\id 1JN Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 John \toc1 १ योहनः पत्रं \toc2 १ योहनः \toc3 १ योहनः \mt1 १ योहनः पत्रं \c 1 \p \v 1 आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः। \p \v 2 स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः। \p \v 3 अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति। \p \v 4 अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः। \p \v 5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति। \p \v 6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः। \p \v 7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति। \p \v 8 वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते। \p \v 9 यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति। \p \v 10 वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते। \c 2 \p \v 1 हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते। \p \v 2 स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं। \p \v 3 वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः। \p \v 4 अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते। \p \v 5 यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः। \p \v 6 अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्। \p \v 7 हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा। \p \v 8 पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते; \p \v 9 अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते। \p \v 10 स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते। \p \v 11 किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति। \p \v 12 हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि। \p \v 13 हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्। \p \v 14 हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्। \p \v 15 यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। \p \v 16 यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव। \p \v 17 संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति। \p \v 18 हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः। \p \v 19 ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्। \p \v 20 यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ। \p \v 21 यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव। \p \v 22 यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति। \p \v 23 यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति। \p \v 24 आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ। \p \v 25 स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं। \p \v 26 ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्। \p \v 27 अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ। \p \v 28 अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे। \p \v 29 स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत। \c 3 \p \v 1 पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति। \p \v 2 हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते। \p \v 3 तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति। \p \v 4 यः कश्चित् पापम् आचरति स व्यवस्थालङ्घनं करोति यतः पापमेव व्यवस्थालङ्घनं। \p \v 5 अपरं सो ऽस्माकं पापान्यपहर्त्तुं प्राकाशतैतद् यूयं जानीथ, पापञ्च तस्मिन् न विद्यते। \p \v 6 यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्। \p \v 7 हे प्रियबालकाः, कश्चिद् युष्माकं भ्रमं न जनयेत्, यः कश्चिद् धर्म्माचारं करोति स तादृग् धार्म्मिको भवति यादृक् स धाम्मिको ऽस्ति। \p \v 8 यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत। \p \v 9 यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः। \p \v 10 इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि। \p \v 11 यतस्तस्य य आदेश आदितो युष्माभिः श्रुतः स एष एव यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं। \p \v 12 पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्। \p \v 13 हे मम भ्रातरः, संसारो यदि युष्मान् द्वेष्टि तर्हि तद् आश्चर्य्यं न मन्यध्वं। \p \v 14 वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति। \p \v 15 यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ। \p \v 16 अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः। \p \v 17 सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्? \p \v 18 हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव। \p \v 19 एतेन वयं यत् सत्यमतसम्बन्धीयास्तत् जानीमस्तस्य साक्षात् स्वान्तःकरणानि सान्त्वयितुं शक्ष्यामश्च। \p \v 20 यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च। \p \v 21 हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः। \p \v 22 यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च। \p \v 23 अपरं तस्येयमाज्ञा यद् वयं पुत्रस्य यीशुख्रीष्टस्य नाम्नि विश्वसिमस्तस्याज्ञानुसारेण च परस्परं प्रेम कुर्म्मः। \p \v 24 यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः। \c 4 \p \v 1 हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः। \p \v 2 ईश्वरीयो य आत्मा स युष्माभिरनेन परिचीयतां, यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना स्वीक्रियते स ईश्वरीयः। \p \v 3 किन्तु यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना नाङ्गीक्रियते स ईश्वरीयो नहि किन्तु ख्रीष्टारेरात्मा, तेन चागन्तव्यमिति युष्माभिः श्रुतं, स चेदानीमपि जगति वर्त्तते। \p \v 4 हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्। \p \v 5 ते संसारात् जातास्ततो हेतोः संसाराद् भाषन्ते संसारश्च तेषां वाक्यानि गृह्लाति। \p \v 6 वयम् ईश्वरात् जाताः, ईश्वरं यो जानाति सोऽस्मद्वाक्यानि गृह्लाति यश्चेश्वरात् जातो नहि सोऽस्मद्वाक्यानि न गृह्लाति; अनेन वयं सत्यात्मानं भ्रामकात्मानञ्च परिचिनुमः। \p \v 7 हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च। \p \v 8 यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः। \p \v 9 अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्। \p \v 10 वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते। \p \v 11 हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं। \p \v 12 ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते। \p \v 13 अस्मभ्यं तेन स्वकीयात्मनोंऽशो दत्त इत्यनेन वयं यत् तस्मिन् तिष्ठामः स च यद् अस्मासु तिष्ठतीति जानीमः। \p \v 14 पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः। \p \v 15 यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति। \p \v 16 अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति। \p \v 17 स यादृशो ऽस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने ऽस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः। \p \v 18 प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः। \p \v 19 अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे। \p \v 20 ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्? \p \v 21 अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा। \c 5 \p \v 1 यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते। \p \v 2 वयम् ईश्वरस्य सन्तानेषु प्रीयामहे तद् अनेन जानीमो यद् ईश्वरे प्रीयामहे तस्याज्ञाः पालयामश्च। \p \v 3 यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति। \p \v 4 यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः। \p \v 5 यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति? \p \v 6 सोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः। \p \v 7 यतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति। \p \v 8 तथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च। \p \v 9 मानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं। \p \v 10 ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति। \p \v 11 तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते। \p \v 12 यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति। \p \v 13 ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च। \p \v 14 तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति। \p \v 15 स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः। \p \v 16 कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि। \p \v 17 सर्व्व एवाधर्म्मः पापं किन्तु सर्व्वपांप मृत्युजनकं नहि। \p \v 18 य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः। \p \v 19 वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः। \p \v 20 अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति। \p \v 21 हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।