\id 2TH Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Thessalonians \toc1 २ थिषलनीकिनः पत्रं \toc2 २ थिषलनीकिनः \toc3 २ थिषलनीकिनः \mt1 २ थिषलनीकिनः पत्रं \c 1 \p \v 1 पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः। \p \v 2 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मास्वनुग्रहं शान्तिञ्च क्रियास्तां। \p \v 3 हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति। \p \v 4 तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे। \p \v 5 तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ। \p \v 6 यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च \p \v 7 क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते; \p \v 8 तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते; \p \v 9 ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते, \p \v 10 किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि। \p \v 11 अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते, \p \v 12 यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते। \c 2 \p \v 1 हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे ऽस्माकं संस्थितिञ्चाधि वयं युष्मान् इदं प्रार्थयामहेे, \p \v 2 प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत। \p \v 3 केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं, \p \v 4 यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं। \p \v 5 यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ? \p \v 6 साम्प्रतं स येन निवार्य्यते तद् यूयं जानीथ, किन्तु स्वसमये तेनोदेतव्यं। \p \v 7 विधर्म्मस्य निगूढो गुण इदानीमपि फलति किन्तु यस्तं निवारयति सोऽद्यापि दूरीकृतो नाभवत्। \p \v 8 तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च। \p \v 9 शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति; \p \v 10 यतो हेतोस्ते परित्राणप्राप्तये सत्यधर्म्मस्यानुरागं न गृहीतवन्तस्तस्मात् कारणाद् \p \v 11 ईश्वरेण तान् प्रति भ्रान्तिकरमायायां प्रेषितायां ते मृषावाक्ये विश्वसिष्यन्ति। \p \v 12 यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं। \p \v 13 हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान् \p \v 14 तदर्थञ्चास्माभि र्घोषितेन सुसंवादेन युष्मान् आहूयास्माकं प्रभो र्यीशुख्रीष्टस्य तेजसोऽधिकारिणः करिष्यति। \p \v 15 अतो हे भ्रातरः यूयम् अस्माकं वाक्यैः पत्रैश्च यां शिक्षां लब्धवन्तस्तां कृत्स्नां शिक्षां धारयन्तः सुस्थिरा भवत। \p \v 16 अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान् \p \v 17 स स्वयं युष्माकम् अन्तःकरणानि सान्त्वयतु सर्व्वस्मिन् सद्वाक्ये सत्कर्म्मणि च सुस्थिरीकरोतु च। \c 3 \p \v 1 हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्; \p \v 2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति। \p \v 3 किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च। \p \v 4 यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते। \p \v 5 ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु। \p \v 6 हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत। \p \v 7 यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम, \p \v 8 विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म। \p \v 9 अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म। \p \v 10 यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम। \p \v 11 युष्मन्मध्ये ऽविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते। \p \v 12 तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां। \p \v 13 अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत। \p \v 14 यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते। \p \v 15 किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत। \p \v 16 शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां सङ्गी भूयात्। \p \v 17 नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते। \p \v 18 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुुग्रहः सर्व्वेषु युष्मासु भूयात्। आमेन्।