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति। \p \v 9 हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः। \p \v 10 यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति। \p \v 11 अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि। \p \v 12 अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत। \p \v 13 ईश्वरो यदा इब्राहीमे प्रत्यजानात् तदा श्रेष्ठस्य कस्याप्यपरस्य नाम्ना शपथं कर्त्तुं नाशक्नोत्, अतो हेतोः स्वनाम्ना शपथं कृत्वा तेनोक्तं यथा, \p \v 14 "सत्यम् अहं त्वाम् आशिषं गदिष्यामि तवान्वयं वर्द्धयिष्यामि च।" \p \v 15 अनेन प्रकारेण स सहिष्णुतां विधाय तस्याः प्रत्याशायाः फलं लब्धवान्। \p \v 16 अथ मानवाः श्रेष्ठस्य कस्यचित् नाम्ना शपन्ते, शपथश्च प्रमाणार्थं तेषां सर्व्वविवादान्तको भवति। \p \v 17 इत्यस्मिन् ईश्वरः प्रतिज्ञायाः फलाधिकारिणः स्वीयमन्त्रणाया अमोघतां बाहुल्यतो दर्शयितुमिच्छन् शपथेन स्वप्रतिज्ञां स्थिरीकृतवान्। \p \v 18 अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते। \p \v 19 सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा। \p \v 20 तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्। \c 7 \p \v 1 शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्, \p \v 2 यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति। \p \v 3 अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति। \p \v 4 अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत। \p \v 5 याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः। \p \v 6 किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च। \p \v 7 अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति। \p \v 8 अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः। \p \v 9 अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते। \p \v 10 यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्। \p \v 11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्? \p \v 12 यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते। \p \v 13 अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्। \p \v 14 वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं। \p \v 15 तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं, \p \v 16 यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति। \p \v 17 यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" \p \v 18 अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति। \p \v 19 यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते। \p \v 20 अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः। \p \v 21 यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा, \p \v 22 "परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" \p \v 23 ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः, \p \v 24 किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। \p \v 25 ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति। \p \v 26 अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्। \p \v 27 अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं। \p \v 28 यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव। \c 8 \p \v 1 कथ्यमानानां वाक्यानां सारोऽयम् अस्माकम् एतादृश एको महायाजकोऽस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान् \p \v 2 यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति। \p \v 3 यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं। \p \v 4 किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते। \p \v 5 ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।" \p \v 6 किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्। \p \v 7 स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्। \p \v 8 किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति। \p \v 9 परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं। \p \v 10 किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति। \p \v 11 अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति। \p \v 12 यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि।" \p \v 13 अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्। \c 9 \p \v 1 स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्। \p \v 2 यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्। \p \v 3 तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्, \p \v 4 तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ, \p \v 5 तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः। \p \v 6 एतेष्वीदृक् निर्म्मितेषु याजका ईश्वरसेवाम् अनुतिष्ठनतो दूष्यस्य प्रथमकोष्ठं नित्यं प्रविशन्ति। \p \v 7 किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते। \p \v 8 इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति। \p \v 9 तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः \p \v 10 केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति। \p \v 11 अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा \p \v 12 छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। \p \v 13 वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते, \p \v 14 तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? \p \v 15 स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। \p \v 16 यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं। \p \v 17 यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति। \p \v 18 तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः। \p \v 19 फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे, \p \v 20 युष्मान् अधीश्वरो यं नियमं निरूपितवान् तस्य रुधिरमेतत्। \p \v 21 तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्। \p \v 22 अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च। \p \v 23 अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं। \p \v 24 यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः। \p \v 25 यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः, \p \v 26 कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। \p \v 27 अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति, \p \v 28 तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति। \c 10 \p \v 1 व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति। \p \v 2 यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। \p \v 3 किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते। \p \v 4 यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति। \p \v 5 एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया। \p \v 6 न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि। \p \v 7 अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।" \p \v 8 इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्नञ्चोपचारकं, नेमानि वाञ्छसि त्वं हि न चैतेषु प्रतुष्यसीति। \p \v 9 ततः परं तेनोक्तं यथा, "पश्य मनोऽभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति। \p \v 10 तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम। \p \v 11 अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति। \p \v 12 किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य \p \v 13 यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति। \p \v 14 यत एकेन बलिदानेन सोऽनन्तकालार्थं पूयमानान् लोकान् साधितवान्। \p \v 15 एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति \p \v 16 "यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च, \p \v 17 अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।" \p \v 18 किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति। \p \v 19 अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, \p \v 20 यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्, \p \v 21 अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति। \p \v 22 अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या। \p \v 23 यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः। \p \v 24 अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। \p \v 25 अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते। \p \v 26 सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते \p \v 27 किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते। \p \v 28 यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते, \p \v 29 तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति? \p \v 30 यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः। \p \v 31 अमरेश्वरस्य करयोः पतनं महाभयानकं। \p \v 32 हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत, \p \v 33 अन्यतश्च तद्भोगिनां समांशिनो ऽभवत। \p \v 34 यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च। \p \v 35 अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत। \p \v 36 यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं। \p \v 37 येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते। \p \v 38 "पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।" \p \v 39 किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे। \c 11 \p \v 1 विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति। \p \v 2 तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः। \p \v 3 अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे। \p \v 4 विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते। \p \v 5 विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्। \p \v 6 किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं। \p \v 7 अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च। \p \v 8 विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्। \p \v 9 विश्वासेन स प्रतिज्ञाते देशे परदेशवत् प्रवसन् तस्याः प्रतिज्ञायाः समानांशिभ्याम् इस्हाका याकूबा च सह दूष्यवास्यभवत्। \p \v 10 यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत। \p \v 11 अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत। \p \v 12 ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे। \p \v 13 एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः। \p \v 14 ये तु जना इत्थं कथयन्ति तैः पैतृकदेशो ऽस्माभिरन्विष्यत इति प्रकाश्यते। \p \v 15 ते यस्माद् देशात् निर्गतास्तं यद्यस्मरिष्यन् तर्हि परावर्त्तनाय समयम् अलप्स्यन्त। \p \v 16 किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्। \p \v 17 अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज, \p \v 18 वस्तुत इस्हाकि तव वंशो विख्यास्यत इति वाग् यमधि कथिता तम् अद्वितीयं पुत्रं प्रतिज्ञाप्राप्तः स उत्ससर्ज। \p \v 19 यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे। \p \v 20 अपरम् इस्हाक् विश्वासेन याकूब् एषावे च भाविविषयानध्याशिषं ददौ। \p \v 21 अपरं याकूब् मरणकाले विश्वासेन यूषफः पुत्रयोरेकैकस्मै जनायाशिषं ददौ यष्ट्या अग्रभागे समालम्ब्य प्रणनाम च। \p \v 22 अपरं यूषफ् चरमकाले विश्वासेनेस्रायेल्वंशीयानां मिसरदेशाद् बहिर्गमनस्य वाचं जगाद निजास्थीनि चाधि समादिदेश। \p \v 23 नवजातो मूसाश्च विश्वासात् त्राीन् मासान् स्वपितृभ्याम् अगोप्यत यतस्तौ स्वशिशुं परमसुन्दरं दृष्टवन्तौ राजाज्ञाञ्च न शङ्कितवन्तौ। \p \v 24 अपरं वयःप्राप्तो मूसा विश्वासात् फिरौणो दौहित्र इति नाम नाङ्गीचकार। \p \v 25 यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे। \p \v 26 तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत। \p \v 27 अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि। \p \v 28 अपरं प्रथमजातानां हन्ता यत् स्वीयलोकान् न स्पृशेत् तदर्थं स विश्वासेन निस्तारपर्व्वीयबलिच्छेदनं रुधिरसेचनञ्चानुष्ठितावान्। \p \v 29 अपरं ते विश्वासात् स्थलेनेव सूफ्सागरेण जग्मुः किन्तु मिस्रीयलोकास्तत् कर्त्तुम् उपक्रम्य तोयेषु ममज्जुः। \p \v 30 अपरञ्च विश्वासात् तैः सप्ताहं यावद् यिरीहोः प्राचीरस्य प्रदक्षिणे कृते तत् निपपात। \p \v 31 विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश। \p \v 32 अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति। \p \v 33 विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो \p \v 34 वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च। \p \v 35 योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः। \p \v 36 अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः। \p \v 37 बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्। \p \v 38 संसारो येषाम् अयोग्यस्ते निर्जनस्थानेषु पर्व्वतेषु गह्वरेषु पृथिव्याश्छिद्रेषु च पर्य्यटन्। \p \v 39 एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि। \p \v 40 यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे। \c 12 \p \v 1 अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम। \p \v 2 यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च। \p \v 3 यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ। \p \v 4 यूयं पापेन सह युध्यन्तोऽद्यापि शोणितव्ययपर्य्यन्तं प्रतिरोधं नाकुरुत। \p \v 5 तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन। \p \v 6 परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।" \p \v 7 यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः? \p \v 8 सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे। \p \v 9 अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः? \p \v 10 ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति। \p \v 11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति। \p \v 12 अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं। \p \v 13 यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात। \p \v 14 अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं। \p \v 15 यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः, \p \v 16 यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत। \p \v 17 यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानोऽपि तदुपायं न लेभे। \p \v 18 अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः। \p \v 19 तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः। \p \v 20 यतः पशुरपि यदि धराधरं स्पृशति तर्हि स पाषाणाघातै र्हन्तव्य इत्यादेशं सोढुं ते नाशक्नुवन्। \p \v 21 तच्च दर्शनम् एवं भयानकं यत् मूससोक्तं भीतस्त्रासयुक्तश्चास्मीति। \p \v 22 किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः \p \v 23 स्वर्गे लिखितानां प्रथमजातानाम् उत्सवः समितिश्च सर्व्वेषां विचाराधिपतिरीश्वरः सिद्धीकृतधार्म्मिकानाम् आत्मानो \p \v 24 नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः। \p \v 25 सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते? \p \v 26 तदा तस्य रवात् पृथिवी कम्पिता किन्त्विदानीं तेनेदं प्रतिज्ञातं यथा, "अहं पुनरेककृत्वः पृथिवीं कम्पयिष्यामि केवलं तन्नहि गगनमपि कम्पयिष्यामि।" \p \v 27 स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति। \p \v 28 अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम। \p \v 29 यतोऽस्माकम् ईश्वरः संहारको वह्निः। \c 13 \p \v 1 भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां \p \v 2 यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्। \p \v 3 बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां। \p \v 4 विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते। \p \v 5 यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" \p \v 6 अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥" \p \v 7 युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां। \p \v 8 यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते। \p \v 9 यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः। \p \v 10 ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। \p \v 11 यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। \p \v 12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। \p \v 13 अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। \p \v 14 यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। \p \v 15 अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। \p \v 16 अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। \p \v 17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। \p \v 18 अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। \p \v 19 विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। \p \v 20 अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो \p \v 21 निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्। \p \v 22 हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्। \p \v 23 अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि। \p \v 24 युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ। \p \v 25 अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।