\id ACT Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h Acts \toc1 प्रेरितानां कर्म्मणामाख्यानं \toc2 प्रेरिताः \toc3 प्रेरिताः \mt1 प्रेरितानां कर्म्मणामाख्यानं \c 1 \p \v 1 हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि। \p \v 2 स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा \p \v 3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्। \p \v 4 अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत। \p \v 5 योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ। \p \v 6 पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति? \p \v 7 ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते। \p \v 8 किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ। \p \v 9 इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्। \p \v 10 यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ, \p \v 11 हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति। \p \v 12 ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्। \p \v 13 नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्। \p \v 14 पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त। \p \v 15 तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान् \p \v 16 हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्। \p \v 17 स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत। \p \v 18 तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्। \p \v 19 एतां कथां यिरूशालम्निवासिनः सर्व्वे लोका विदान्ति; तेषां निजभाषया तत्क्षेत्रञ्च हकल्दामा, अर्थात् रक्तक्षेत्रमिति विख्यातमास्ते। \p \v 20 अन्यच्च, निकेतनं तदीयन्तु शुन्यमेव भविष्यति। तस्य दूष्ये निवासार्थं कोपि स्थास्यति नैव हि। अन्य एव जनस्तस्य पदं संप्राप्स्यति ध्रुवं। इत्थं गीतपुस्तके लिखितमास्ते। \p \v 21 अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान् \p \v 22 तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं। \p \v 23 अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः, \p \v 24 हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः \p \v 25 सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां। \p \v 26 ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्। \c 2 \p \v 1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्। \p \v 2 एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्। \p \v 3 ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्। \p \v 4 तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः। \p \v 5 तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्; \p \v 6 तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्। \p \v 7 सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति? \p \v 8 तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं? \p \v 9 पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया- \p \v 10 फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम् \p \v 11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः। \p \v 12 इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः? \p \v 13 अपरे केचित् परिहस्य कथितवन्त एते नवीनद्राक्षारसेन मत्ता अभवन्। \p \v 14 तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं। \p \v 15 इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न। \p \v 16 किन्तु योयेल्भविष्यद्वक्त्रैतद्वाक्यमुक्तं यथा, \p \v 17 ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं। \p \v 18 वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः। \p \v 19 ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा। \p \v 20 महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः। \p \v 21 किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥ \p \v 22 अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ। \p \v 23 तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत। \p \v 24 किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति। \p \v 25 एतस्तिन् दायूदपि कथितवान् यथा, सर्व्वदा मम साक्षात्तं स्थापय परमेश्वरं। स्थिते मद्दक्षिणे तस्मिन् स्खलिष्यामि त्वहं नहि। \p \v 26 आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते। \p \v 27 परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि। \p \v 28 स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥ \p \v 29 हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते। \p \v 30 फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्, \p \v 31 इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति; \p \v 32 अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे। \p \v 33 स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्। \p \v 34 यतो दायूद् स्वर्गं नारुरोह किन्तु स्वयम् इमां कथाम् अकथयद् यथा, मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। \p \v 35 तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षवार्श्व उपाविश। \p \v 36 अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु। \p \v 37 एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः? \p \v 38 ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ। \p \v 39 यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते। \p \v 40 एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत। \p \v 41 ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः \p \v 42 प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्। \p \v 43 प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं। \p \v 44 विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। \p \v 45 फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्। \p \v 46 सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्। \p \v 47 परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्। \c 3 \p \v 1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः। \p \v 2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्। \p \v 3 तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स खञ्जस्तौ किञ्चिद् भिक्षितवान्। \p \v 4 तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु। \p \v 5 ततः स किञ्चित् प्राप्त्याशया तौ प्रति दृष्टिं कृतवान्। \p \v 6 तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु। \p \v 7 ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्। \p \v 8 ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्। \p \v 9 ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य \p \v 10 मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्। \p \v 11 यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्। \p \v 12 तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ? \p \v 13 यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्। \p \v 14 किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं। \p \v 15 पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे। \p \v 16 इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्। \p \v 17 हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते। \p \v 18 किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्। \p \v 19 अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति; \p \v 20 पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति। \p \v 21 किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः। \p \v 22 युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् किञ्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं। \p \v 23 किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि, \p \v 24 शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्। \p \v 25 यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ। \p \v 26 अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्। \c 4 \p \v 1 यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च \p \v 2 तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्। \p \v 3 तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः। \p \v 4 तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्। \p \v 5 परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः \p \v 6 कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य ज्ञातयः सर्व्वे यिरूशालम्नगरे मिलिताः। \p \v 7 अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः? \p \v 8 तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः, \p \v 9 एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ, \p \v 10 तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति। \p \v 11 निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्। \p \v 12 तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति। \p \v 13 तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्। \p \v 14 किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्। \p \v 15 तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन् \p \v 16 तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः। \p \v 17 किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः। \p \v 18 ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च। \p \v 19 ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत। \p \v 20 वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति। \p \v 21 यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्। \p \v 22 यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः। \p \v 23 ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ। \p \v 24 तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं। \p \v 25 त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां। \p \v 26 परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥ \p \v 27 फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो \p \v 28 ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्। \p \v 29 हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु; \p \v 30 तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय। \p \v 31 इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्। \p \v 32 अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः। \p \v 33 अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च। \p \v 34 तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय \p \v 35 तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्। \p \v 36 विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्, \p \v 37 स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्। \c 5 \p \v 1 तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय \p \v 2 स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्। \p \v 3 तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्? \p \v 4 सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि। \p \v 5 एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्। \p \v 6 तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशानेऽस्थापयन्। \p \v 7 ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता। \p \v 8 ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव। \p \v 9 ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति। \p \v 10 ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः। \p \v 11 तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः। \p \v 12 ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्। \p \v 13 तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त। \p \v 14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः। \p \v 15 पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः। \p \v 16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त। \p \v 17 अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च \p \v 18 महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः। \p \v 19 किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्, \p \v 20 यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत। \p \v 21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्। \p \v 22 ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः, \p \v 23 वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः। \p \v 24 एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्। \p \v 25 एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति। \p \v 26 तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्। \p \v 27 ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्, \p \v 28 अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे। \p \v 29 ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्। \p \v 30 यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य \p \v 31 इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्। \p \v 32 एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति। \p \v 33 एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः। \p \v 34 एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्, \p \v 35 हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत। \p \v 36 इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्। \p \v 37 तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज्ञाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्। \p \v 38 अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति। \p \v 39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ। \p \v 40 तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्। \p \v 41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्। \p \v 42 ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः। \c 6 \p \v 1 तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्। \p \v 2 तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि। \p \v 3 अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत, \p \v 4 किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः। \p \v 5 एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान् \p \v 6 प्रेरितानां समक्षम् आनयन्, ततस्ते प्रार्थनां कृत्वा तेषां शिरःसु हस्तान् आर्पयन्। \p \v 7 अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्। \p \v 8 स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्। \p \v 9 तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त। \p \v 10 किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्। \p \v 11 पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म। \p \v 12 ते लोकानां लोकप्राचीनानाम् अध्यापकानाञ्च प्रवृत्तिं जनयित्वा स्तिफानस्य सन्निधिम् आगत्य तं धृत्वा महासभामध्यम् आनयन्। \p \v 13 तदनन्तरं कतिपयजनेषु मिथ्यासाक्षिषु समानीतेषु तेऽकथयन् एष जन एतत्पुण्यस्थानव्यवस्थयो र्निन्दातः कदापि न निवर्त्तते। \p \v 14 फलतो नासरतीययीशुः स्थानमेतद् उच्छिन्नं करिष्यति मूसासमर्पितम् अस्माकं व्यवहरणम् अन्यरूपं करिष्यति तस्यैतादृशीं कथां वयम् अशृणुम। \p \v 15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्। \c 7 \p \v 1 ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या? \p \v 2 ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा \p \v 3 तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज। \p \v 4 अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्। \p \v 5 किन्त्वीश्वरस्तस्मै कमप्यधिकारम् अर्थाद् एकपदपरिमितां भूमिमपि नाददात्; तदा तस्य कोपि सन्तानो नासीत् तथापि सन्तानैः सार्द्धम् एतस्य देशस्याधिकारी त्वं भविष्यसीति तम्प्रत्यङ्गीकृतवान्। \p \v 6 ईश्वर इत्थम् अपरमपि कथितवान् तव सन्तानाः परदेशे निवत्स्यन्ति ततस्तद्देशीयलोकाश्चतुःशतवत्सरान् यावत् तान् दासत्वे स्थापयित्वा तान् प्रति कुव्यवहारं करिष्यन्ति। \p \v 7 अपरम् ईश्वर एनां कथामपि कथितवान्, ये लोकास्तान् दासत्वे स्थापयिष्यन्ति ताल्लोकान् अहं दण्डयिष्यामि, ततः परं ते बहिर्गताः सन्तो माम् अत्र स्थाने सेविष्यन्ते। \p \v 8 पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त। \p \v 9 ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्। \p \v 10 किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्। \p \v 11 तस्मिन् समये मिसर-किनानदेशयो र्दुर्भिक्षहेतोरतिक्लिष्टत्वात् नः पूर्व्वपुरुषा भक्ष्यद्रव्यं नालभन्त। \p \v 12 किन्तु मिसरदेशे शस्यानि सन्ति, याकूब् इमां वार्त्तां श्रुत्वा प्रथमम् अस्माकं पूर्व्वपुरुषान् मिसरं प्रेषितवान्। \p \v 13 ततो द्वितीयवारगमने यूषफ् स्वभ्रातृभिः परिचितोऽभवत्; यूषफो भ्रातरः फिरौण् राजेन परिचिता अभवन्। \p \v 14 अनन्तरं यूषफ् भ्रातृगणं प्रेष्य निजपितरं याकूबं निजान् पञ्चाधिकसप्ततिसंख्यकान् ज्ञातिजनांश्च समाहूतवान्। \p \v 15 तस्माद् याकूब् मिसरदेशं गत्वा स्वयम् अस्माकं पूर्व्वपुरुषाश्च तस्मिन् स्थानेऽम्रियन्त। \p \v 16 ततस्ते शिखिमं नीता यत् श्मशानम् इब्राहीम् मुद्रादत्वा शिखिमः पितु र्हमोरः पुत्रेभ्यः क्रीतवान् तत्श्मशाने स्थापयाञ्चक्रिरे। \p \v 17 ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्। \p \v 18 शेषे यूषफं यो न परिचिनोति तादृश एको नरपतिरुपस्थाय \p \v 19 अस्माकं ज्ञातिभिः सार्द्धं धूर्त्ततां विधाय पूर्व्वपुरुषान् प्रति कुव्यवहरणपूर्व्वकं तेषां वंशनाशनाय तेषां नवजातान् शिशून् बहि र्निरक्षेपयत्। \p \v 20 एतस्मिन् समये मूसा जज्ञे, स तु परमसुन्दरोऽभवत् तथा पितृगृहे मासत्रयपर्य्यन्तं पालितोऽभवत्। \p \v 21 किन्तु तस्मिन् बहिर्निक्षिप्ते सति फिरौणराजस्य कन्या तम् उत्तोल्य नीत्वा दत्तकपुत्रं कृत्वा पालितवती। \p \v 22 तस्मात् स मूसा मिसरदेशीयायाः सर्व्वविद्यायाः पारदृष्वा सन् वाक्ये क्रियायाञ्च शक्तिमान् अभवत्। \p \v 23 स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे। \p \v 24 तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान। \p \v 25 तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे। \p \v 26 तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः? \p \v 27 ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्? \p \v 28 ह्यो यथा मिसरीयं हतवान् तथा किं मामपि हनिष्यसि? \p \v 29 तदा मूसा एतादृशीं कथां श्रुत्वा पलायनं चक्रे, ततो मिदियनदेशं गत्वा प्रवासी सन् तस्थौ, ततस्तत्र द्वौ पुत्रौ जज्ञाते। \p \v 30 अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ। \p \v 31 मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति, \p \v 32 एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव। \p \v 33 परमेश्वरस्तं जगाद, तव पादयोः पादुके मोचय यत्र तिष्ठसि सा पवित्रभूमिः। \p \v 34 अहं मिसरदेशस्थानां निजलोकानां दुर्द्दशां नितान्तम् अपश्यं, तेषां कातर्य्योक्तिञ्च श्रुतवान् तस्मात् तान् उद्धर्त्तुम् अवरुह्यागमम्; इदानीम् आगच्छ मिसरदेशं त्वां प्रेषयामि। \p \v 35 कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास। \p \v 36 स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय। \p \v 37 प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः। \p \v 38 महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे। \p \v 39 अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः, \p \v 40 अस्माकम् अग्रेऽग्रे गन्तुुम् अस्मदर्थं देवगणं निर्म्माहि यतो यो मूसा अस्मान् मिसरदेशाद् बहिः कृत्वानीतवान् तस्य किं जातं तदस्माभि र्न ज्ञायते। \p \v 41 तस्मिन् समये ते गोवत्साकृतिं प्रतिमां निर्म्माय तामुद्दिश्य नैवेद्यमुत्मृज्य स्वहस्तकृतवस्तुना आनन्दितवन्तः। \p \v 42 तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च। \p \v 43 किन्तु वो मोलकाख्यस्य देवस्य दूष्यमेव च। युष्माकं रिम्फनाख्याया देवतायाश्च तारका। एतयोरुभयो र्मूर्ती युष्माभिः परिपूजिते। अतो युष्मांस्तु बाबेलः पारं नेष्यामि निश्चितं। \p \v 44 अपरञ्च यन्निदर्शनम् अपश्यस्तदनुसारेण दूष्यं निर्म्माहि यस्मिन् ईश्वरो मूसाम् एतद्वाक्यं बभाषे तत् तस्य निरूपितं साक्ष्यस्वरूपं दूष्यम् अस्माकं पूर्व्वपुरुषैः सह प्रान्तरे तस्थौ। \p \v 45 पश्चात् यिहोशूयेन सहितैस्तेषां वंशजातैरस्मत्पूर्व्वपुरुषैः स्वेषां सम्मुखाद् ईश्वरेण दूरीकृतानाम् अन्यदेशीयानां देशाधिकृतिकाले समानीतं तद् दूष्यं दायूदोधिकारं यावत् तत्र स्थान आसीत्। \p \v 46 स दायूद् परमेश्वरस्यानुग्रहं प्राप्य याकूब् ईश्वरार्थम् एकं दूष्यं निर्म्मातुं ववाञ्छ; \p \v 47 किन्तु सुलेमान् तदर्थं मन्दिरम् एकं निर्म्मितवान्। \p \v 48 तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा, \p \v 49 परेशो वदति स्वर्गो राजसिंहासनं मम। मदीयं पादपीठञ्च पृथिवी भवति ध्रुवं। तर्हि यूयं कृते मे किं प्रनिर्म्मास्यथ मन्दिरं। विश्रामाय मदीयं वा स्थानं किं विद्यते त्विह। \p \v 50 सर्व्वाण्येतानि वस्तूनि किं मे हस्तकृतानि न॥ \p \v 51 हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः। \p \v 52 युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत। \p \v 53 यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ। \p \v 54 इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्। \p \v 55 किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्; \p \v 56 पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि। \p \v 57 तदा ते प्रोच्चैः शब्दं कृत्वा कर्णेष्वङ्गुली र्निधाय एकचित्तीभूय तम् आक्रमन्। \p \v 58 पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः। \p \v 59 अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्। \p \v 60 तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्। \c 8 \p \v 1 तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः। \p \v 2 अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्। \p \v 3 किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्। \p \v 4 अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्। \p \v 5 तदा फिलिपः शोमिरोण्नगरं गत्वा ख्रीष्टाख्यानं प्राचारयत्; \p \v 6 ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्। \p \v 7 तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः। \p \v 8 तस्मिन्नगरे महानन्दश्चाभवत्। \p \v 9 ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास। \p \v 10 तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः। \p \v 11 स बहुकालान् मायाविक्रियया सर्व्वान् अतीव मोहयाञ्चकार, तस्मात् ते तं मेनिरे। \p \v 12 किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्। \p \v 13 शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्। \p \v 14 इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः। \p \v 15 ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां। \p \v 16 यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः। \p \v 17 किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्। \p \v 18 इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्; \p \v 19 अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं। \p \v 20 किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्; \p \v 21 ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति। \p \v 22 अत एतत्पापहेतोः खेदान्वितः सन् केनापि प्रकारेण तव मनस एतस्याः कुकल्पनायाः क्षमा भवति, एतदर्थम् ईश्वरे प्रार्थनां कुरु; \p \v 23 यतस्त्वं तिक्तपित्ते पापस्य बन्धने च यदसि तन्मया बुद्धम्। \p \v 24 तदा शिमोन् अकथयत् तर्हि युवाभ्यामुदिता कथा मयि यथा न फलति तदर्थं युवां मन्निमित्तं प्रभौ प्रार्थनां कुरुतं। \p \v 25 अनेन प्रकारेण तौ साक्ष्यं दत्त्वा प्रभोः कथां प्रचारयन्तौ शोमिरोणीयानाम् अनेकग्रामेषु सुसंवादञ्च प्रचारयन्तौ यिरूशालम्नगरं परावृत्य गतौ। \p \v 26 ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ। \p \v 27 ततः स उत्थाय गतवान्; तदा कन्दाकीनाम्नः कूश्लोकानां राज्ञ्याः सर्व्वसम्पत्तेरधीशः कूशदेशीय एकः षण्डो भजनार्थं यिरूशालम्नगरम् आगत्य \p \v 28 पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति। \p \v 29 एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल। \p \v 30 तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे? \p \v 31 ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्। \p \v 32 स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत। \p \v 33 अन्यायेन विचारेण स उच्छिन्नो ऽभवत् तदा। तत्कालीनमनुष्यान् को जनो वर्णयितुं क्षमः। यतो जीवन्नृणां देशात् स उच्छिन्नो ऽभवत् ध्रुवं। \p \v 34 अनन्तरं स फिलिपम् अवदत् निवेदयामि, भविष्यद्वादी यामिमां कथां कथयामास स किं स्वस्मिन् वा कस्मिंश्चिद् अन्यस्मिन्? \p \v 35 ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्। \p \v 36 इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा? \p \v 37 ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि। \p \v 38 तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास। \p \v 39 तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्। \p \v 40 फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्। \c 9 \p \v 1 तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा \p \v 2 स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्। \p \v 3 गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्। \p \v 4 पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा \p \v 5 स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्। \p \v 6 तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते। \p \v 7 तस्य सङ्गिनो लोका अपि तं शब्दं श्रुतवन्तः किन्तु कमपि न दृष्ट्वा स्तब्धाः सन्तः स्थितवन्तः। \p \v 8 अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्। \p \v 9 ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च। \p \v 10 तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि। \p \v 11 तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ; \p \v 12 पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्। \p \v 13 तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्; \p \v 14 अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्। \p \v 15 किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते। \p \v 16 मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि। \p \v 17 ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्। \p \v 18 इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च। \p \v 19 ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं \p \v 20 सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्। \p \v 21 तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति? \p \v 22 किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्। \p \v 23 इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः \p \v 24 किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्; \p \v 25 तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्। \p \v 26 ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्। \p \v 27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्। \p \v 28 ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्। \p \v 29 तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त। \p \v 30 किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्। \p \v 31 इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्। \p \v 32 ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्। \p \v 33 तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्, \p \v 34 हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्। \p \v 35 एतादृशं दृष्ट्वा लोद्शारोणनिवासिनो लोकाः प्रभुं प्रति परावर्त्तन्त। \p \v 36 अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी \p \v 37 तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्। \p \v 38 लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्। \p \v 39 तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्। \p \v 40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्। \p \v 41 ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्। \p \v 42 एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्। \p \v 43 अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्। \c 10 \p \v 1 कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत् \p \v 2 स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे। \p \v 3 एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय। \p \v 4 किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्। \p \v 5 इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय; \p \v 6 तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति। \p \v 7 इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय \p \v 8 सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्। \p \v 9 परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्। \p \v 10 एतस्मिन् समये क्षुधार्त्तः सन् किञ्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्। \p \v 11 ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्। \p \v 12 तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्। \p \v 13 अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता। \p \v 14 तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्। \p \v 15 ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि। \p \v 16 इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्। \p \v 17 ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय, \p \v 18 शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति? \p \v 19 यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते। \p \v 20 त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः। \p \v 21 तस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः? \p \v 22 ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः। \p \v 23 तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः। \p \v 24 परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः। \p \v 25 पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्। \p \v 26 पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः। \p \v 27 तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्, \p \v 28 अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्। \p \v 29 इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत? \p \v 30 तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्, \p \v 31 हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्। \p \v 32 अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति। \p \v 33 इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः। \p \v 34 तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन् \p \v 35 यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्। \p \v 36 सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः। \p \v 37 यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्; \p \v 38 फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्; \p \v 39 वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः, \p \v 40 किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्। \p \v 41 सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्। \p \v 42 जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्। \p \v 43 यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति। \p \v 44 पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्। \p \v 45 ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति \p \v 46 ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त। \p \v 47 तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति? \p \v 48 ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त। \c 11 \p \v 1 इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः। \p \v 2 ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्, \p \v 3 त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्। \p \v 4 ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्। \p \v 5 याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्। \p \v 6 पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्; \p \v 7 हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च। \p \v 8 ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्। \p \v 9 अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता। \p \v 10 त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं। \p \v 11 पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्। \p \v 12 तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम। \p \v 13 सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय; \p \v 14 ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति। \p \v 15 अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्। \p \v 16 तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्। \p \v 17 अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि? \p \v 18 कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्। \p \v 19 स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्। \p \v 20 अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्। \p \v 21 प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त। \p \v 22 इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्। \p \v 23 ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः, \p \v 24 स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः। \p \v 25 शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्; \p \v 26 ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्। \p \v 27 ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति \p \v 28 आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्। \p \v 29 तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य \p \v 30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः। \c 12 \p \v 1 तस्मिन् समये हेरोद्‌राजो मण्डल्याः कियज्जनेभ्यो दुःखं दातुं प्रारभत्। \p \v 2 विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्। \p \v 3 तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्। \p \v 4 तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्। \p \v 5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त। \p \v 6 अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः। \p \v 7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं। \p \v 8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि। \p \v 9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्। \p \v 10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्। \p \v 11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्। \p \v 12 स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः। \p \v 13 पितरेण बहिर्द्वार आहते सति रोदानामा बालिका द्रष्टुं गता। \p \v 14 ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती। \p \v 15 ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्। \p \v 16 तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्। \p \v 17 पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः। \p \v 18 ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्। \p \v 19 प्रभाते सति पितरः क्व गत इत्यत्र रक्षकाणां मध्ये महान् कलहो जातः। \p \v 20 हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्। \p \v 21 पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्। \p \v 22 सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं \p \v 23 अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्। \p \v 24 ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः। \p \v 25 तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ। \c 13 \p \v 1 अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्, \p \v 2 ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत। \p \v 3 ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्। \p \v 4 ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां। \p \v 5 ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्। \p \v 6 इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः। \p \v 7 तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्। \p \v 8 किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत। \p \v 9 तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्, \p \v 10 हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे? \p \v 11 अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्। \p \v 12 एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्। \p \v 13 तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्। \p \v 14 पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां। \p \v 15 व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्। \p \v 16 अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं। \p \v 17 एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्। \p \v 18 चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा \p \v 19 किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्। \p \v 20 पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्। \p \v 21 तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्। \p \v 22 पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान। \p \v 23 तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्। \p \v 24 तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्। \p \v 25 यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति। \p \v 26 हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता। \p \v 27 यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्। \p \v 28 प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त। \p \v 29 तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः। \p \v 30 किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्, \p \v 31 पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति। \p \v 32 अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्। \p \v 33 इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि। \p \v 34 परमेश्वरेण श्मशानाद् उत्थापितं तदीयं शरीरं कदापि न क्षेष्यते, एतस्मिन् स स्वयं कथितवान् यथा दायूदं प्रति प्रतिज्ञातो यो वरस्तमहं तुभ्यं दास्यामि। \p \v 35 एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि। \p \v 36 दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत; \p \v 37 किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत। \p \v 38 अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते। \p \v 39 फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां। \p \v 40 अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥ \p \v 41 येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते। \p \v 42 यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति। \p \v 43 सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां। \p \v 44 परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः, \p \v 45 किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः। \p \v 46 ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः। \p \v 47 प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥ \p \v 48 तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्। \p \v 49 इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्। \p \v 50 किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः। \p \v 51 अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ। \p \v 52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्। \c 14 \p \v 1 तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ। \p \v 2 किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः। \p \v 3 अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां। \p \v 4 किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्। \p \v 5 अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः। \p \v 6 तौ तद्वार्त्तां प्राप्य पलायित्वा लुकायनियादेशस्यान्तर्व्वर्त्तिलुस्त्रादर्ब्बो \p \v 7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां। \p \v 8 तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्। \p \v 9 एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान् \p \v 10 पद्भ्यामुत्तिष्ठन् ऋजु र्भव।ततः स उल्लम्फं कृत्वा गमनागमने कुतवान्। \p \v 11 तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्। \p \v 12 ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्। \p \v 13 तस्य नगरस्य सम्मुखे स्थापितस्य यूपितरविग्रहस्य याजको वृषान् पुष्पमालाश्च द्वारसमीपम् आनीय लोकैः सर्द्धं तावुद्दिश्य समुत्सृज्य दातुम् उद्यतः। \p \v 14 तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ, \p \v 15 हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः। \p \v 16 स ईश्वरः पूर्व्वकाले सर्व्वदेशीयलोकान् स्वस्वमार्गे चलितुमनुमतिं दत्तवान्, \p \v 17 तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्। \p \v 18 किन्तु तादृशायां कथायां कथितायामपि तयोः समीप उत्सर्जनात् लोकनिवहं प्रायेण निवर्त्तयितुं नाशक्नुताम्। \p \v 19 आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः। \p \v 20 किन्तु शिष्यगणे तस्य चतुर्दिशि तिष्ठति सति स स्वयम् उत्थाय पुनरपि नगरमध्यं प्राविशत् तत्परेऽहनि बर्णब्बासहितो दर्ब्बीनगरं गतवान्। \p \v 21 तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ। \p \v 22 बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां। \p \v 23 मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य \p \v 24 पिसिदियामध्येन पाम्फुलियादेशं गतवन्तौ। \p \v 25 पश्चात् पर्गानगरं गत्वा सुसंवादं प्रचार्य्य अत्तालियानगरं प्रस्थितवन्तौ। \p \v 26 तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता। \p \v 27 तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ। \p \v 28 ततस्तौ शिर्य्यैः सार्द्धं तत्र बहुदिनानि न्यवसताम्। \c 15 \p \v 1 यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ। \p \v 2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः। \p \v 3 ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्। \p \v 4 यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्। \p \v 5 किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्। \p \v 6 ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः। \p \v 7 बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्। \p \v 8 अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा \p \v 9 तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ। \p \v 10 अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ? \p \v 11 प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः। \p \v 12 अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः। \p \v 13 तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान् \p \v 14 हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्। \p \v 15 भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते। \p \v 16 सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः। \p \v 17 तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥ \p \v 18 आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति। \p \v 19 अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य \p \v 20 देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः। \p \v 21 यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति। \p \v 22 ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्। \p \v 23 तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः। \p \v 24 विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म। \p \v 25 तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं \p \v 26 प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषाञ्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः। \p \v 27 अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ। \p \v 28 देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्। \p \v 29 अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्। \p \v 30 तेे विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्। \p \v 31 ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्। \p \v 32 यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्। \p \v 33 इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां। \p \v 34 किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्। \p \v 35 अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः। \p \v 36 कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः। \p \v 37 तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्, \p \v 38 किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं सङ्गिनं कर्त्तुम् अनुचितं ज्ञातवान्। \p \v 39 इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्; \p \v 40 किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय \p \v 41 सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्। \c 16 \p \v 1 पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः। \p \v 2 स जनो लुस्त्रा-इकनियनगरस्थानां भ्रातृणां समीपेपि सुख्यातिमान् आसीत्। \p \v 3 पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत। \p \v 4 ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः। \p \v 5 तेनैव सर्व्वे धर्म्मसमाजाः ख्रीष्टधर्म्मे सुस्थिराः सन्तः प्रतिदिनं वर्द्धिता अभवन्। \p \v 6 तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्। \p \v 7 तथा मुसियादेश उपस्थाय बिथुनियां गन्तुं तैरुद्योगे कृते आत्मा तान् नान्वमन्यत। \p \v 8 तस्मात् ते मुसियादेशं परित्यज्य त्रोयानगरं गत्वा समुपस्थिताः। \p \v 9 रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति। \p \v 10 तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म। \p \v 11 ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः। \p \v 12 तस्माद् गत्वा माकिदनियान्तर्व्वर्त्ति रोमीयवसतिस्थानं यत् फिलिपीनामप्रधाननगरं तत्रोपस्थाय कतिपयदिनानि तत्र स्थितवन्तः। \p \v 13 विश्रामवारे नगराद् बहि र्गत्वा नदीतटे यत्र प्रार्थनाचार आसीत् तत्रोपविश्य समागता नारीः प्रति कथां प्राचारयाम। \p \v 14 ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्। \p \v 15 अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्। \p \v 16 यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। \p \v 17 सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति। \p \v 18 सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः। \p \v 19 ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्। \p \v 20 ततः शासकानां निकटं नीत्वा रोमिलोका वयम् अस्माकं यद् व्यवहरणं ग्रहीतुम् आचरितुञ्च निषिद्धं, \p \v 21 इमे यिहूदीयलोकाः सन्तोपि तदेव शिक्षयित्वा नगरेऽस्माकम् अतीव कलहं कुर्व्वन्ति, \p \v 22 इति कथिते सति लोकनिवहस्तयोः प्रातिकूल्येनोदतिष्ठत् तथा शासकास्तयो र्वस्त्राणि छित्वा वेत्राघातं कर्त्तुम् आज्ञापयन्। \p \v 23 अपरं ते तौ बहु प्रहार्य्य त्वमेतौ कारां नीत्वा सावधानं रक्षयेति कारारक्षकम् आदिशन्। \p \v 24 इत्थम् आज्ञां प्राप्य स तावभ्यन्तरस्थकारां नीत्वा पादेषु पादपाशीभि र्बद्ध्वा स्थापितावान्। \p \v 25 अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन् \p \v 26 तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि। \p \v 27 अतएव कारारक्षको निद्रातो जागरित्वा काराया द्वाराणि मुक्तानि दृष्ट्वा बन्दिलोकाः पलायिता इत्यनुमाय कोषात् खङ्गं बहिः कृत्वात्मघातं कर्त्तुम् उद्यतः। \p \v 28 किन्तु पौलः प्रोच्चैस्तमाहूय कथितवान् पश्य वयं सर्व्वेऽत्रास्महे, त्वं निजप्राणहिंसां माकार्षीः। \p \v 29 तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्। \p \v 30 पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं? \p \v 31 पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्। \p \v 32 तस्मै तस्य गृहस्थितसर्व्वलोकेभ्यश्च प्रभोः कथां कथितवन्तौ। \p \v 33 तथा रात्रेस्तस्मिन्नेव दण्डे स तौ गृहीत्वा तयोः प्रहाराणां क्षतानि प्रक्षालितवान् ततः स स्वयं तस्य सर्व्वे परिजनाश्च मज्जिता अभवन्। \p \v 34 पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्। \p \v 35 दिन उपस्थिते तौ लोकौ मोचयेति कथां कथयितुं शासकाः पदातिगणं प्रेषितवन्तः। \p \v 36 ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां। \p \v 37 किन्तु पौलस्तान् अवदत् रोमिलोकयोरावयोः कमपि दोषम् न निश्चित्य सर्व्वेषां समक्षम् आवां कशया ताडयित्वा कारायां बद्धवन्त इदानीं किमावां गुप्तं विस्त्रक्ष्यन्ति? तन्न भविष्यति, स्वयमागत्यावां बहिः कृत्वा नयन्तु। \p \v 38 तदा पदातिभिः शासकेभ्य एतद्वार्त्तायां कथितायां तौ रोमिलोकाविति कथां श्रुत्वा ते भीताः \p \v 39 सन्तस्तयोः सन्निधिमागत्य विनयम् अकुर्व्वन् अपरं बहिः कृत्वा नगरात् प्रस्थातुं प्रार्थितवन्तः। \p \v 40 ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ। \c 17 \p \v 1 पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ। \p \v 2 तदा पौलः स्वाचारानुसारेण तेषां समीपं गत्वा विश्रामवारत्रये तैः सार्द्धं धर्म्मपुस्तकीयकथाया विचारं कृतवान्। \p \v 3 फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्। \p \v 4 तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः। \p \v 5 किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः। \p \v 6 तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति, \p \v 7 एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति। \p \v 8 तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्। \p \v 9 तदा यासोनस्तदन्येषाञ्च धनदण्डं गृहीत्वा तान् परित्यक्तवन्तः। \p \v 10 ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ। \p \v 11 तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्। \p \v 12 तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्। \p \v 13 किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्। \p \v 14 अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ। \p \v 15 ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः। \p \v 16 पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्। \p \v 17 ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्। \p \v 18 किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्। \p \v 19 ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय; \p \v 20 यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः। \p \v 21 तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्। \p \v 22 पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि। \p \v 23 यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि। \p \v 24 जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति; \p \v 25 स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न। \p \v 26 स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्; \p \v 27 तस्मात् लोकैः केनापि प्रकारेण मृगयित्वा परमेश्वरस्य तत्वं प्राप्तुं तस्य गवेषणं करणीयम्। \p \v 28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति। \p \v 29 अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं। \p \v 30 तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति, \p \v 31 यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्। \p \v 32 तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः। \p \v 33 ततः पौलस्तेषां समीपात् प्रस्थिातवान्। \p \v 34 तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्। \c 18 \p \v 1 तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्। \p \v 2 तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्। \p \v 3 तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्। \p \v 4 पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्। \p \v 5 सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्। \p \v 6 किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि। \p \v 7 स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्। \p \v 8 ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्। \p \v 9 क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय। \p \v 10 अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते। \p \v 11 तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्। \p \v 12 गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा \p \v 13 मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः। \p \v 14 ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्। \p \v 15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत। \p \v 16 ततः स तान् विचारस्थानाद् दूरीकृतवान्। \p \v 17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्। \p \v 18 पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्। \p \v 19 तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्। \p \v 20 ते स्वैः सार्द्धं पुनः कतिपयदिनानि स्थातुं तं व्यनयन्, स तदनुररीकृत्य कथामेतां कथितवान्, \p \v 21 यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्। \p \v 22 ततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्। \p \v 23 तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्। \p \v 24 तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्। \p \v 25 स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्। \p \v 26 एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्। \p \v 27 पश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्, \p \v 28 फलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्। \c 19 \p \v 1 करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्, \p \v 2 यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि। \p \v 3 तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन। \p \v 4 तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्। \p \v 5 तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्। \p \v 6 ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः। \p \v 7 ते प्रायेण द्वादशजना आसन्। \p \v 8 पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्। \p \v 9 किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्। \p \v 10 इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्। \p \v 11 पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान् \p \v 12 यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः। \p \v 13 तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः। \p \v 14 स्किवनाम्नो यिहूदीयानां प्रधानयाजकस्य सप्तभिः पुत्तैस्तथा कृते सति \p \v 15 कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं? \p \v 16 इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त। \p \v 17 सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत। \p \v 18 येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः। \p \v 19 बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि। \p \v 20 इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता। \p \v 21 सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं। \p \v 22 स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्। \p \v 23 किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः। \p \v 24 तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः \p \v 25 स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ; \p \v 26 किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च। \p \v 27 तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे। \p \v 28 एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति। \p \v 29 ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः। \p \v 30 ततः पौलो लोकानां सन्निधिं यातुम् उद्यतवान् किन्तु शिष्यगणस्तं वारितवान्। \p \v 31 पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्। \p \v 32 ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि। \p \v 33 ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्, \p \v 34 किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं। \p \v 35 ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति? \p \v 36 तस्माद् एतत्प्रतिकूलं केपि कथयितुं न शक्नुवन्ति, इति ज्ञात्वा युष्माभिः सुस्थिरत्वेन स्थातव्यम् अविविच्य किमपि कर्म्म न कर्त्तव्यञ्च। \p \v 37 यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति। \p \v 38 यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु। \p \v 39 किन्तु युष्माकं काचिदपरा कथा यदि तिष्ठति तर्हि नियमितायां सभायां तस्या निष्पत्ति र्भविष्यति। \p \v 40 किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते। \p \v 41 इति कथयित्वा स सभास्थलोकान् विसृष्टवान्। \c 20 \p \v 1 इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्। \p \v 2 तेन स्थानेन गच्छन् तद्देशीयान् शिष्यान् बहूपदिश्य यूनानीयदेशम् उपस्थितवान्। \p \v 3 तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्। \p \v 4 बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः। \p \v 5 एते सर्व्वे ऽग्रसराः सन्तो ऽस्मान् अपेक्ष्य त्रोयानगरे स्थितवन्तः। \p \v 6 किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम। \p \v 7 सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्। \p \v 8 उपरिस्थे यस्मिन् प्रकोष्ठे सभां कृत्वासन् तत्र बहवः प्रदीपाः प्राज्वलन्। \p \v 9 उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्। \p \v 10 ततः पौलोऽवरुह्य तस्य गात्रे पतित्वा तं क्रोडे निधाय कथितवान्, यूयं व्याकुला मा भूत नायं प्राणै र्वियुक्तः। \p \v 11 पश्चात् स पुनश्चोपरि गत्वा पूपान् भंक्त्वा प्रभातं यावत् कथोपकथने कृत्वा प्रस्थितवान्। \p \v 12 ते च तं जीवन्तं युवानं गृहीत्वा गत्वा परमाप्यायिता जाताः। \p \v 13 अनन्तरं वयं पोतेनाग्रसरा भूत्वास्मनगरम् उत्तीर्य्य पौलं ग्रहीतुं मतिम् अकुर्म्म यतः स तत्र पद्भ्यां व्रजितुं मतिं कृत्वेति निरूपितवान्। \p \v 14 तस्मात् तत्रास्माभिः सार्द्धं तस्मिन् मिलिते सति वयं तं नीत्वा मितुलीन्युपद्वीपं प्राप्तवन्तः। \p \v 15 तस्मात् पोतं मोचयित्वा परेऽहनि खीयोपद्वीपस्य सम्मुखं लब्धवन्तस्तस्माद् एकेनाह्ना सामोपद्वीपं गत्वा पोतं लागयित्वा त्रोगुल्लिये स्थित्वा परस्मिन् दिवसेे मिलीतनगरम् उपातिष्ठाम। \p \v 16 यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्। \p \v 17 पौलो मिलीताद् इफिषं प्रति लोकं प्रहित्य समाजस्य प्राचीनान् आहूयानीतवान्। \p \v 18 तेषु तस्य समीपम् उपस्थितेषु स तेभ्य इमां कथां कथितवान्, अहम् आशियादेशे प्रथमागमनम् आरभ्याद्य यावद् युष्माकं सन्निधौ स्थित्वा सर्व्वसमये यथाचरितवान् तद् यूयं जानीथ; \p \v 19 फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं। \p \v 20 कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं \p \v 21 यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि। \p \v 22 पश्यत साम्प्रतम् आत्मनाकृष्टः सन् यिरूशालम्नगरे यात्रां करोमि, तत्र माम्प्रति यद्यद् घटिष्यते तान्यहं न जानामि; \p \v 23 किन्तु मया बन्धनं क्लेशश्च भोक्तव्य इति पवित्र आत्मा नगरे नगरे प्रमाणं ददाति। \p \v 24 तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये। \p \v 25 अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि। \p \v 26 युष्मभ्यम् अहम् ईश्वरस्य सर्व्वान् आदेशान् प्रकाशयितुं न न्यवर्त्ते। \p \v 27 अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि। \p \v 28 यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत, \p \v 29 यतो मया गमने कृतएव दुर्जया वृका युष्माकं मध्यं प्रविश्य व्रजं प्रति निर्दयताम् आचरिष्यन्ति, \p \v 30 युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि। \p \v 31 इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत। \p \v 32 इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्। \p \v 33 कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः। \p \v 34 किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ। \p \v 35 अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्। \p \v 36 एतां कथां कथयित्वा स जानुनी पातयित्वा सर्वैः सह प्रार्थयत। \p \v 37 तेन ते क्रन्द्रन्तः \p \v 38 पुन र्मम मुखं न द्रक्ष्यथ विशेषत एषा या कथा तेनाकथि तत्कारणात् शोकं विलापञ्च कृत्वा कण्ठं धृत्वा चुम्बितवन्तः। पश्चात् ते तं पोतं नीतवन्तः। \c 21 \p \v 1 तै र्विसृष्टाः सन्तो वयं पोतं बाहयित्वा ऋजुमार्गेण कोषम् उपद्वीपम् आगत्य परेऽहनि रोदियोपद्वीपम् आगच्छाम ततस्तस्मात् पातारायाम् उपातिष्ठाम। \p \v 2 तत्र फैनीकियादेशगामिनम् पोतमेकं प्राप्य तमारुह्य गतवन्तः। \p \v 3 कुप्रोपद्वीपं दृष्ट्वा तं सव्यदिशि स्थापयित्वा सुरियादेशं गत्वा पोतस्थद्रव्याण्यवरोहयितुं सोरनगरे लागितवन्तः। \p \v 4 तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः। \p \v 5 ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि। \p \v 6 ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः। \p \v 7 वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः। \p \v 8 परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम। \p \v 9 तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्। \p \v 10 तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्। \p \v 11 सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति। \p \v 12 एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि; \p \v 13 किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि। \p \v 14 तेनास्माकं कथायाम् अगृहीतायाम् ईश्वरस्य यथेच्छा तथैव भवत्वित्युक्त्वा वयं निरस्याम। \p \v 15 परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म। \p \v 16 ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः। \p \v 17 अस्मासु यिरूशालम्युपस्थितेषु तत्रस्थभ्रातृगणोऽस्मान् आह्लादेन गृहीतवान्। \p \v 18 परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः। \p \v 19 अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्। \p \v 20 इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि। \p \v 21 शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति। \p \v 22 त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर। \p \v 23 व्रतं कर्त्तुं कृतसङ्कल्पा येऽस्मांक चत्वारो मानवाः सन्ति \p \v 24 तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते। \p \v 25 भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न। \p \v 26 ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्। \p \v 27 तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा \p \v 28 प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्। \p \v 29 पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत। \p \v 30 अतएव सर्व्वस्मिन् नगरे कलहोत्पन्नत्वात् धावन्तो लोका आगत्य पौलं धृत्वा मन्दिरस्य बहिराकृष्यानयन् तत्क्षणाद् द्वाराणि सर्व्वाणि च रुद्धानि। \p \v 31 तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्। \p \v 32 ततो लोकाः सेनागणेन सह सहस्रसेनापतिम् आगच्छन्तं दृष्ट्वा पौलताडनातो न्यवर्त्तन्त। \p \v 33 स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्? \p \v 34 ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्। \p \v 35 तेषु सोपानस्योपरि प्राप्तेषु लोकानां साहसकारणात् सेनागणः पौलमुत्तोल्य नीतवान्। \p \v 36 ततः सर्व्वे लोकाः पश्चाद्गामिनः सन्त एनं दुरीकुरुतेति वाक्यम् उच्चैरवदन्। \p \v 37 पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि? \p \v 38 यो मिसरीयो जनः पूर्व्वं विरोधं कृत्वा चत्वारि सहस्राणि घातकान् सङ्गिनः कृत्वा विपिनं गतवान् त्वं किं सएव न भवसि? \p \v 39 तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व। \p \v 40 तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत, \c 22 \p \v 1 हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त। \p \v 2 तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तोऽतिष्ठन्। \p \v 3 पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः। \p \v 4 मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्। \p \v 5 महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि। \p \v 6 किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती। \p \v 7 ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः। \p \v 8 तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं। \p \v 9 मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त। \p \v 10 ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे। \p \v 11 अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्। \p \v 12 तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको \p \v 13 मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डेऽहं सम्यक् तं दृष्टवान्। \p \v 14 ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं। \p \v 15 यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि। \p \v 16 अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ। \p \v 17 ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्, \p \v 18 त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्। \p \v 19 ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्, \p \v 20 तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः। \p \v 21 ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये। \p \v 22 तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्। \p \v 23 इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन् \p \v 24 ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्। \p \v 25 पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति? \p \v 26 एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु। \p \v 27 तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्। \p \v 28 ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि। \p \v 29 इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्। \p \v 30 यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्। \c 23 \p \v 1 सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि। \p \v 2 अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्। \p \v 3 तदा पौलस्तमवदत्, हे बहिष्परिष्कृत, ईश्वरस्त्वां प्रहर्त्तुम् उद्यतोस्ति, यतो व्यवस्थानुसारेण विचारयितुम् उपविश्य व्यवस्थां लङ्घित्वा मां प्रहर्त्तुम् आज्ञापयसि। \p \v 4 ततो निकटस्था लोका अकथयन्, त्वं किम् ईश्वरस्य महायाजकं निन्दसि? \p \v 5 ततः पौलः प्रतिभाषितवान् हे भ्रातृगण महायाजक एष इति न बुद्धं मया तदन्यच्च स्वलोकानाम् अधिपतिं प्रति दुर्व्वाक्यं मा कथय, एतादृशी लिपिरस्ति। \p \v 6 अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि। \p \v 7 इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ। \p \v 8 यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति। \p \v 9 ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः। \p \v 10 तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्। \p \v 11 रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्। \p \v 12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्। \p \v 13 चत्वारिंशज्जनेभ्योऽधिका लोका इति पणम् अकुर्व्वन्। \p \v 14 ते महायाजकानां प्राचीनलोकानाञ्च समीपं गत्वा कथयन्, वयं पौलं न हत्वा किमपि न भोक्ष्यामहे दृढेनानेन शपथेन बद्ध्वा अभवाम। \p \v 15 अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम। \p \v 16 तदा पौलस्य भागिनेयस्तेषामिति मन्त्रणां विज्ञाय दुर्गं गत्वा तां वार्त्तां पौलम् उक्तवान्। \p \v 17 तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय। \p \v 18 ततः स तमादाय सहस्रसेनापतेः समीपम् उपस्थाय कथितवान्, भवतः समीपेऽस्य किमपि निवेदनमास्ते तस्मात् बन्दिः पौलो मामाहूय भवतः समीपम् एनम् आनेतुं प्रार्थितवान्। \p \v 19 तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय। \p \v 20 ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्। \p \v 21 किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते। \p \v 22 यामिमां कथां त्वं निवेदितवान् तां कस्मैचिदपि मा कथयेत्युक्त्वा सहस्रसेनापतिस्तं युवानं विसृष्टवान्। \p \v 23 अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं। \p \v 24 पौलम् आरोहयितुं फीलिक्षाधिपतेः समीपं निर्व्विघ्नं नेतुञ्च वाहनानि समुपस्थापयतं। \p \v 25 अपरं स पत्रं लिखित्वा दत्तवान् तल्लिखितमेतत्, \p \v 26 महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः। \p \v 27 यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्। \p \v 28 किन्निमित्तं ते तमपवदन्ते तज्ज्ञातुं तेषा सभां तमानायितवान्। \p \v 29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः। \p \v 30 तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्। \p \v 31 सैन्यगण आज्ञानुसारेण पौलं गृहीत्वा तस्यां रजन्याम् आन्तिपात्रिनगरम् आनयत्। \p \v 32 परेऽहनि तेन सह यातुं घोटकारूढसैन्यगणं स्थापयित्वा परावृत्य दुर्गं गतवान्। \p \v 33 ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्। \p \v 34 तदाधिपतिस्तत्पत्रं पठित्वा पृष्ठवान् एष किम्प्रदेशीयो जनः? स किलिकियाप्रदेशीय एको जन इति ज्ञात्वा कथितवान्, \p \v 35 तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्। \c 24 \p \v 1 पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्। \p \v 2 ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि, \p \v 3 इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः। \p \v 4 किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु। \p \v 5 एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं। \p \v 6 स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि; \p \v 7 किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा \p \v 8 एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते। \p \v 9 ततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्। \p \v 10 अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्। \p \v 11 अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते; \p \v 12 किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः। \p \v 13 इदानीं यस्मिन् यस्मिन् माम् अपवदन्ते तस्य किमपि प्रमाणं दातुं न शक्नुवन्ति। \p \v 14 किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि। \p \v 15 धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि; \p \v 16 ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि। \p \v 17 बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्। \p \v 18 ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः। \p \v 19 ममोपरि यदि काचिदपवादकथास्ति तर्हि भवतः समीपम् उपस्थाय तेषामेव साक्ष्यदानम् उचितम्। \p \v 20 नोचेत् पूर्व्वे महासभास्थानां लोकानां सन्निधौ मम दण्डायमानत्वसमये, अहमद्य मृतानामुत्थाने युष्माभि र्विचारितोस्मि, \p \v 21 तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु। \p \v 22 तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि। \p \v 23 अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्। \p \v 24 अल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्। \p \v 25 पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि। \p \v 26 मुक्तिप्रप्त्यर्थं पौलेन मह्यं मुद्रादास्यन्ते इति पत्याशां कृत्वा स पुनः पुनस्तमाहूय तेन साकं कथोपकथनं कृतवान्। \p \v 27 किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्। \c 25 \p \v 1 अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्। \p \v 2 तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त। \p \v 3 भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः। \p \v 4 यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि। \p \v 5 ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्। \p \v 6 दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्। \p \v 7 पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः। \p \v 8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्। \p \v 9 किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि? \p \v 10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति। \p \v 11 कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु। \p \v 12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि। \p \v 13 कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ। \p \v 14 तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्। \p \v 15 यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त। \p \v 16 ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि। \p \v 17 ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्। \p \v 18 तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं कञ्चन महापवादं नोत्थाप्य \p \v 19 स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः। \p \v 20 ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि? \p \v 21 तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्। \p \v 22 तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि। \p \v 23 परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्। \p \v 24 तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत। \p \v 25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्। \p \v 26 किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये। \p \v 27 यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि। \c 26 \p \v 1 तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्। \p \v 2 हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो ऽभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये; \p \v 3 यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु। \p \v 4 अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति। \p \v 5 अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति। \p \v 6 किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि। \p \v 7 तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्। \p \v 8 ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्? \p \v 9 नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय \p \v 10 यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्। \p \v 11 वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्। \p \v 12 इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज्ञापत्रञ्च लब्ध्वा दम्मेषक्नगरं गतवान्। \p \v 13 तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्। \p \v 14 तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः। \p \v 15 तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं, \p \v 16 किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्। \p \v 17 विशेषतो यिहूदीयलोकेभ्यो भिन्नजातीयेभ्यश्च त्वां मनोनीतं कृत्वा तेषां यथा पापमोचनं भवति \p \v 18 यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि। \p \v 19 हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं \p \v 20 प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्। \p \v 21 एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः। \p \v 22 तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयानाञ्च समीपे दीप्तिं प्रकाशयिष्यति \p \v 23 भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि। \p \v 24 तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः। \p \v 25 स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि। \p \v 26 यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं। \p \v 27 हे आग्रिप्पराज भवान् किं भविष्यद्वादिगणोक्तानि वाक्यानि प्रत्येति? भवान् प्रत्येति तदहं जानामि। \p \v 28 तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि। \p \v 29 ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्। \p \v 30 एतस्यां कथायां कथितायां स राजा सोऽधिपति र्बर्णीकी सभास्था लोकाश्च तस्माद् उत्थाय \p \v 31 गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्। \p \v 32 तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्। \c 27 \p \v 1 जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्। \p \v 2 वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्। \p \v 3 परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ। \p \v 4 तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः। \p \v 5 किलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम। \p \v 6 तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्। \p \v 7 ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः। \p \v 8 कष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम। \p \v 9 इत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्, \p \v 10 हे महेच्छा अहं निश्चयं जानामि यात्रायामस्याम् अस्माकं क्लेशा बहूनामपचयाश्च भविष्यन्ति, ते केवलं पोतसामग्र्योरिति नहि, किन्त्वस्माकं प्राणानामपि। \p \v 11 तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त। \p \v 12 तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः। \p \v 13 ततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः। \p \v 14 किन्त्वल्पक्षणात् परमेव उरक्लुदोन्नामा प्रतिकूलः प्रचण्डो वायु र्वहन् पोतेऽलगीत् \p \v 15 तस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः। \p \v 16 अनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम। \p \v 17 ते तामारुह्य रज्ज्चा पोतस्याधोभागम् अबध्नन् तदनन्तरं चेत् पोतो सैकते लगतीति भयाद् वातवसनान्यमोचयन् ततः पोतो वायुना चालितः। \p \v 18 किन्तु क्रमशो वायोः प्रबलत्वात् पोतो दोलायमानोऽभवत् परस्मिन् दिवसे पोतस्थानि कतिपयानि द्रव्याणि तोये निक्षिप्तानि। \p \v 19 तृतीयदिवसे वयं स्वहस्तैः पोतसज्जनद्रव्याणि निक्षिप्तवन्तः। \p \v 20 ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्। \p \v 21 बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्। \p \v 22 किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति। \p \v 23 यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्, \p \v 24 हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्। \p \v 25 अतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते, \p \v 26 किन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः। \p \v 27 ततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त। \p \v 28 ततस्ते जलं परिमाय तत्र विंशति र्व्यामा जलानीति ज्ञातवन्तः। किञ्चिद्दूरं गत्वा पुनरपि जलं परिमितवन्तः। तत्र पञ्चदश व्यामा जलानि दृष्ट्वा \p \v 29 चेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः। \p \v 30 किन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त। \p \v 31 ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं। \p \v 32 तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्। \p \v 33 प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं। \p \v 34 अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति। \p \v 35 इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्। \p \v 36 अनन्तरं सर्व्वे च सुस्थिराः सन्तः खाद्यानि पर्प्यगृह्लन्। \p \v 37 अस्माकं पोते षट्सप्तत्यधिकशतद्वयलोका आसन्। \p \v 38 सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः। \p \v 39 दिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः। \p \v 40 तथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः। \p \v 41 किन्तु द्वयोः समुद्रयोः सङ्गमस्थाने सैकतोपरि पोते निक्षिप्ते ऽग्रभागे बाधिते पश्चाद्भागे प्रबलतरङ्गोऽलगत् तेन पोतो भग्नः। \p \v 42 तस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्; \p \v 43 किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु। \p \v 44 अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः। \c 28 \p \v 1 इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते ज्ञातवन्तः। \p \v 2 असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्। \p \v 3 किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्। \p \v 4 तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति। \p \v 5 किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्। \p \v 6 ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्। \p \v 7 पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्। \p \v 8 तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्। \p \v 9 इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्। \p \v 10 तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः। \p \v 11 इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म। \p \v 12 ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः। \p \v 13 तस्माद् आवृत्य रीगियनगरम् उपस्थिताः दिनैकस्मात् परं दक्षिणवयौ सानुकूल्ये सति परस्मिन् दिवसे पतियलीनगरम् उपातिष्ठाम। \p \v 14 ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम। \p \v 15 तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्। \p \v 16 अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्। \p \v 17 दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः। \p \v 18 रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्; \p \v 19 किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति। \p \v 20 एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्। \p \v 21 तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च। \p \v 22 तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः। \p \v 23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्। \p \v 24 केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्; \p \v 25 एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा, \p \v 26 "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ। \p \v 27 ते मानुषा यथा नेत्रैः परिपश्यन्ति नैव हि। कर्णैः र्यथा न शृण्वन्ति बुध्यन्ते न च मानसैः। व्यावर्त्तयत्सु चित्तानि काले कुत्रापि तेषु वै। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां सन्ति स्थूला हि बुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः॥ \p \v 28 अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत। \p \v 29 एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः। \p \v 30 इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्, \p \v 31 निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥