\id 2TI Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Timothy \toc1 २ तीमथियं पत्रं \toc2 २ तीमथियः \toc3 २ तीमथियः \mt1 २ तीमथियं पत्रं \c 1 \p \v 1 ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि। \p \v 2 तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां। \p \v 3 अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि। \p \v 4 यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये \p \v 5 तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे। \p \v 6 अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि। \p \v 7 यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्। \p \v 8 अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव। \p \v 9 सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, \p \v 10 किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्। \p \v 11 तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि। \p \v 12 तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि। \p \v 13 हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय। \p \v 14 अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय। \p \v 15 आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते। \p \v 16 प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान् \p \v 17 मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्। \p \v 18 अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि। \c 2 \p \v 1 हे मम पुत्र, ख्रीष्टयीशुतो योऽनुग्रहस्तस्य बलेन त्वं बलवान् भव। \p \v 2 अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय। \p \v 3 त्वं यीशुख्रीष्टस्योत्तमो योद्धेव क्लेशं सहस्व। \p \v 4 यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते। \p \v 5 अपरं यो मल्लै र्युध्यति स यदि नियमानुसारेण न युद्ध्यति तर्हि किरीटं न लप्स्यते। \p \v 6 अपरं यः कृषीवलः कर्म्म करोति तेन प्रथमेन फलभागिना भवितव्यं। \p \v 7 मया यदुच्यते तत् त्वया बुध्यतां यतः प्रभुस्तुभ्यं सर्व्वत्र बुद्धिं दास्यति। \p \v 8 मम सुसंवादस्य वचनानुसाराद् दायूद्वंशीयं मृतगणमध्याद् उत्थापितञ्च यीशुं ख्रीष्टं स्मर। \p \v 9 तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति। \p \v 10 ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे। \p \v 11 अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे। \p \v 12 यदि वयं तम् अनङ्गीकुर्म्मस्तर्हि सो ऽस्मानप्यनङ्गीकरिष्यति। \p \v 13 यदि वयं न विश्वासामस्तर्हि स विश्वास्यस्तिष्ठति यतः स्वम् अपह्नोतुं न शक्नोति। \p \v 14 त्वमेतानि स्मारयन् ते यथा निष्फलं श्रोतृणां भ्रंशजनकं वाग्युद्धं न कुर्य्यस्तथा प्रभोः समक्षं दृढं विनीयादिश। \p \v 15 अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व। \p \v 16 किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते, \p \v 17 तेषाञ्च वाक्यं गलितक्षतवत् क्षयवर्द्धको भविष्यति तेषां मध्ये हुमिनायः फिलीतश्चेतिनामानौ द्वौ जनौ सत्यमताद् भ्रष्टौ जातौ, \p \v 18 मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषाञ्चिद् विश्वासम् उत्पाटयतश्च। \p \v 19 तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥ \p \v 20 किन्तु बृहन्निकेतने केवल सुवर्णमयानि रौप्यमयाणि च भाजनानि विद्यन्त इति तर्हि काष्ठमयानि मृण्मयान्यपि विद्यन्ते तेषाञ्च कियन्ति सम्मानाय कियन्तपमानाय च भवन्ति। \p \v 21 अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति। \p \v 22 यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां। \p \v 23 अपरं त्वम् अनर्थकान् अज्ञानांश्च प्रश्नान् वाग्युद्धोत्पादकान् ज्ञात्वा दूरीकुरु। \p \v 24 यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः। \p \v 25 तथा कृते यदीश्वरः सत्यमतस्य ज्ञानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्, \p \v 26 तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति। \c 3 \p \v 1 चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि। \p \v 2 यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः \p \v 3 प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो \p \v 4 विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो \p \v 5 भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज। \p \v 6 यतो ये जनाः प्रच्छन्नं गेहान् प्रविशन्ति पापै र्भारग्रस्ता नानाविधाभिलाषैश्चालिता याः कामिन्यो \p \v 7 नित्यं शिक्षन्ते किन्तु सत्यमतस्य तत्त्वज्ञानं प्राप्तुं कदाचित् न शक्नुवन्ति ता दासीवद् वशीकुर्व्वते च ते तादृशा लोकाः। \p \v 8 यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये ऽग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति। \p \v 9 किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति। \p \v 10 ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा \p \v 11 आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्। \p \v 12 परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति। \p \v 13 अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते। \p \v 14 किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि; \p \v 15 यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि। \p \v 16 तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति \p \v 17 तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति। \c 4 \p \v 1 ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि। \p \v 2 त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च। \p \v 3 यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति \p \v 4 सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते; \p \v 5 किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च। \p \v 6 मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्। \p \v 7 अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्। \p \v 8 शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते। \p \v 9 त्वं त्वरया मत्समीपम् आगन्तुं यतस्व, \p \v 10 यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्। \p \v 11 केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति, \p \v 12 तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्। \p \v 13 यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय। \p \v 14 कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु। \p \v 15 त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः। \p \v 16 मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्; \p \v 17 किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः। \p \v 18 अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्। \p \v 19 त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु। \p \v 20 इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत। \p \v 21 त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते। \p \v 22 प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। आमेन्।