\id 1TI Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 Timothy \toc1 १ तीमथियं पत्रं \toc2 १ तीमथियः \toc3 १ तीमथियः \mt1 १ तीमथियं पत्रं \c 1 \p \v 1 अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति। \p \v 2 अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां। \p \v 3 माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम् \p \v 4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते। \p \v 5 उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम। \p \v 6 केचित् जनाश्च सर्व्वाण्येतानि विहाय निरर्थककथानाम् अनुगमनेन विपथगामिनोऽभवन्, \p \v 7 यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति। \p \v 8 सा व्यवस्था यदि योग्यरूपेण गृह्यते तर्ह्युत्तमा भवतीति वयं जानीमः। \p \v 9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता \p \v 10 वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा, \p \v 11 तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं। \p \v 12 मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि। \p \v 13 यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं। \p \v 14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्। \p \v 15 पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च। \p \v 16 तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्। \p \v 17 अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्। \p \v 18 हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि \p \v 19 विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्। \p \v 20 हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ। \c 2 \p \v 1 मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः, \p \v 2 सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः। \p \v 3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति, \p \v 4 स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति। \p \v 5 यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः \p \v 6 स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं, \p \v 7 तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि। \p \v 8 अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां। \p \v 9 तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः \p \v 10 स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां। \p \v 11 नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां। \p \v 12 नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। \p \v 13 यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव। \p \v 14 किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव। \p \v 15 तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति। \c 3 \p \v 1 यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं। \p \v 2 अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन \p \v 3 न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन \p \v 4 स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं। \p \v 5 यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते? \p \v 6 अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं। \p \v 7 यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं। \p \v 8 तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं, \p \v 9 निर्म्मलसंवेदेन च विश्वासस्य निगूढवाक्यं धातिव्यञ्च। \p \v 10 अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु। \p \v 11 अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं। \p \v 12 परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च। \p \v 13 यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च। \p \v 14 त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते। \p \v 15 यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते। \p \v 16 अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति। \c 4 \p \v 1 पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात् \p \v 2 कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च \p \v 3 भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे। \p \v 4 यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति, \p \v 5 यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति। \p \v 6 एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च। \p \v 7 यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च। \p \v 8 यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति। \p \v 9 वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च। \p \v 10 यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः। \p \v 11 त्वम् एतानि वाक्यानि प्रचारय समुपदिश च। \p \v 12 अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव। \p \v 13 यावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व। \p \v 14 प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव। \p \v 15 एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां। \p \v 16 स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते। \c 5 \p \v 1 त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव \p \v 2 वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व। \p \v 3 अपरं सत्यविधवाः सम्मन्यस्व। \p \v 4 कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म। \p \v 5 अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति। \p \v 6 किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति। \p \v 7 अतएव ता यद् अनिन्दिता भवेयूस्तदर्थम् एतानि त्वया निदिश्यन्तां। \p \v 8 यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति। \p \v 9 विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा \p \v 10 सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं। \p \v 11 किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति। \p \v 12 तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति। \p \v 13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते। \p \v 14 अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु। \p \v 15 यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः। \p \v 16 अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते। \p \v 17 ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां। \p \v 18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति। \p \v 19 द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां। \p \v 20 अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते। \p \v 21 अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय। \p \v 22 कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष। \p \v 23 अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव। \p \v 24 केषाञ्चित् मानवानां पापानि विचारात् पूर्व्वं केषाञ्चित् पश्चात् प्रकाशन्ते। \p \v 25 तथैव सत्कर्म्माण्यपि प्रकाशन्ते तदन्यथा सति प्रच्छन्नानि स्थातुं न शक्नुवन्ति। \c 6 \p \v 1 यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति। \p \v 2 येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च। \p \v 3 यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षाञ्च न स्वीकरोति \p \v 4 स दर्पध्मातः सर्व्वथा ज्ञानहीनश्च विवादै र्वाग्युद्धैश्च रोगयुक्तश्च भवति। \p \v 5 तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ। \p \v 6 संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं। \p \v 7 एतज्जगत्प्रवेशनकालेऽस्माभिः किमपि नानायि तत्तयजनकालेऽपि किमपि नेतुं न शक्ष्यत इति निश्चितं। \p \v 8 अतएव खाद्यान्याच्छादनानि च प्राप्यास्माभिः सन्तुष्टै र्भवितव्यं। \p \v 9 ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज्ञानाहिताभिलाषेष्वपि पतन्ति। \p \v 10 यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्। \p \v 11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर। \p \v 12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्। \p \v 13 अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि। \p \v 14 ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां। \p \v 15 स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः, \p \v 16 अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्। \p \v 17 इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता \p \v 18 योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, \p \v 19 यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां। \p \v 20 हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च, \p \v 21 यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।