\id 2PE Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Peter \toc1 २ पितरस्य पत्रं \toc2 २ पितरः \toc3 २ पितरः \mt1 २ पितरस्य पत्रं \c 1 \p \v 1 ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति। \p \v 2 ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां। \p \v 3 जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती। \p \v 4 तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ। \p \v 5 ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं \p \v 6 ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम् \p \v 7 ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त। \p \v 8 एतानि यदि युष्मासु विद्यन्तेे वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज्ञाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति। \p \v 9 किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च। \p \v 10 तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ। \p \v 11 यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। \p \v 12 यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि। \p \v 13 यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये। \p \v 14 यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि। \p \v 15 मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये। \p \v 16 यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः। \p \v 17 यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः। \p \v 18 स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि। \p \v 19 अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ। \p \v 20 शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् ज्ञायतां। \p \v 21 यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त। \c 2 \p \v 1 अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति। \p \v 2 ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति। \p \v 3 अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति। \p \v 4 ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्। \p \v 5 पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्। \p \v 6 सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्; \p \v 7 किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्। \p \v 8 स धार्म्मिको जनस्तेषां मध्ये निवसन् स्वीयदृष्टिश्रोत्रगोचरेभ्यस्तेषाम् अधर्म्माचारेभ्यः स्वकीयधार्म्मिकमनसि दिने दिने तप्तवान्। \p \v 9 प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति, \p \v 10 विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च। \p \v 11 अपरं बलगौरवाभ्यां श्रेष्ठा दिव्यदूताः प्रभोः सन्निधौ येषां वैपरीत्येन निन्दासूचकं विचारं न कुर्व्वन्ति तेषाम् उच्चपदस्थानां निन्दनाद् इमे न भीताः। \p \v 12 किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च। \p \v 13 ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति। \p \v 14 तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च। \p \v 15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत, \p \v 16 किन्तु निजापराधाद् भर्त्सनाम् अलभत यतो वचनशक्तिहीनं वाहनं मानुषिकगिरम् उच्चार्य्य भविष्यद्वादिन उन्मत्तताम् अबाधत। \p \v 17 इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः सञ्चितो ऽस्ति। \p \v 18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति। \p \v 19 तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः। \p \v 20 त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति। \p \v 21 तेषां पक्षे धर्म्मपथस्य ज्ञानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् ज्ञानप्राप्तानां परावर्त्तनं। \p \v 22 किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥ \c 3 \p \v 1 हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा \p \v 2 युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि। \p \v 3 प्रथमं युष्माभिरिदं ज्ञायतां यत् शेषे काले स्वेच्छाचारिणो निन्दका उपस्थाय \p \v 4 वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते। \p \v 5 पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति, \p \v 6 ततस्तात्कालिकसंसारो जलेनाप्लावितो विनाशं गतः। \p \v 7 किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते। \p \v 8 हे प्रियतमाः, यूयम् एतदेकं वाक्यम् अनवगता मा भवत यत् प्रभोः साक्षाद् दिनमेकं वर्षसहस्रवद् वर्षसहस्रञ्च दिनैकवत्। \p \v 9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति। \p \v 10 किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते। \p \v 11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते \p \v 12 तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं? \p \v 13 तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे। \p \v 14 अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं। \p \v 15 अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्। \p \v 16 स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति। \p \v 17 तस्माद् हे प्रियतमाः, यूयं पूर्व्वं बुद्ध्वा सावधानास्तिष्ठत, अधार्म्मिकाणां भ्रान्तिस्रोतसापहृताः स्वकीयसुस्थिरत्वात् मा भ्रश्यत। \p \v 18 किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।