\id GAL Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Galatians \toc1 गालातिनः पत्रं \toc2 गालातिनः \toc3 गालातिनः \mt1 गालातिनः पत्रं \c 1 \p \v 1 मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं \p \v 2 मत्सहवर्त्तिनो भ्रातरश्च वयं गालातीयदेशस्थाः समितीः प्रति पत्रं लिखामः। \p \v 3 पित्रेश्वरेणास्मांक प्रभुना यीशुना ख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च दीयतां। \p \v 4 अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो \p \v 5 यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु। \p \v 6 ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये। \p \v 7 सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च। \p \v 8 युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु। \p \v 9 पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु। \p \v 10 साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि। \p \v 11 हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि। \p \v 12 अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव। \p \v 13 पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः। \p \v 14 अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि। \p \v 15 किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान् \p \v 16 स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा \p \v 17 पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्। \p \v 18 ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं। \p \v 19 किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं। \p \v 20 यान्येतानि वाक्यानि मया लिख्यन्ते तान्यनृतानि न सन्ति तद् ईश्वरो जानाति। \p \v 21 ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्। \p \v 22 तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः, \p \v 23 यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति। \p \v 24 तस्मात् ते मामधीश्वरं धन्यमवदन्। \c 2 \p \v 1 अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं। \p \v 2 तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत। \p \v 3 ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव। \p \v 4 यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्। \p \v 5 अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम। \p \v 6 परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्। \p \v 7 किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे। \p \v 8 यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती। \p \v 9 अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः, \p \v 10 केवलं दरिद्रा युवाभ्यां स्मरणीया इति। अतस्तदेव कर्त्तुम् अहं यते स्म। \p \v 11 अपरम् आन्तियखियानगरं पितर आगतेऽहं तस्य दोषित्वात् समक्षं तम् अभर्त्सयं। \p \v 12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्। \p \v 13 ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्। \p \v 14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि? \p \v 15 आवां जन्मना यिहूदिनौ भवावो भिन्नजातीयौ पापिनौ न भवावः \p \v 16 किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति। \p \v 17 परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु। \p \v 18 मया यद् भग्नं तद् यदि मया पुनर्निर्म्मीयते तर्हि मयैवात्मदोषः प्रकाश्यते। \p \v 19 अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये। \p \v 20 ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते। \p \v 21 अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत। \c 3 \p \v 1 हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत? \p \v 2 अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन? \p \v 3 यूयं किम् ईदृग् अबोधा यद् आत्मना कर्म्मारभ्य शरीरेण तत् साधयितुं यतध्वे? \p \v 4 तर्हि युष्माकं गुरुतरो दुःखभोगः किं निष्फलो भविष्यति? कुफलयुक्तो वा किं भविष्यति? \p \v 5 यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्? \p \v 6 लिखितमास्ते, इब्राहीम ईश्वरे व्यश्वसीत् स च विश्वासस्तस्मै पुण्यार्थं गणितो बभूव, \p \v 7 अतो ये विश्वासाश्रितास्त एवेब्राहीमः सन्ताना इति युष्माभि र्ज्ञायतां। \p \v 8 ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति। \p \v 9 अतो ये विश्वासाश्रितास्ते विश्वासिनेब्राहीमा सार्द्धम् आशिषं लभन्ते। \p \v 10 यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।" \p \v 11 ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः। \p \v 12 व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी। \p \v 13 ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।" \p \v 14 तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः। \p \v 15 हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते। \p \v 16 परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव। \p \v 17 अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति। \p \v 18 यस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्। \p \v 19 तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च। \p \v 20 नैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव। \p \v 21 तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्। \p \v 22 किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति। \p \v 23 अतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे। \p \v 24 इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव। \p \v 25 किन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम। \p \v 26 ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः। \p \v 27 यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः। \p \v 28 अतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव। \p \v 29 किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे। \c 4 \p \v 1 अहं वदामि सम्पदधिकारी यावद् बालस्तिष्ठति तावत् सर्व्वस्वस्याधिपतिः सन्नपि स दासात् केनापि विषयेण न विशिष्यते \p \v 2 किन्तु पित्रा निरूपितं समयं यावत् पालकानां धनाध्यक्षाणाञ्च निघ्नस्तिष्ठति। \p \v 3 तद्वद् वयमपि बाल्यकाले दासा इव संसारस्याक्षरमालाया अधीना आस्महे। \p \v 4 अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम् \p \v 5 अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्। \p \v 6 यूयं सन्ताना अभवत तत्कारणाद् ईश्वरः स्वपुत्रस्यात्मानां युष्माकम् अन्तःकरणानि प्रहितवान् स चात्मा पितः पितरित्याह्वानं कारयति। \p \v 7 अत इदानीं यूयं न दासाः किन्तुः सन्ताना एव तस्मात् सन्तानत्वाच्च ख्रीष्टेनेश्वरीयसम्पदधिकारिणोऽप्याध्वे। \p \v 8 अपरञ्च पूर्व्वं यूयम् ईश्वरं न ज्ञात्वा ये स्वभावतोऽनीश्वरास्तेषां दासत्वेऽतिष्ठत। \p \v 9 इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ? \p \v 10 यूयं दिवसान् मासान् तिथीन् संवत्सरांश्च सम्मन्यध्वे। \p \v 11 युष्मदर्थं मया यः परिश्रमोऽकारि स विफलो जात इति युष्मानध्यहं बिभेमि। \p \v 12 हे भ्रातरः, अहं यादृशोऽस्मि यूयमपि तादृशा भवतेति प्रार्थये यतोऽहमपि युष्मत्तुल्योऽभवं युष्माभि र्मम किमपि नापराद्धं। \p \v 13 पूर्व्वमहं कलेवरस्य दौर्ब्बल्येन युष्मान् सुसंवादम् अज्ञापयमिति यूयं जानीथ। \p \v 14 तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः। \p \v 15 अतस्तदानीं युष्माकं या धन्यताभवत् सा क्क गता? तदानीं यूयं यदि स्वेषां नयनान्युत्पाट्य मह्यं दातुम् अशक्ष्यत तर्हि तदप्यकरिष्यतेति प्रमाणम् अहं ददामि। \p \v 16 साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि? \p \v 17 ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति। \p \v 18 केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं। \p \v 19 हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते। \p \v 20 अहमिदानीं युष्माकं सन्निधिं गत्वा स्वरान्तरेण युष्मान् सम्भाषितुं कामये यतो युष्मानधि व्याकुलोऽस्मि। \p \v 21 हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ? \p \v 22 तन्मां वदत। लिखितमास्ते, इब्राहीमो द्वौ पुत्रावासाते तयोरेको दास्यां द्वितीयश्च पत्न्यां जातः। \p \v 23 तयो र्यो दास्यां जातः स शारीरिकनियमेन जज्ञे यश्च पत्न्यां जातः स प्रतिज्ञया जज्ञे। \p \v 24 इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा। \p \v 25 यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते। \p \v 26 किन्तु स्वर्गीया यिरूशालम्पुरी पत्नी सर्व्वेषाम् अस्माकं माता चास्ते। \p \v 27 यादृशं लिखितम् आस्ते, "वन्ध्ये सन्तानहीने त्वं स्वरं जयजयं कुरु। अप्रसूते त्वयोल्लासो जयाशब्दश्च गीयतां। यत एव सनाथाया योषितः सन्तते र्गणात्। अनाथा या भवेन्नारी तदपत्यानि भूरिशः॥" \p \v 28 हे भ्रातृगण, इम्हाक् इव वयं प्रतिज्ञया जाताः सन्तानाः। \p \v 29 किन्तु तदानीं शारीरिकनियमेन जातः पुत्रो यद्वद् आत्मिकनियमेन जातं पुत्रम् उपाद्रवत् तथाधुनापि। \p \v 30 किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।" \p \v 31 अतएव हे भ्रातरः, वयं दास्याः सन्ताना न भूत्वा पात्न्याः सन्ताना भवामः। \c 5 \p \v 1 ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं। \p \v 2 पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। \p \v 3 अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि। \p \v 4 युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च। \p \v 5 यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे। \p \v 6 ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः। \p \v 7 पूर्व्वं यूयं सुन्दरम् अधावत किन्त्विदानीं केन बाधां प्राप्य सत्यतां न गृह्लीथ? \p \v 8 युष्माकं सा मति र्युष्मदाह्वानकारिण ईश्वरान्न जाता। \p \v 9 विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जसयते। \p \v 10 युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति। \p \v 11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्। \p \v 12 ये जना युष्माकं चाञ्चल्यं जनयन्ति तेषां छेदनमेव मयाभिलष्यते। \p \v 13 हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं। \p \v 14 यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः। \p \v 15 किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं। \p \v 16 अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत। \p \v 17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं। \p \v 18 यूयं यद्यात्मना विनीयध्वे तर्हि व्यवस्थाया अधीना न भवथ। \p \v 19 अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् \p \v 20 इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं \p \v 21 पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते। \p \v 22 किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा \p \v 23 परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि। \p \v 24 ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः। \p \v 25 यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः, \p \v 26 दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि। \c 6 \p \v 1 हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत। \p \v 2 युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत। \p \v 3 यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते। \p \v 4 अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति। \p \v 5 यत एकैकोे जनः स्वकीयं भारं वक्ष्यति। \p \v 6 यो जनो धर्म्मोपदेशं लभते स उपदेष्टारं स्वीयसर्व्वसम्पत्ते र्भागिनं करोतु। \p \v 7 युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। \p \v 8 स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते। \p \v 9 सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते। \p \v 10 अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः। \p \v 11 हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां। \p \v 12 ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति। \p \v 13 ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति। \p \v 14 किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु। \p \v 15 ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता। \p \v 16 अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्। \p \v 17 इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये। \p \v 18 हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।