\id 2JN Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 John \toc1 २ योहनः पत्रं \toc2 २ योहनः \toc3 २ योहनः \mt1 २ योहनः पत्रं \c 1 \p \v 1 हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि। \p \v 2 सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति। \p \v 3 पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो ऽनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु। \p \v 4 वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्। \p \v 5 साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं। \p \v 6 अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या। \p \v 7 यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति। \p \v 8 अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः। \p \v 9 यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति। \p \v 10 यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां। \p \v 11 यतस्तव मङ्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति। \p \v 12 युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते। \p \v 13 तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं ज्ञापयन्ति। आमेन्।