\id 1CO Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) \ide UTF-8 \rem © SanskritBible.in । Licensed under CC BY-SA 4.0 \h 1 Corinthians \toc1 १ करिन्थिनः पत्रं \toc2 १ करिन्थिनः \toc3 १ करिन्थिनः \mt1 १ करिन्थिनः पत्रं \c 1 \p \v 1 यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते \p \v 2 तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति। \p \v 3 अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां। \p \v 4 ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि। \p \v 5 ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत् \p \v 6 तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज्ञानादीनि सर्व्वधनानि लब्धवन्तः। \p \v 7 ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति। \p \v 8 अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति। \p \v 9 य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः। \p \v 10 हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु। \p \v 11 हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज्ञापितः। \p \v 12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च। \p \v 13 ख्रीष्टस्य किं विभेदः कृतः? पौलः किं युष्मत्कृते क्रुशे हतः? पौलस्य नाम्ना वा यूयं किं मज्जिताः? \p \v 14 क्रिष्पगायौ विना युष्माकं मध्येऽन्यः कोऽपि मया न मज्जित इति हेतोरहम् ईश्वरं धन्यं वदामि। \p \v 15 एतेन मम नाम्ना मानवा मया मज्जिता इति वक्तुं केनापि न शक्यते। \p \v 16 अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि। \p \v 17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति। \p \v 18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा। \p \v 19 तस्मादित्थं लिखितमास्ते, ज्ञानवतान्तु यत् ज्ञानं तन्मया नाशयिष्यते। विलोपयिष्यते तद्वद् बुद्धि र्बद्धिमतां मया॥ \p \v 20 ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि? \p \v 21 ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्। \p \v 22 यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते, \p \v 23 वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते, \p \v 24 किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते। \p \v 25 यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव। \p \v 26 हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज्ञानेन ज्ञानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते। \p \v 27 यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्। \p \v 28 तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्। \p \v 29 तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या। \p \v 30 यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता। \p \v 31 अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि। \c 2 \p \v 1 हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि; \p \v 2 यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्। \p \v 3 अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं। \p \v 4 अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्, \p \v 5 तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां। \p \v 6 वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि; \p \v 7 किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे। \p \v 8 इहलोकस्याधिपतीनां केनापि तत् ज्ञानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्। \p \v 9 तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं। \p \v 10 अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते। \p \v 11 मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते। \p \v 12 वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते। \p \v 13 तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते। \p \v 14 प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति। \p \v 15 आत्मिको मानवः सर्व्वाणि विचारयति किन्तु स्वयं केनापि न विचार्य्यते। \p \v 16 यत ईश्वरस्य मनो ज्ञात्वा तमुपदेष्टुं कः शक्नोति? किन्तु ख्रीष्टस्य मनोऽस्माभि र्लब्धं। \c 3 \p \v 1 हे भ्रातरः, अहमात्मिकैरिव युष्माभिः समं सम्भाषितुं नाशक्नवं किन्तु शारीरिकाचारिभिः ख्रीष्टधर्म्मे शिशुतुल्यैश्च जनैरिव युष्माभिः सह समभाषे। \p \v 2 युष्मान् कठिनभक्ष्यं न भोजयन् दुग्धम् अपाययं यतो यूयं भक्ष्यं ग्रहीतुं तदा नाशक्नुत इदानीमपि न शक्नुथ, यतो हेतोरधुनापि शारीरिकाचारिण आध्वे। \p \v 3 युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ? \p \v 4 पौलस्याहमित्यापल्लोरहमिति वा यद्वाक्यं युष्माकं कैश्चित् कैश्चित् कथ्यते तस्माद् यूयं शारीरिकाचारिण न भवथ? \p \v 5 पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः। \p \v 6 अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्। \p \v 7 अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः। \p \v 8 रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते। \p \v 9 आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव। \p \v 10 ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां। \p \v 11 यतो यीशुख्रीष्टरूपं यद् भित्तिमूलं स्थापितं तदन्यत् किमपि भित्तिमूलं स्थापयितुं केनापि न शक्यते। \p \v 12 एतद्भित्तिमूलस्योपरि यदि केचित् स्वर्णरूप्यमणिकाष्ठतृणनलान् निचिन्वन्ति, \p \v 13 तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति। \p \v 14 यस्य निचयनरूपं कर्म्म स्थास्नु भविष्यति स वेतनं लप्स्यते। \p \v 15 यस्य च कर्म्म धक्ष्यते तस्य क्षति र्भविष्यति किन्तु वह्ने र्निर्गतजन इव स स्वयं परित्राणं प्राप्स्यति। \p \v 16 यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ? \p \v 17 ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे। \p \v 18 कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु। \p \v 19 यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः। \p \v 20 पुनश्च। ज्ञानिनां कल्पना वेत्ति परमेशो निरर्थकाः। \p \v 21 अतएव कोऽपि मनुजैरात्मानं न श्लाघतां यतः सर्व्वाणि युष्माकमेव, \p \v 22 पौल वा आपल्लो र्वा कैफा वा जगद् वा जीवनं वा मरणं वा वर्त्तमानं वा भविष्यद्वा सर्व्वाण्येव युष्माकं, \p \v 23 यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य। \c 4 \p \v 1 लोका अस्मान् ख्रीष्टस्य परिचारकान् ईश्वरस्य निगूठवाक्यधनस्याध्यक्षांश्च मन्यन्तां। \p \v 2 किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते। \p \v 3 अतो विचारयद्भि र्युष्माभिरन्यैः कैश्चिन् मनुजै र्वा मम परीक्षणं मयातीव लघु मन्यते ऽहमप्यात्मानं न विचारयामि। \p \v 4 मया किमप्यपराद्धमित्यहं न वेद्मि किन्त्वेतेन मम निरपराधत्वं न निश्चीयते प्रभुरेव मम विचारयितास्ति। \p \v 5 अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति। \p \v 6 हे भ्रातरः सर्व्वाण्येतानि मयात्मानम् आपल्लवञ्चोद्दिश्य कथितानि तस्यैतत् कारणं युयं यथा शास्त्रीयविधिमतिक्रम्य मानवम् अतीव नादरिष्यध्ब ईत्थञ्चैकेन वैपरीत्याद् अपरेण न श्लाघिष्यध्ब एतादृशीं शिक्षामावयोर्दृष्टान्तात् लप्स्यध्वे। \p \v 7 अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे? \p \v 8 इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः। \p \v 9 प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः। \p \v 10 ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः। \p \v 11 वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः \p \v 12 कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते। \p \v 13 वयमद्यापि जगतः सम्मार्जनीयोग्या अवकरा इव सर्व्वै र्मन्यामहे। \p \v 14 युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि। \p \v 15 यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं। \p \v 16 अतो युष्मान् विनयेऽहं यूयं मदनुगामिनो भवत। \p \v 17 इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं। \p \v 18 अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति। \p \v 19 किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि। \p \v 20 यस्मादीश्वरस्य राजत्वं वाग्युक्तं नहि किन्तु सामर्थ्ययुक्तं। \p \v 21 युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा? \c 5 \p \v 1 अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता। \p \v 2 तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्? \p \v 3 अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्, \p \v 4 अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन \p \v 5 स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति। \p \v 6 युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते। \p \v 7 यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्। \p \v 8 अतः पुरातनकिण्वेनार्थतो दुष्टताजिघांसारूपेण किण्वेन तन्नहि किन्तु सारल्यसत्यत्वरूपया किण्वशून्यतयास्माभिरुत्सवः कर्त्तव्यः। \p \v 9 व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं। \p \v 10 किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव। \p \v 11 किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं। \p \v 12 समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्? \p \v 13 बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां। \c 6 \p \v 1 युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते? \p \v 2 जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? \p \v 3 दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः? \p \v 4 ऐहिकविषयस्य विचारे युष्माभिः कर्त्तव्ये ये लोकाः समितौ क्षुद्रतमास्त एव नियुज्यन्तां। \p \v 5 अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्? \p \v 6 किञ्चैको भ्राता भ्रात्रान्येन किमविश्वासिनां विचारकाणां साक्षाद् विवदते? यष्मन्मध्ये विवादा विद्यन्त एतदपि युष्माकं दोषः। \p \v 7 यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे? \p \v 8 किन्तु यूयमपि भ्रातृनेव प्रत्यन्यायं क्षतिञ्च कुरुथ किमेतत्? \p \v 9 ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा \p \v 10 लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति। \p \v 11 यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च। \p \v 12 मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि। \p \v 13 उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय। \p \v 14 यश्चेश्वरः प्रभुमुत्थापितवान् स स्वशक्त्यास्मानप्युत्थापयिष्यति। \p \v 15 युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु। \p \v 16 यः कश्चिद् वेश्यायाम् आसज्यते स तया सहैकदेहो भवति किं यूयमेतन्न जानीथ? यतो लिखितमास्ते, यथा, तौ द्वौ जनावेकाङ्गौ भविष्यतः। \p \v 17 मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते। \p \v 18 मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते। \p \v 19 युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? \p \v 20 यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी। \c 7 \p \v 1 अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं; \p \v 2 किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु। \p \v 3 भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां। \p \v 4 भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव। \p \v 5 उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत। \p \v 6 एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते, \p \v 7 यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः। \p \v 8 अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा; \p \v 9 किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं। \p \v 10 ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते। \p \v 11 भार्य्या भर्त्तृतः पृथक् न भवतु। यदि वा पृथग्भूता स्यात् तर्हि निर्विवाहा तिष्ठतु स्वीयपतिना वा सन्दधातु भर्त्तापि भार्य्यां न त्यजतु। \p \v 12 इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां। \p \v 13 तद्वत् कस्याश्चिद् योषितः पतिरविश्वासी सन्नपि यदि तया सहवासे तुष्यति तर्हि स तया न त्यज्यतां। \p \v 14 यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति। \p \v 15 अविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः। \p \v 16 हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते? \p \v 17 एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि। \p \v 18 छिन्नत्वग् भृत्वा य आहूतः स प्रकृष्टत्वक् न भवतु, तद्वद् अछिन्नत्वग् भूत्वा य आहूतः स छिन्नत्वक् न भवतु। \p \v 19 त्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव। \p \v 20 यो जनो यस्यामवस्थायामाह्वायि स तस्यामेवावतिष्ठतां। \p \v 21 दासः सन् त्वं किमाहूतोऽसि? तन्मा चिन्तय, तथाच यदि स्वतन्त्रो भवितुं शक्नुयास्तर्हि तदेव वृणु। \p \v 22 यतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव। \p \v 23 यूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत। \p \v 24 हे भ्रातरो यस्यामवस्थायां यस्याह्वानमभवत् तया स ईश्वरस्य साक्षात् तिष्ठतु। \p \v 25 अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि। \p \v 26 वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते। \p \v 27 त्वं किं योषिति निबद्धोऽसि तर्हि मोचनं प्राप्तुं मा यतस्व। किं वा योषितो मुक्तोऽसि? तर्हि जायां मा गवेषय। \p \v 28 विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते। \p \v 29 हे भ्रातरोऽहमिदं ब्रवीमि, इतः परं समयोऽतीव संक्षिप्तः, \p \v 30 अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं \p \v 31 ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति। \p \v 32 किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति, \p \v 33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति। \p \v 34 तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति। \p \v 35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते। \p \v 36 कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां। \p \v 37 किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति। \p \v 38 अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति। \p \v 39 यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये। \p \v 40 तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते। \c 8 \p \v 1 देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते। \p \v 2 अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं। \p \v 3 किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि ज्ञायते। \p \v 4 देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति। \p \v 5 स्वर्गे पृथिव्यां वा यद्यपि केषुचिद् ईश्वर इति नामारोप्यते तादृशाश्च बहव ईश्वरा बहवश्च प्रभवो विद्यन्ते \p \v 6 तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता। \p \v 7 अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति। \p \v 8 किन्तु भक्ष्यद्रव्याद् वयम् ईश्वरेण ग्राह्या भवामस्तन्नहि यतो भुङ्क्त्वा वयमुत्कृष्टा न भवामस्तद्वदभुङ्क्त्वाप्यपकृष्टा न भवामः। \p \v 9 अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत। \p \v 10 यतो ज्ञानविशिष्टस्त्वं यदि देवालये उपविष्टः केनापि दृश्यसे तर्हि तस्य दुर्ब्बलस्य मनसि किं प्रसादभक्षण उत्साहो न जनिष्यते? \p \v 11 तथा सति यस्य कृते ख्रीष्टो ममार तव स दुर्ब्बलो भ्राता तव ज्ञानात् किं न विनंक्ष्यति? \p \v 12 इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते। \p \v 13 अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये। \c 9 \p \v 1 अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ? \p \v 2 अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितोऽस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे। \p \v 3 ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्। \p \v 4 भोजनपानयोः किमस्माकं क्षमता नास्ति? \p \v 5 अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः? \p \v 6 सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ? \p \v 7 निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति? \p \v 8 किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते? \p \v 9 मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते? \p \v 10 किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं। \p \v 11 युष्मत्कृतेऽस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म? \p \v 12 युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे। \p \v 13 अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद? \p \v 14 तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं। \p \v 15 अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं। \p \v 16 सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्। \p \v 17 इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति। \p \v 18 एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं। \p \v 19 सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्। \p \v 20 यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं। \p \v 21 ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं। \p \v 22 दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं। \p \v 23 इदृश आचारः सुसंवादार्थं मया क्रियते यतोऽहं तस्य फलानां सहभागी भवितुमिच्छामि। \p \v 24 पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत। \p \v 25 मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे। \p \v 26 तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि। \p \v 27 इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च। \c 10 \p \v 1 हे भ्रातरः, अस्मत्पितृपुरुषानधि यूयं यदज्ञाता न तिष्ठतेति मम वाञ्छा, ते सर्व्वे मेघाधःस्थिता बभूवुः सर्व्वे समुद्रमध्येन वव्रजुः, \p \v 2 सर्व्वे मूसामुद्दिश्य मेघसमुद्रयो र्मज्जिता बभूवुः \p \v 3 सर्व्व एकम् आत्मिकं भक्ष्यं बुभुजिर एकम् आत्मिकं पेयं पपुश्च \p \v 4 यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव। \p \v 5 तथा सत्यपि तेषां मध्येऽधिकेषु लोकेष्वीश्वरो न सन्तुतोषेति हेतोस्ते प्रन्तरे निपातिताः। \p \v 6 एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं। \p \v 7 लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां। \p \v 8 अपरं तेषां कैश्चिद् यद्वद् व्यभिचारः कृतस्तेन चैकस्मिन् दिने त्रयोविंशतिसहस्राणि लोका निपातितास्तद्वद् अस्माभि र्व्यभिचारो न कर्त्तव्यः। \p \v 9 तेषां केचिद् यद्वत् ख्रीष्टं परीक्षितवन्तस्तस्माद् भुजङ्गै र्नष्टाश्च तद्वद् अस्माभिः ख्रीष्टो न परीक्षितव्यः। \p \v 10 तेषां केचिद् यथा वाक्कलहं कृतवन्तस्तत्कारणात् हन्त्रा विनाशिताश्च युष्माभिस्तद्वद् वाक्कलहो न क्रियतां। \p \v 11 तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः। \p \v 12 अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु। \p \v 13 मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति। \p \v 14 हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत। \p \v 15 अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां। \p \v 16 यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि? \p \v 17 वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः। \p \v 18 यूयं शारीरिकम् इस्रायेलीयवंशं निरीक्षध्वं। ये बलीनां मांसानि भुञ्जते ते किं यज्ञवेद्याः सहभागिनो न भवन्ति? \p \v 19 इत्यनेन मया किं कथ्यते? देवता वास्तविकी देवतायै बलिदानं वा वास्तविकं किं भवेत्? \p \v 20 तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि। \p \v 21 प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ। \p \v 22 वयं किं प्रभुं स्पर्द्धिष्यामहे? वयं किं तस्माद् बलवन्तः? \p \v 23 मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं। \p \v 24 आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः। \p \v 25 आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां \p \v 26 यतः पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य। \p \v 27 अपरम् अविश्वासिलोकानां केनचित् निमन्त्रिता यूयं यदि तत्र जिगमिषथ तर्हि तेन यद् यद् उपस्थाप्यते तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां। \p \v 28 किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य, \p \v 29 सत्यमेतत्, किन्तु मया यः संवेदो निर्द्दिश्यते स तव नहि परस्यैव। \p \v 30 अनुग्रहपात्रेण मया धन्यवादं कृत्वा यद् भुज्यते तत्कारणाद् अहं कुतो निन्दिष्ये? \p \v 31 तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां। \p \v 32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं। \p \v 33 अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत। \c 11 \p \v 1 हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे। \p \v 2 तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ, \p \v 3 एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः। \p \v 4 अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते। \p \v 5 अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा। \p \v 6 अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां। \p \v 7 पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा। \p \v 8 यतो योषातः पुमान् नोदपादि किन्तु पुंसो योषिद् उदपादि। \p \v 9 अधिकन्तु योषितः कृते पुंसः सृष्टि र्न बभूव किन्तु पुंसः कृते योषितः सृष्टि र्बभूव। \p \v 10 इति हेतो र्दूतानाम् आदराद् योषिता शिरस्यधीनतासूचकम् आवरणं धर्त्तव्यं। \p \v 11 तथापि प्रभो र्विधिना पुमांसं विना योषिन्न जायते योषितञ्च विना पुमान् न जायते। \p \v 12 यतो यथा पुंसो योषिद् उदपादि तथा योषितः पुमान् जायते, सर्व्ववस्तूनि चेश्वराद् उत्पद्यन्ते। \p \v 13 युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्? \p \v 14 पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं \p \v 15 यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते? \p \v 16 अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते। \p \v 17 युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः। \p \v 18 प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च। \p \v 19 यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव। \p \v 20 एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि; \p \v 21 यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति। \p \v 22 भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः। \p \v 23 प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः। \p \v 24 परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां। \p \v 25 पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां। \p \v 26 यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते। \p \v 27 अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति। \p \v 28 तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां। \p \v 29 येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च। \p \v 30 एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः। \p \v 31 अस्माभि र्यद्यात्मविचारोऽकारिष्यत तर्हि दण्डो नालप्स्यत; \p \v 32 किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे। \p \v 33 हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरोऽनुगृह्यतां। \p \v 34 यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते। \c 12 \p \v 1 हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि। \p \v 2 पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ। \p \v 3 इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति। \p \v 4 दाया बहुविधाः किन्त्वेक आत्मा \p \v 5 परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः। \p \v 6 साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः। \p \v 7 एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते। \p \v 8 एकस्मै तेनात्मना ज्ञानवाक्यं दीयते, अन्यस्मै तेनैवात्मनादिष्टं विद्यावाक्यम्, \p \v 9 अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः, \p \v 10 अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते। \p \v 11 एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते। \p \v 12 देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः। \p \v 13 यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम। \p \v 14 एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः। \p \v 15 तत्र चरणं यदि वदेत् नाहं हस्तस्तस्मात् शरीरस्य भागो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति। \p \v 16 श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति। \p \v 17 कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति? \p \v 18 किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं। \p \v 19 तत् कृत्स्नं यद्येकाङ्गरूपि भवेत् तर्हि शरीरे कुत्र स्थास्यति? \p \v 20 तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव। \p \v 21 अतएव त्वया मम प्रयोजनं नास्तीति वाचं पाणिं वदितुं नयनं न शक्नोति, तथा युवाभ्यां मम प्रयोजनं नास्तीति मूर्द्धा चरणौ वदितुं न शक्नोतिः; \p \v 22 वस्तुतस्तु विग्रहस्य यान्यङ्गान्यस्माभि र्दुर्ब्बलानि बुध्यन्ते तान्येव सप्रयोजनानि सन्ति। \p \v 23 यानि च शरीरमध्येऽवमन्यानि बुध्यते तान्यस्माभिरधिकं शोभ्यन्ते। यानि च कुदृश्यानि तानि सुदृश्यतराणि क्रियन्ते \p \v 24 किन्तु यानि स्वयं सुदृश्यानि तेषां शोभनम् निष्प्रयोजनं। \p \v 25 शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं। \p \v 26 तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति। \p \v 27 यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं। \p \v 28 केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि। \p \v 29 सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः? \p \v 30 सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः? \p \v 31 यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः। \c 13 \p \v 1 मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि। \p \v 2 अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि। \p \v 3 अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति। \p \v 4 प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च। \p \v 5 अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति, \p \v 6 अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति। \p \v 7 तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च। \p \v 8 प्रेम्नो लोपः कदापि न भविष्यति, ईश्वरीयादेशकथनं लोप्स्यते परभाषाभाषणं निवर्त्तिष्यते ज्ञानमपि लोपं यास्यति। \p \v 9 यतोऽस्माकं ज्ञानं खण्डमात्रम् ईश्वरीयादेशकथनमपि खण्डमात्रं। \p \v 10 किन्त्वस्मासु सिद्धतां गतेषु तानि खण्डमात्राणि लोपं यास्यन्ते। \p \v 11 बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्। \p \v 12 इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि। \p \v 13 इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं। \c 14 \p \v 1 यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं। \p \v 2 यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति; \p \v 3 किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते। \p \v 4 परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति। \p \v 5 युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्। \p \v 6 हे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे? \p \v 7 अपरं वंशीवल्लक्यादिषु निष्प्राणिषु वाद्ययन्त्रेषु वादितेषु यदि क्कणा न विशिष्यन्ते तर्हि किं वाद्यं किं वा गानं भवति तत् केन बोद्धुं शक्यते? \p \v 8 अपरं रणतूर्य्या निस्वणो यद्यव्यक्तो भवेत् तर्हि युद्धाय कः सज्जिष्यते? \p \v 9 तद्वत् जिह्वाभि र्यदि सुगम्या वाक् युष्माभि र्न गद्येत तर्हि यद् गद्यते तत् केन भोत्स्यते? वस्तुतो यूयं दिगालापिन इव भविष्यथ। \p \v 10 जगति कतिप्रकारा उक्तयो विद्यन्ते? तासामेकापि निरर्थिका नहि; \p \v 11 किन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते। \p \v 12 तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं, \p \v 13 अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां। \p \v 14 यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति। \p \v 15 इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि। \p \v 16 त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते? \p \v 17 त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति। \p \v 18 युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि; \p \v 19 तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि। \p \v 20 हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत। \p \v 21 शास्त्र इदं लिखितमास्ते, यथा, इत्यवोचत् परेशोऽहम् आभाषिष्य इमान् जनान्। भाषाभिः परकीयाभि र्वक्त्रैश्च परदेशिभिः। तथा मया कृतेऽपीमे न ग्रहीष्यन्ति मद्वचः॥ \p \v 22 अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव। \p \v 23 समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति? \p \v 24 किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते, \p \v 25 ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति। \p \v 26 हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां। \p \v 27 यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां। \p \v 28 किन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु। \p \v 29 अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु। \p \v 30 किन्तु तत्रापरेण केनचित् जनेनेश्वरीयादेशे लब्धे प्रथमेन कथनात् निवर्त्तितव्यं। \p \v 31 सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ। \p \v 32 ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति। \p \v 33 यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते। \p \v 34 अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं। \p \v 35 अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं। \p \v 36 ऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं? \p \v 37 यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु। \p \v 38 किन्तु यः कश्चित् अज्ञो भवति सोऽज्ञ एव तिष्ठतु। \p \v 39 अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां। \p \v 40 सर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां। \c 15 \p \v 1 हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूयञ्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज्ञापयामि। \p \v 2 युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते। \p \v 3 यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्, \p \v 4 श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः। \p \v 5 स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्। \p \v 6 ततः परं पञ्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते। \p \v 7 तदनन्तरं याकूबाय तत्पश्चात् सर्व्वेभ्यः प्रेरितेभ्यो दर्शनं दत्तवान्। \p \v 8 सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्। \p \v 9 ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि। \p \v 10 यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव। \p \v 11 अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता। \p \v 12 मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते? \p \v 13 मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः \p \v 14 ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः। \p \v 15 वयञ्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः। \p \v 16 यतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टोऽप्युत्थापितत्वं न गतः। \p \v 17 ख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ। \p \v 18 अपरं ख्रीष्टाश्रिता ये मानवा महानिद्रां गतास्तेऽपि नाशं गताः। \p \v 19 ख्रीष्टो यदि केवलमिहलोके ऽस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः। \p \v 20 इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च। \p \v 21 यतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता। \p \v 22 आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते। \p \v 23 किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः। \p \v 24 ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति। \p \v 25 यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं। \p \v 26 तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव। \p \v 27 लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं। \p \v 28 सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति। \p \v 29 अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते? \p \v 30 वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अङ्गीकुर्म्महे? \p \v 31 अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिनेऽहं मृत्युं गच्छामि। \p \v 32 इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति। \p \v 33 इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति। \p \v 34 यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते। \p \v 35 अपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति। \p \v 36 हे अज्ञ त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते। \p \v 37 यया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति। \p \v 38 ईश्वरेणेव यथाभिलाषं तस्मै मूर्त्ति र्दीयते, एकैकस्मै बीजाय स्वा स्वा मूर्त्तिरेव दीयते। \p \v 39 सर्व्वाणि पललानि नैकविधानि सन्ति, मनुष्यपशुपक्षिमत्स्यादीनां भिन्नरूपाणि पललानि सन्ति। \p \v 40 अपरं स्वर्गीया मूर्त्तयः पार्थिवा मूर्त्तयश्च विद्यन्ते किन्तु स्वर्गीयानाम् एकरूपं तेजः पार्थिवानाञ्च तदन्यरूपं तेजोऽस्ति। \p \v 41 सूर्य्यस्य तेज एकविधं चन्द्रस्य तेजस्तदन्यविधं ताराणाञ्च तेजोऽन्यविधं, ताराणां मध्येऽपि तेजसस्तारतम्यं विद्यते। \p \v 42 तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव। \p \v 43 यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं। \p \v 44 यत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते। \p \v 45 तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव। \p \v 46 आत्मसद्म न प्रथमं किन्तु प्राणसद्मैव तत्पश्चाद् आत्मसद्म। \p \v 47 आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः। \p \v 48 मृण्मयो यादृश आसीत् मृण्मयाः सर्व्वे तादृशा भवन्ति स्वर्गीयश्च यादृशोऽस्ति स्वर्गीयाः सर्व्वे तादृशा भवन्ति। \p \v 49 मृण्मयस्य रूपं यद्वद् अस्माभि र्धारितं तद्वत् स्वर्गीयस्य रूपमपि धारयिष्यते। \p \v 50 हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति। \p \v 51 पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि। \p \v 52 सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः। \p \v 53 यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं। \p \v 54 एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः। \p \v 55 मृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥ \p \v 56 मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था। \p \v 57 ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति। \p \v 58 अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत। \c 16 \p \v 1 पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां। \p \v 2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां। \p \v 3 ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि। \p \v 4 किन्तु यदि तत्र ममापि गमनम् उचितं भवेत् तर्हि ते मया सह यास्यन्ति। \p \v 5 साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि। \p \v 6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः। \p \v 7 यतोऽहं यात्राकाले क्षणमात्रं युष्मान् द्रष्टुं नेच्छामि किन्तु प्रभु र्यद्यनुजानीयात् तर्हि किञ्चिद् दीर्घकालं युष्मत्समीपे प्रवस्तुम् इच्छामि। \p \v 8 तथापि निस्तारोत्सवात् परं पञ्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि। \p \v 9 यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते। \p \v 10 तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते। \p \v 11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे। \p \v 12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति। \p \v 13 यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत। \p \v 14 युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां। \p \v 15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते। \p \v 16 अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत। \p \v 17 स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं। \p \v 18 तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः। \p \v 19 युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत। \p \v 20 सर्व्वे भ्रातरो युष्मान् नमस्कुर्व्वन्ते। यूयं पवित्रचुम्बनेन मिथो नमत। \p \v 21 पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये। \p \v 22 यदि कश्चिद् यीशुख्रीष्टे न प्रीयते तर्हि स शापग्रस्तो भवेत् प्रभुरायाति। \p \v 23 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्मान् प्रति भूयात्। \p \v 24 ख्रीष्टं यीशुम् आश्रितान् युष्मान् प्रति मम प्रेम तिष्ठतु। इति॥