\id 2CO Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 2 Corinthians \toc1 २ करिन्थिनः पत्रं \toc2 २ करिन्थिनः \toc3 २ करिन्थिनः \mt1 २ करिन्थिनः पत्रं \c 1 \p \v 1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः। \p \v 2 अस्माकं तातस्येश्वरस्य प्रभोर्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां। \p \v 3 कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। \p \v 4 यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति। \p \v 5 यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः। \p \v 6 वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति। \p \v 7 यदि वा वयं सान्त्वनां लभामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते तामपि लभामहे। यतो यूयं यादृग् दुःखानां भागिनोऽभवत तादृक् सान्त्वनाया अपि भागिनो भविष्यथेति वयं जानीमः। \p \v 8 हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च, \p \v 9 अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं। \p \v 10 एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते। \p \v 11 एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते। \p \v 12 अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे। \p \v 13 युष्माभि र्यद् यत् पठ्यते गृह्यते च तदन्यत् किमपि युष्मभ्यम् अस्माभि र्न लिख्यते तच्चान्तं यावद् युष्माभि र्ग्रहीष्यत इत्यस्माकम् आशा। \p \v 14 यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति। \p \v 15 अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि \p \v 16 युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्। \p \v 17 एतादृशी मन्त्रणा मया किं चाञ्चल्येन कृता? यद् यद् अहं मन्त्रये तत् किं विषयिलोकइव मन्त्रयाण आदौ स्वीकृत्य पश्चाद् अस्वीकुर्व्वे? \p \v 18 युष्मान् प्रति मया कथितानि वाक्यान्यग्रे स्वीकृतानि शेषेऽस्वीकृतानि नाभवन् एतेनेश्वरस्य विश्वस्तता प्रकाशते। \p \v 19 मया सिल्वानेन तिमथिना चेश्वरस्य पुत्रो यो यीशुख्रीष्टो युष्मन्मध्ये घोषितः स तेन स्वीकृतः पुनरस्वीकृतश्च तन्नहि किन्तु स तस्य स्वीकारस्वरूपएव। \p \v 20 ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च। \p \v 21 युष्मान् अस्मांश्चाभिषिच्य यः ख्रीष्टे स्थास्नून् करोति स ईश्वर एव। \p \v 22 स चास्मान् मुद्राङ्कितान् अकार्षीत् सत्याङ्कारस्य पणखरूपम् आत्मानं अस्माकम् अन्तःकरणेषु निरक्षिपच्च। \p \v 23 अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते। \p \v 24 वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति। \c 2 \p \v 1 अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं। \p \v 2 यस्माद् अहं यदि युष्मान् शोकयुक्तान् करोमि तर्हि मया यः शोकयुक्तीकृतस्तं विना केनापरेणाहं हर्षयिष्ये? \p \v 3 मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं। \p \v 4 वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं। \p \v 5 येनाहं शोकयुक्तीकृतस्तेन केवलमहं शोकयुक्तीकृतस्तन्नहि किन्त्वंशतो यूयं सर्व्वेऽपि यतोऽहमत्र कस्मिंश्चिद् दोषमारोपयितुं नेच्छामि। \p \v 6 बहूनां यत् तर्ज्जनं तेन जनेनालम्भि तत् तदर्थं प्रचुरं। \p \v 7 अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च। \p \v 8 इति हेतोः प्रर्थयेऽहं युष्माभिस्तस्मिन् दया क्रियतां। \p \v 9 यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्। \p \v 10 यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते। \p \v 11 शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं। \p \v 12 अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते \p \v 13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं। \p \v 14 य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः। \p \v 15 यस्माद् ये त्राणं लप्स्यन्ते ये च विनाशं गमिष्यन्ति तान् प्रति वयम् ईश्वरेण ख्रीष्टस्य सौगन्ध्यं भवामः। \p \v 16 वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति? \p \v 17 अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे। \c 3 \p \v 1 वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते? \p \v 2 यूयमेवास्माकं प्रशंसापत्रं तच्चास्माकम् अन्तःकरणेषु लिखितं सर्व्वमानवैश्च ज्ञेयं पठनीयञ्च। \p \v 3 यतो ऽस्माभिः सेवितं ख्रीष्टस्य पत्रं यूयपेव, तच्च न मस्या किन्त्वमरस्येश्वरस्यात्मना लिखितं पाषाणपत्रेषु तन्नहि किन्तु क्रव्यमयेषु हृत्पत्रेषु लिखितमिति सुस्पष्टं। \p \v 4 ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते; \p \v 5 वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते। \p \v 6 तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः। \p \v 7 अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत, \p \v 8 तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्? \p \v 9 दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति। \p \v 10 उभयोस्तुलनायां कृतायाम् एकस्यास्तेजो द्वितीयायाः प्रखरतरेण तेजसा हीनतेजो भवति। \p \v 11 यस्माद् यत् लोपनीयं तद् यदि तेजोयुक्तं भवेत् तर्हि यत् चिरस्थायि तद् बहुतरतेजोयुक्तमेव भविष्यति। \p \v 12 ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः। \p \v 13 इस्रायेलीयलोका यत् तस्य लोपनीयस्य तेजसः शेषं न विलोकयेयुस्तदर्थं मूसा यादृग् आवरणेन स्वमुखम् आच्छादयत् वयं तादृक् न कुर्म्मः। \p \v 14 तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति। \p \v 15 तच्च न दूरीभवति यतः ख्रीष्टेनैव तत् लुप्यते। मूससः शास्त्रस्य पाठसमयेऽद्यापि तेषां मनांसि तेनावरणेन प्रच्छाद्यन्ते। \p \v 16 किन्तु प्रभुं प्रति मनसि परावृत्ते तद् आवरणं दूरीकारिष्यते। \p \v 17 यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः। \p \v 18 वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः। \c 4 \p \v 1 अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः, \p \v 2 किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः। \p \v 3 अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः; \p \v 4 यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति। \p \v 5 वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः। \p \v 6 य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्। \p \v 7 अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं। \p \v 8 वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः; \p \v 9 वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः। \p \v 10 अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः। \p \v 11 यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे। \p \v 12 इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः। \p \v 13 विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते। \p \v 14 प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः। \p \v 15 अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते। \p \v 16 ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते। \p \v 17 क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति, \p \v 18 यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः। \c 5 \p \v 1 अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः। \p \v 2 यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आकाङ्क्ष्यमाणा निःश्वसामः। \p \v 3 तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे। \p \v 4 एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते। \p \v 5 एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्यङ्कारस्य पणस्वरूपम् आत्मानं दत्तवान्। \p \v 6 अतएव वयं सर्व्वदोत्सुका भवामः किञ्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः, \p \v 7 यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे। \p \v 8 अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः। \p \v 9 तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे। \p \v 10 यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं। \p \v 11 अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे। \p \v 12 अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः। \p \v 13 यदि वयं हतज्ञाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज्ञाना भवामस्तर्हि तद् युष्मदर्थकं। \p \v 14 वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते। \p \v 15 अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्। \p \v 16 अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते। \p \v 17 केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति। \p \v 18 सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च। \p \v 19 यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च। \p \v 20 अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त। \p \v 21 यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः। \c 6 \p \v 1 तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां। \p \v 2 तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं। \p \v 3 अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः, \p \v 4 किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं \p \v 5 निर्म्मलत्वं ज्ञानं मृदुशीलता हितैषिता \p \v 6 पवित्र आत्मा निष्कपटं प्रेम सत्यालाप ईश्वरीयशक्ति \p \v 7 र्दक्षिणवामाभ्यां कराभ्यां धर्म्मास्त्रधारणं \p \v 8 मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः। \p \v 9 भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे, \p \v 10 शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः। \p \v 11 हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं। \p \v 12 यूयं ममान्तरे न सङ्कोचिताः किञ्च यूयमेव सङ्कोचितचित्ताः। \p \v 13 किन्तु मह्यं न्याय्यफलदानार्थं युष्माभिरपि विकसितै र्भवितव्यम् इत्यहं निजबालकानिव युष्मान् वदामि। \p \v 14 अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति? \p \v 15 बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः? \p \v 16 ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति। \p \v 17 अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि, \p \v 18 युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं। \c 7 \p \v 1 अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां। \p \v 2 यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः। \p \v 3 युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं। \p \v 4 युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि। \p \v 5 अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि। \p \v 6 किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्। \p \v 7 केवलं तस्यागमनेन तन्नहि किन्तु युष्मत्तो जातया तस्य सान्त्वनयापि, यतोऽस्मासु युष्माकं हार्द्दविलापासक्तत्वेष्वस्माकं समीपे वर्णितेषु मम महानन्दो जातः। \p \v 8 अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते। \p \v 9 इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः। \p \v 10 स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति। \p \v 11 पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं। \p \v 12 येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव। \p \v 13 उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः। \p \v 14 पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं। \p \v 15 यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते। \p \v 16 युष्मास्वहं सर्व्वमाशंसे, इत्यस्मिन् ममाह्लादो जायते। \c 8 \p \v 1 हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि। \p \v 2 वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दोऽतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां। \p \v 3 ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते। \p \v 4 वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः। \p \v 5 वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्। \p \v 6 अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि। \p \v 7 अतो विश्वासो वाक्पटुता ज्ञानं सर्व्वोत्साहो ऽस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं। \p \v 8 एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते। \p \v 9 यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्। \p \v 10 एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा। \p \v 11 अतो ऽधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते। \p \v 12 यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव। \p \v 13 यत इतरेषां विरामेण युष्माकञ्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव। \p \v 14 वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते। \p \v 15 तदेव शास्त्रेऽपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्। \p \v 16 युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु। \p \v 17 तीतोऽस्माकं प्रार्थनां गृहीतवान् किञ्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्। \p \v 18 तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः। \p \v 19 प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत। \p \v 20 यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे। \p \v 21 यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे। \p \v 22 ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे। \p \v 23 यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां। \p \v 24 अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं। \c 9 \p \v 1 पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं। \p \v 2 यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः। \p \v 3 किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः। \p \v 4 यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते। \p \v 5 अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये। \p \v 6 अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। \p \v 7 एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते। \p \v 8 अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ। \p \v 9 एतस्मिन् लिखितमास्ते, यथा, व्ययते स जनो रायं दुर्गतेभ्यो ददाति च। नित्यस्थायी च तद्धर्म्मः \p \v 10 बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। \p \v 11 तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते। \p \v 12 एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते। \p \v 13 यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते, \p \v 14 युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते। \p \v 15 अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्। \c 10 \p \v 1 युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये। \p \v 2 मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु। \p \v 3 यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। \p \v 4 अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति, \p \v 5 तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः, \p \v 6 युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च। \p \v 7 यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां। \p \v 8 युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये। \p \v 9 अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां। \p \v 10 तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते। \p \v 11 किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां। \p \v 12 स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च। \p \v 13 वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे। \p \v 14 युष्माकं देशोऽस्माभिरगन्तव्यस्तस्माद् वयं स्वसीमाम् उल्लङ्घामहे तन्नहि यतः ख्रीष्टस्य सुसंवादेनापरेषां प्राग् वयमेव युष्मान् प्राप्तवन्तः। \p \v 15 वयं स्वसीमाम् उल्लङ्घ्य परक्षेत्रेण श्लाघामहे तन्नहि, किञ्च युष्माकं विश्वासे वृद्धिं गते युष्मद्देशेऽस्माकं सीमा युष्माभिर्दीर्घं विस्तारयिष्यते, \p \v 16 तेन वयं युष्माकं पश्चिमदिक्स्थेषु स्थानेषु सुसंवादं घोषयिष्यामः, इत्थं परसीमायां परेण यत् परिष्कृतं तेन न श्लाघिष्यामहे। \p \v 17 यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि। \p \v 18 स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः। \c 11 \p \v 1 यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां। \p \v 2 ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं। \p \v 3 किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि। \p \v 4 अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे। \p \v 5 किन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये। \p \v 6 मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे। \p \v 7 युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि? \p \v 8 युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्, \p \v 9 यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च। \p \v 10 ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते। \p \v 11 एतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति। \p \v 12 ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति। \p \v 13 तादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति। \p \v 14 तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति, \p \v 15 ततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति। \p \v 16 अहं पुन र्वदामि कोऽपि मां निर्ब्बोधं न मन्यतां किञ्च यद्यपि निर्ब्बोधो भवेयं तथापि यूयं निर्ब्बोधमिव मामनुगृह्य क्षणैकं यावत् ममात्मश्लाघाम् अनुजानीत। \p \v 17 एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव। \p \v 18 अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये। \p \v 19 बुद्धिमन्तो यूयं सुखेन निर्ब्बोधानाम् आचारं सहध्वे। \p \v 20 कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे। \p \v 21 दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं। \p \v 22 ते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः। \p \v 23 ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्। \p \v 24 यिहूदीयैरहं पञ्चकृत्व ऊनचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघातञ्च प्रप्तवान्। \p \v 25 वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्। \p \v 26 बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च \p \v 27 परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्। \p \v 28 तादृशं नैमित्तिकं दुःखं विनाहं प्रतिदिनम् आकुलो भवामि सर्व्वासां समितीनां चिन्ता च मयि वर्त्तते। \p \v 29 येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति? \p \v 30 यदि मया श्लाघितव्यं तर्हि स्वदुर्ब्बलतामधि श्लाघिष्ये। \p \v 31 मया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयोऽस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति। \p \v 32 दम्मेषकनगरेऽरिताराजस्य कार्य्याध्यक्षो मां धर्त्तुम् इच्छन् यदा सैन्यैस्तद् दम्मेषकनगरम् अरक्षयत् \p \v 33 तदाहं लोकैः पिटकमध्ये प्राचीरगवाक्षेणावरोहितस्तस्य करात् त्राणं प्रापं। \c 12 \p \v 1 आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते। \p \v 2 इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति। \p \v 3 स मानवः स्वर्गं नीतः सन् अकथ्यानि मर्त्त्यवागतीतानि च वाक्यानि श्रुतवान्। \p \v 4 किन्तु तदानीं स सशरीरो निःशरीरो वासीत् तन्मया न ज्ञायते तद् ईश्वरेणैव ज्ञायते। \p \v 5 तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये। \p \v 6 यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि। \p \v 7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः। \p \v 8 मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्। \p \v 9 ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं। \p \v 10 तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि। \p \v 11 एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि। \p \v 12 सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि। \p \v 13 मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं। \p \v 14 पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः। \p \v 15 अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि। \p \v 16 यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं? \p \v 17 युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः? \p \v 18 अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ? \p \v 19 युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः। \p \v 20 अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति; \p \v 21 तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि। \c 13 \p \v 1 एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते। \p \v 2 पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये। \p \v 3 ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव। \p \v 4 यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः। \p \v 5 अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ। \p \v 6 किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते। \p \v 7 यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं। \p \v 8 यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव। \p \v 9 वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च। \p \v 10 अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते। \p \v 11 हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्। \p \v 12 यूयं पवित्रचुम्बनेन परस्परं नमस्कुरुध्वं। \p \v 13 पवित्रलोकाः सर्व्वे युष्मान् नमन्ति। \p \v 14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।