\id EPH Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Ephesians \toc1 इफिषिणः पत्रं \toc2 इफिषिणः \toc3 इफिषिणः \mt1 इफिषिणः पत्रं \c 1 \p \v 1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति। \p \v 2 अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां। \p \v 3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्। \p \v 4 वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च \p \v 5 यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्। \p \v 6 तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्, \p \v 7 वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः। \p \v 8 तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्। \p \v 9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा \p \v 10 तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्। \p \v 11 पूर्व्वं ख्रीष्टे विश्वासिनो ये वयम् अस्मत्तो यत् तस्य महिम्नः प्रशंसा जायते, \p \v 12 तदर्थं यः स्वकीयेच्छायाः मन्त्रणातः सर्व्वाणि साधयति तस्य मनोरथाद् वयं ख्रीष्टेन पूर्व्वं निरूपिताः सन्तोऽधिकारिणो जाताः। \p \v 13 यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च। \p \v 14 यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति। \p \v 15 प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि \p \v 16 युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि। \p \v 17 अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्। \p \v 18 युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य \p \v 19 तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु। \p \v 20 यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्, \p \v 21 अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्, \p \v 22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा \p \v 23 सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते। \c 2 \p \v 1 पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम् \p \v 2 अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत। \p \v 3 तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम। \p \v 4 किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान् \p \v 5 तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः। \p \v 6 स च ख्रीष्टेन यीशुनास्मान् तेन सार्द्धम् उत्थापितवान् स्वर्ग उपवेशितवांश्च। \p \v 7 इत्थं स ख्रीष्टेन यीशुनास्मान् प्रति स्वहितैषितया भावियुगेषु स्वकीयानुग्रहस्यानुपमं निधिं प्रकाशयितुम् इच्छति। \p \v 8 यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं, \p \v 9 तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं। \p \v 10 यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च। \p \v 11 पुरा जन्मना भिन्नजातीया हस्तकृतं त्वक्छेदं प्राप्तै र्लोकैश्चाच्छिन्नत्वच इतिनाम्ना ख्याता ये यूयं तै र्युष्माभिरिदं स्मर्त्तव्यं \p \v 12 यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति। \p \v 13 किन्त्वधुना ख्रीष्टे यीशावाश्रयं प्राप्य पुरा दूरवर्त्तिनो यूयं ख्रीष्टस्य शोणितेन निकटवर्त्तिनोऽभवत। \p \v 14 यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च। \p \v 15 यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं \p \v 16 स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्। \p \v 17 स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्। \p \v 18 यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः। \p \v 19 अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे। \p \v 20 अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः। \p \v 21 तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते। \p \v 22 यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ। \c 3 \p \v 1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि। \p \v 2 युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये। \p \v 3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं। \p \v 4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते। \p \v 5 पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्; \p \v 6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं, \p \v 7 तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति। \p \v 8 सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि, \p \v 9 कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि। \p \v 10 यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्। \p \v 11 यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च \p \v 12 प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्। \p \v 13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं। \p \v 14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम् \p \v 15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये। \p \v 16 तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां। \p \v 17 ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु। \p \v 18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां, \p \v 19 ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च। \p \v 20 अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति \p \v 21 ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति। \c 4 \p \v 1 अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण \p \v 2 सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। \p \v 3 प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं। \p \v 4 यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः। \p \v 5 युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः \p \v 6 सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते। \p \v 7 किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरोऽदायि। \p \v 8 यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनोऽकरोत्। ततः स मनुजेभ्योऽपि स्वीयान् व्यश्राणयद् वरान्॥" \p \v 9 ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्; \p \v 10 यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि। \p \v 11 स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। \p \v 12 यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् \p \v 13 स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्। \p \v 14 अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं, \p \v 15 प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा, \p \v 16 तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति। \p \v 17 युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत। \p \v 18 यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति, \p \v 19 स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः। \p \v 20 किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, \p \v 21 यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये। \p \v 22 तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, \p \v 23 यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन \p \v 24 धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च। \p \v 25 अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः। \p \v 26 अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। \p \v 27 अपरं शयताने स्थानं मा दत्त। \p \v 28 चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु। \p \v 29 अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु। \p \v 30 अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत। \p \v 31 अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु। \p \v 32 यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं। \c 5 \p \v 1 अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत, \p \v 2 ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्। \p \v 3 किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं। \p \v 4 अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु। \p \v 5 वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां। \p \v 6 अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते। \p \v 7 तस्माद् यूयं तैः सहभागिनो न भवत। \p \v 8 पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत। \p \v 9 दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते। \p \v 10 प्रभवे यद् रोचते तत् परीक्षध्वं। \p \v 11 यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत। \p \v 12 यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं। \p \v 13 यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति। \p \v 14 एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।" \p \v 15 अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। \p \v 16 समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः। \p \v 17 तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत। \p \v 18 सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं। \p \v 19 अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च। \p \v 20 सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत। \p \v 21 यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत। \p \v 22 हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत। \p \v 23 यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा। \p \v 24 अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या। \p \v 25 अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं। \p \v 26 स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम् \p \v 27 अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्। \p \v 28 तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते। \p \v 29 कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति, \p \v 30 यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः। \p \v 31 एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः। \p \v 32 एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते। \p \v 33 अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां। \c 6 \p \v 1 हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं। \p \v 2 त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः \p \v 3 फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति। \p \v 4 अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत। \p \v 5 हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत। \p \v 6 दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत। \p \v 7 मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं। \p \v 8 दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च। \p \v 9 अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां। \p \v 10 अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। \p \v 11 यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं। \p \v 12 यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते। \p \v 13 अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत। \p \v 14 वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य \p \v 15 शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत। \p \v 16 येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत। \p \v 17 शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत। \p \v 18 सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं। \p \v 19 अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां \p \v 20 तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं। \p \v 21 अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति। \p \v 22 यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान। \p \v 23 अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्। \p \v 24 ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।